0/8 readHide transliteration
भूमिर् अन्तरिक्षं द्यौर् इत्य् अष्टाव् अक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतद् उ हैवास्या एतत् । स यावद् एषु त्रिषु लोकेषु तावद् ध जयति यो ऽस्या एतद् एवं पदं वेद
bhūmir antarikṣaṃ dyaur ity aṣṭāv akṣarāṇi | aṣṭākṣaraṃ ha vā ekaṃ gāyatryai padam | etad u haivāsyā etat | sa yāvad eṣu triṣu lokeṣu tāvad dha jayati yo 'syā etad evaṃ padaṃ veda
The words Bhftmi (earth), Antariksha (sky), and Dyu (heaven) form eight syllables. One foot of the Gayatri consists of eight syllables. This (one foot) of it is that (i.e. the three worlds). And he who thus knows that foot of it, conquers as far as the three worlds extend.
Translated by F. Max MüllerFrom an unproofread scan of the printed edition; spelling and line breaks may carry OCR errors.
← PreviousMark as learned Next →
In this sitting
5.14.1 भूमिर् अन्तरिक्षं द्यौर् इत्य् अष्टाव् अक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतद् उ हैवास्या एतत् । स यावद् एषु त्रिषु लोकेषु तावद् ध जयति यो ऽस्या एतद् एवं पदं वेद 5.14.2 ऋचो यजूषि सामानीत्य् अष्टाव् अक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतद् उ हैवास्या एतत् । स यावतीयं त्रयी विद्या तावद् ध जयति यो ऽस्या एतद् एवं पदं वेद 5.14.3 प्राणो ऽपानो व्यान इत्य् अष्टाव् अक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतद् उ हैवास्या एतत् । स यावद् इदं प्राणि तावद् ध जयति यो ऽस्या एतद् एवं पदं वेद । अथास्या एतद् एव तुरीयं दर्शतं पदं परोरजा य एष तपति । यद् वै चतुर्थं तत् तुरीयम् । दर्शतं पदम् इति ददृश इव ह्य् एषः । परोरजा इति सर्वम् उ ह्य् एवैष रज उपर्य् उपरि तपति । एवं हैव श्रिया यशसा तपति यो ऽस्या एतद् एवं पदं वेद 5.14.4 सैषा गायत्र्य् एतस्मिंस् तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता । तद् वै तत् सत्ये प्रतिष्ठितम् । चक्षुर् वै सत्यम् । चक्षुर् हि वै सत्यम् । तस्माद् यद् इदानीं द्वौ विवदमानाव् एयातम् अहम् अदर्शम् अहम् अश्रौषम् इति । य एवं ब्रूयाद् अहम् अदर्शम् इति । तस्मा एव श्रद्दध्याम । तद् वै तत् सत्यं बले प्रतिष्ठितम् । प्राणो वै बलम् । तत् प्राणे प्रतिष्ठितम् । तस्माद् आहुर् बलं सत्याद् ओगीय इति । एवं व् एषा गायत्र्य् अध्यात्मं प्रतिष्ठिता । सा हैषा गयांस् तत्रे । प्राणा वै गयाः । तत् प्राणास् तत्रे । तद् यद् गयांस् तत्रे तस्माद् गायत्री नाम । स याम् एवामूं सावित्रीम् अन्वाहैषैव सा । स यस्मा अन्वाह तस्य प्राणांस् त्रायते 5.14.5 तां हैताम् एके सावित्रीम् अनुष्टुभम् अन्वाहुः । वाग् अनुष्टुप् । एतद् वाचम् अनुब्रूम इति । न तथा कुर्यात् । गायत्रीम् एव सावित्रीम् आनुब्रूयात् । यदि ह वा अप्य् एवंविद् बह्व् इव प्रतिगृह्णाति न हैव तद् गायत्र्या एकं चन पदं प्रति 5.14.6 स य इमांस् त्रींल् लोकान् पूर्णान् प्रतिगृह्णीयात् सो ऽस्या एतत् प्रथमं पदम् आप्नुयात् । अथ यावतीयं त्रयी विद्या यस् तावत् प्रतिगृह्णीयात् सो ऽस्या एतद् द्वितीयं पदम् आप्नुयात् । अथ यावद् इदं प्राणि यस् तावत् प्रतिगृह्णीयात् सो ऽस्या एतत् तृतीयं पदम् आप्नुयात् । अथास्या एतद् एव तुरीयं दर्शतं पदं परोरजा य एष तपति । नैव केन चनाप्यम् । कुत उ एतावत् प्रतिगृह्णीयात् 5.14.7 तस्या उपस्थानम् । गायत्र्य् अस्य् एकपदी द्विपदी त्रिपदी चतुष्पदि । अपद् असि । न हि पद्यसे । नमस् ते तुरीयाय दर्शताय पदाय परोरजसे । असाव् अदो मा प्रापद् इति । यं द्विष्याद् असाव् अस्मै कामो मा समर्धीति वा । न हैवास्मै स कामः समृध्यते यस्मा एवम् उपतिष्ठते । अहम् अदः प्रापम् इति वा 5.14.8 एतद् ध वै तज् जनको वैदेहो बुडिलम् आश्वतराश्विम् उवाच -- यन् नु हो तद् गायत्रीविद् अब्रूथाः । अथ कथं हस्तीभूतो वहसीति । मुखं ह्य् अस्याः सम्राण् न विदां चकरेति होवाच । तस्या अग्निर् एव मुखम् । यदि ह वा अपि बह्व् इवाग्नाव् अभ्यादधति सर्वम् एव तत् संदहति । एवं हैवैवंविद् यद्य् अपि बह्व् इव पापं कुरुते सर्वम् एव तत् संप्साय शुद्धः पूतो ऽजरो ऽमृतः संभवति Which verse says this?
The words Bhftmi (earth), Antariksha (sky), and Dyu (heaven) form eight syllables. One foot of the Gayatri consists of eight syllables. This (one foot) of it is that (i.e. the three worlds). And he who thus knows that foot of it, conquers as far as the three worlds extend.
Translated by F. Max Müller
प्राणो ऽपानो व्यान इत्य् अष्टाव् अक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतद् उ हैवास्या एतत् । स यावद् इदं प्राणि तावद् ध जयति यो ऽस्या एतद् एवं पदं वेद । अथास्या एतद् एव तुरीयं दर्शतं पदं परोरजा य एष तपति । यद् वै चतुर्थं तत् तुरीयम् । दर्शतं पदम् इति ददृश इव ह्य् एषः । परोरजा इति सर्वम् उ ह्य् एवैष रज उपर्य् उपरि तपति । एवं हैव श्रिया यशसा तपति यो ऽस्या एतद् एवं पदं वेद भूमिर् अन्तरिक्षं द्यौर् इत्य् अष्टाव् अक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतद् उ हैवास्या एतत् । स यावद् एषु त्रिषु लोकेषु तावद् ध जयति यो ऽस्या एतद् एवं पदं वेद ऋचो यजूषि सामानीत्य् अष्टाव् अक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतद् उ हैवास्या एतत् । स यावतीयं त्रयी विद्या तावद् ध जयति यो ऽस्या एतद् एवं पदं वेद See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.