0/4 readHide transliteration
को ऽयम् । आत्मेति वयम् उपास्महे । कतरः स आत्मा । येन वा पश्यति येन वा शृणोति येन वा गन्धाञ् जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति
ko 'yam | ātmeti vayam upāsmahe | kataraḥ sa ātmā | yena vā paśyati yena vā śṛṇoti yena vā gandhāñ jighrati yena vā vācaṃ vyākaroti yena vā svādu cāsvādu ca vijānāti
Sanskrit only: no published translation is held for this verse.
← PreviousMark as learned Next →
In this sitting
3.1.1 को ऽयम् । आत्मेति वयम् उपास्महे । कतरः स आत्मा । येन वा पश्यति येन वा शृणोति येन वा गन्धाञ् जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति 3.1.2 यद् एतद् धृदयं मनश् चैतत् । सञ्ज्ञानम् आज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर् धृतिर् मतिर् मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुर् असुः कामो वश इति सर्वाण्य् एवैतानि प्रज्ञानस्य नामधेयानि भवन्ति 3.1.3 एष ब्रह्मा । एष इन्द्रः । एष प्रजापतिः । एते सर्वे देवाः । इमानि च पञ्च महाभूतानि पृथिवी वायुर् आकाश आपो ज्योतींषीत्य् एतानीमानि क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत् किञ्चेदम् प्राणि जङ्गमं च पतत्रि च यच् च स्थावरम् । सर्वं तत् प्रज्ञानेत्रम् । प्रज्ञाने प्रतिष्ठितम् । प्रज्ञानेत्रो लोकः । प्रज्ञा प्रतिष्ठा । प्रज्ञानं ब्रह्म 3.1.4 स एतेन प्रज्ञेनात्मनास्माल् लोकाद् उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वामृतः समभवत् समभवत् See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.