0/4 readHide transliteration
आप एवेदम् अग्र आसुः । ता आपः सत्यम् असृजन्त । सत्यं ब्रह्म । ब्रह्म प्रजापतिम् । प्रजापतिर् देवान् । ते देवाः सत्यम् एवोपासते । तद् एतत् त्र्यक्षरं स-ति-यम् इति स इत्य् एकम् अक्षरम् । तीत्य् एकम् अक्षरम् । यम् इत्य् एकम् अक्षरम् । प्रथमोत्तमे अक्षरे सत्यम् मध्यतो ऽनृतम् । तद् एतद् अनृतम् उभयतः सत्येन परिगृहीतम् । सत्यभूयम् एव भवति । नैवंविद्वांसम् अनृतं हिनस्ति
āpa evedam agra āsuḥ | tā āpaḥ satyam asṛjanta | satyaṃ brahma | brahma prajāpatim | prajāpatir devān | te devāḥ satyam evopāsate | tad etat tryakṣaraṃ sa-ti-yam iti sa ity ekam akṣaram | tīty ekam akṣaram | yam ity ekam akṣaram | prathamottame akṣare satyam madhyato 'nṛtam | tad etad anṛtam ubhayataḥ satyena parigṛhītam | satyabhūyam eva bhavati | naivaṃvidvāṃsam anṛtaṃ hinasti
In the beginning this (world) was water. Water produced the true *, and the true is Brahman. Brahman produced Pra^apati, Pra^apati the Devas (gods). The Devas adore the true (satyam) alone. This satyam consists of three syllables. One syllable is sa, another t(i), the third yam. The first and last syllables are true, in the middle there is the untrue. This untrue is on both sides enclosed by the true, and thus the true preponderates. The untrue does not hurt him who knows this.
Translated by F. Max MüllerFrom an unproofread scan of the printed edition; spelling and line breaks may carry OCR errors.
← PreviousMark as learned Next →
In this sitting
5.5.1 आप एवेदम् अग्र आसुः । ता आपः सत्यम् असृजन्त । सत्यं ब्रह्म । ब्रह्म प्रजापतिम् । प्रजापतिर् देवान् । ते देवाः सत्यम् एवोपासते । तद् एतत् त्र्यक्षरं स-ति-यम् इति स इत्य् एकम् अक्षरम् । तीत्य् एकम् अक्षरम् । यम् इत्य् एकम् अक्षरम् । प्रथमोत्तमे अक्षरे सत्यम् मध्यतो ऽनृतम् । तद् एतद् अनृतम् उभयतः सत्येन परिगृहीतम् । सत्यभूयम् एव भवति । नैवंविद्वांसम् अनृतं हिनस्ति 5.5.2 तद् यत् तत् सत्यम् असौ स आदित्यः । य एष एतस्मिन् मण्डले पुरुषो यश् चायं दक्षिणे ऽक्षन् पुरुषस् ताव् एताव् अन्यो ऽन्यस्मिन् प्रतिष्ठितौ । रश्मिभिर् एषो ऽस्मिन् प्रतिष्ठितः प्राणैर् अयम् अमुष्मिन् । स यदोत्क्रमिष्यन् भवति शुद्धम् एवैतन् मण्डलं पश्यति । नैनम् एते रश्मयः प्रत्यायन्ति 5.5.3 य एष एतस्मिन् मण्डले पुरुषस् तस्य भूर् इति शिरः । एकं शिर एकम् एतद् अक्षरम् । भुव इति बाहू । द्वौ बाहू द्वे एते अक्षरे । स्वर् इति प्रतिष्ठा । द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषद् अहर् इति । हन्ति पाप्मानं जहाति च य एवं वेद 5.5.4 यो ऽयं दक्षिणे ऽक्षन् पुरुषस् तस्य भूर् इति शिरः । एकं शिर एकम् एतद् अक्षरम् । भुव इति बाहू । द्वौ बाहू द्वे एते अक्षरे । स्वर् इति प्रतिष्ठा । द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषद् अहम् इति । हन्ति पाप्मानं जहाति च य एवं वेद Which verse says this?
In the beginning this (world) was water. Water produced the true *, and the true is Brahman. Brahman produced Pra^apati, Pra^apati the Devas (gods). The Devas adore the true (satyam) alone. This satyam consists of three syllables. One syllable is sa, another t(i), the third yam. The first and last syllables are true, in the middle there is the untrue. This untrue is on both sides enclosed by the true, and thus the true preponderates. The untrue does not hurt him who knows this.
Translated by F. Max Müller
आप एवेदम् अग्र आसुः । ता आपः सत्यम् असृजन्त । सत्यं ब्रह्म । ब्रह्म प्रजापतिम् । प्रजापतिर् देवान् । ते देवाः सत्यम् एवोपासते । तद् एतत् त्र्यक्षरं स-ति-यम् इति स इत्य् एकम् अक्षरम् । तीत्य् एकम् अक्षरम् । यम् इत्य् एकम् अक्षरम् । प्रथमोत्तमे अक्षरे सत्यम् मध्यतो ऽनृतम् । तद् एतद् अनृतम् उभयतः सत्येन परिगृहीतम् । सत्यभूयम् एव भवति । नैवंविद्वांसम् अनृतं हिनस्ति यो ऽयं दक्षिणे ऽक्षन् पुरुषस् तस्य भूर् इति शिरः । एकं शिर एकम् एतद् अक्षरम् । भुव इति बाहू । द्वौ बाहू द्वे एते अक्षरे । स्वर् इति प्रतिष्ठा । द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषद् अहम् इति । हन्ति पाप्मानं जहाति च य एवं वेद तद् यत् तत् सत्यम् असौ स आदित्यः । य एष एतस्मिन् मण्डले पुरुषो यश् चायं दक्षिणे ऽक्षन् पुरुषस् ताव् एताव् अन्यो ऽन्यस्मिन् प्रतिष्ठितौ । रश्मिभिर् एषो ऽस्मिन् प्रतिष्ठितः प्राणैर् अयम् अमुष्मिन् । स यदोत्क्रमिष्यन् भवति शुद्धम् एवैतन् मण्डलं पश्यति । नैनम् एते रश्मयः प्रत्यायन्ति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.