0/3 readHide transliteration
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यम् ऊषुः । देवा मनुष्या असुराः । उषित्वा ब्रह्मचर्यं देवा ऊचुर् ब्रवीतु नो भवान् इति । तेभ्यो हैतद् अक्षरम् उवाच द इति । व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुः । दाम्यतेति न आत्थेति । ओम् इति होवाच व्यज्ञासिष्टेति
trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryam ūṣuḥ | devā manuṣyā asurāḥ | uṣitvā brahmacaryaṃ devā ūcur bravītu no bhavān iti | tebhyo haitad akṣaram uvāca da iti | vyajñāsiṣṭā3 iti | vyajñāsiṣmeti hocuḥ | dāmyateti na āttheti | om iti hovāca vyajñāsiṣṭeti
The threefold descendants of Pra^apati, gods, men, and Asuras (evil spirits), dwelt as Brahma^a- rins (students) with their father Pra^apati. Having finished their studentship the gods said: ‘Tell us (something), Sir,’ He told them the syllable Da. Then he said: ‘ Did you understand?’ They said: ‘We did understand. You told us “Damyata,” Be subdued.’ ‘Yes,’ he said, ‘you have understood.’
Translated by F. Max MüllerFrom an unproofread scan of the printed edition; spelling and line breaks may carry OCR errors.
← PreviousMark as learned Next →
In this sitting
5.2.1 त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यम् ऊषुः । देवा मनुष्या असुराः । उषित्वा ब्रह्मचर्यं देवा ऊचुर् ब्रवीतु नो भवान् इति । तेभ्यो हैतद् अक्षरम् उवाच द इति । व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुः । दाम्यतेति न आत्थेति । ओम् इति होवाच व्यज्ञासिष्टेति 5.2.2 अथ हैनं मनुष्या ऊचुर् ब्रवीतु नो भवान् इति । तेभ्यो हैतद् एवाक्षरम् उवाच द इति । व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुः । दत्तेति न आत्थेति । ओम् इति होवाच व्यज्ञासिष्टेति 5.2.3 अथ हैनम् असुरा ऊचुर् ब्रवीतु नो भवान् इति । तेभ्यो हैतद् एवाक्षरम् उवाच द इति । व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुः । दयध्वम् इति न आत्थेति । ओम् इति होवाच व्यज्ञासिष्टेति । तद् एतद् एवैषा दैवी वाग् अनुवदति स्तनयित्नुर् द द द इति । दम्यत दत्त दयध्वम् इति । तद् एतत् त्रयं शिक्षेद् दमम् दानम् दयाम् इति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.