0/5 readHide transliteration
विनर्दि साम्नो वृणे पशव्यम् इत्य् अग्नेर् उद्गीथः । अनिरुक्तः प्रजापतेः । निरुक्तः सोमस्य । मृदु श्लक्ष्णं वायोः । श्लक्ष्णं बलवद् इन्द्रस्य । क्रौञ्चं बृहस्पतेः । अपध्वान्तं वरुणस्य । तान् सर्वान् एवोपसेवेत । वारुणं त्व् एव वर्जयेत्
vinardi sāmno vṛṇe paśavyam ity agner udgīthaḥ | aniruktaḥ prajāpateḥ | niruktaḥ somasya | mṛdu ślakṣṇaṃ vāyoḥ | ślakṣṇaṃ balavad indrasya | krauñcaṃ bṛhaspateḥ | apadhvāntaṃ varuṇasya | tān sarvān evopaseveta | vāruṇaṃ tv eva varjayet
The udgîtha, of which a poet said, I choose the deep sounding note of the Sâman as good for cattle, belongs to Agni; the indefinite note belongs to Pragâpati, the definite note to Soma, the soft and smooth note to Vâyu, the smooth and strong note to Indra, the heron-like note to Brihaspati, the dull note to Varuna. Let a man cultivate all of these, avoiding, however, that of Varuna.
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
2.22.1 विनर्दि साम्नो वृणे पशव्यम् इत्य् अग्नेर् उद्गीथः । अनिरुक्तः प्रजापतेः । निरुक्तः सोमस्य । मृदु श्लक्ष्णं वायोः । श्लक्ष्णं बलवद् इन्द्रस्य । क्रौञ्चं बृहस्पतेः । अपध्वान्तं वरुणस्य । तान् सर्वान् एवोपसेवेत । वारुणं त्व् एव वर्जयेत् 2.22.2 अमृतत्वं देवेभ्य आगायानीत्य् आगायेत् । स्वधां पितृभ्य आशां मनुष्येभ्यस् तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नम् आत्मन आगायानीत्य् एतानि मनसा ध्यायन्न् अप्रमत्तः स्तुवीत 2.22.3 सर्वे स्वरा इन्द्रस्यात्मानः । सर्व ऊष्माणः प्रजापतेर् आत्मानः । सर्वे स्पर्शा मृत्योर् आत्मानः । तं यदि स्वरेषूपालभेत । इन्द्रं शरणं प्रपन्नो ऽभूवं स त्वा प्रति वक्ष्यतीत्य् एनं ब्रूयात् 2.22.4 अथ यद्य् एनम् ऊष्मासूपालभेत । प्रजापतिं शरणं प्रपन्नो ऽभूवं स त्वा प्रति पेक्ष्यतीत्य् एनं ब्रूयात् । अथ यद्य् एनं स्पर्शेषूपालभेत । मृत्युं शरणं प्रपन्नो ऽभूवं स त्वा प्रति धक्ष्यतीत्य् एनं ब्रूयात् 2.22.5 सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति । सर्व ऊष्माणो ऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेर् आत्मानं परिददानीति । सर्वे स्पर्शा लेशेनानभिनिहिता वक्तव्या मृत्योर् आत्मानं परिहराणीति Which verse says this?
The udgîtha, of which a poet said, I choose the deep sounding note of the Sâman as good for cattle, belongs to Agni; the indefinite note belongs to Pragâpati, the definite note to Soma, the soft and smooth note to Vâyu, the smooth and strong note to Indra, the heron-like note to Brihaspati, the dull note to Varuna. Let a man cultivate all of these, avoiding, however, that of Varuna.
Translated by F. Max Müller
सर्वे स्वरा इन्द्रस्यात्मानः । सर्व ऊष्माणः प्रजापतेर् आत्मानः । सर्वे स्पर्शा मृत्योर् आत्मानः । तं यदि स्वरेषूपालभेत । इन्द्रं शरणं प्रपन्नो ऽभूवं स त्वा प्रति वक्ष्यतीत्य् एनं ब्रूयात् विनर्दि साम्नो वृणे पशव्यम् इत्य् अग्नेर् उद्गीथः । अनिरुक्तः प्रजापतेः । निरुक्तः सोमस्य । मृदु श्लक्ष्णं वायोः । श्लक्ष्णं बलवद् इन्द्रस्य । क्रौञ्चं बृहस्पतेः । अपध्वान्तं वरुणस्य । तान् सर्वान् एवोपसेवेत । वारुणं त्व् एव वर्जयेत् अमृतत्वं देवेभ्य आगायानीत्य् आगायेत् । स्वधां पितृभ्य आशां मनुष्येभ्यस् तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नम् आत्मन आगायानीत्य् एतानि मनसा ध्यायन्न् अप्रमत्तः स्तुवीत See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.