0/7 readHide transliteration
यद् अग्ने रोहितं रूपं तेजसस् तद् रूपम् । यच् छुक्लं तद् अपाम् । यत् कृष्णं तद् अन्नस्य । अपागाद् अग्नेर् अग्नित्वम् । वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम्
yad agne rohitaṃ rūpaṃ tejasas tad rūpam | yac chuklaṃ tad apām | yat kṛṣṇaṃ tad annasya | apāgād agner agnitvam | vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam
'The red colour of burning fire (agni) is the colour of fire, the white colour of fire is the colour of water, the black colour of fire the colour of earth. Thus vanishes what we call fire, as a mere variety, being a name, arising from speech. What is true (satya) are the three colours (or forms).
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
6.4.1 यद् अग्ने रोहितं रूपं तेजसस् तद् रूपम् । यच् छुक्लं तद् अपाम् । यत् कृष्णं तद् अन्नस्य । अपागाद् अग्नेर् अग्नित्वम् । वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम् 6.4.2 यद् आदित्यस्य रोहितं रूपं तेजसस् तद् रूपम् । यच् छुक्लं तद् अपाम् । यत् कृष्णं तद् अन्नस्य । अपागाद् आदित्याद् आदित्यत्वम् । वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम् 6.4.3 यच् चन्द्रमसो रोहितं रूपं तेजसस् तद् रूपम् । यच् छुक्लं तद् अपाम् । यत् कृष्णं तद् अन्नस्य । अपागाच् चन्द्राच् चन्द्रत्वम् । वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम् 6.4.4 यद् विद्युतो रोहितं रूपं तेजसस् तद् रूपम् । यच् छुक्लं तद् अपाम् । यत् कृष्णं तद् अन्नस्य । अपागाद् विद्युतो विद्युत्त्वम् । वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम् 6.4.5 एतद् ध स्म वै तद्विद्वांस आहुः पूर्वे महाशाला महाश्रोत्रियाः । न नो ऽद्य कश्चनाश्रुतम् अमतम् अविज्ञातम् उदाहरिष्यति । इति ह्य् एभ्यो विदां चक्रुः 6.4.6 यद् उ रोहितम् इवाभूद् इति तेजसस् तद् रूपम् इति तद् विदां चक्रुः । यद् उ शुक्लम् इवाभूद् इत्य् अपां रूपम् इति तद् विदां चक्रुः । यद् उ कृष्णम् इवाभूद् इत्य् अन्नस्य रूपम् इति तद् विदां चक्रुः 6.4.7 यद् व् अविज्ञातम् इवाभूद् इत्य् एतासाम् एव देवतानां समास इति तद् विदां चक्रुः । यथा नु खलु सोम्येमास् तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृद् एकैका भवति तन् मे विजानीहीति Which verse says this?
'The red colour of burning fire (agni) is the colour of fire, the white colour of fire is the colour of water, the black colour of fire the colour of earth. Thus vanishes what we call fire, as a mere variety, being a name, arising from speech. What is true (satya) are the three colours (or forms).
Translated by F. Max Müller
यद् अग्ने रोहितं रूपं तेजसस् तद् रूपम् । यच् छुक्लं तद् अपाम् । यत् कृष्णं तद् अन्नस्य । अपागाद् अग्नेर् अग्नित्वम् । वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम् यद् आदित्यस्य रोहितं रूपं तेजसस् तद् रूपम् । यच् छुक्लं तद् अपाम् । यत् कृष्णं तद् अन्नस्य । अपागाद् आदित्याद् आदित्यत्वम् । वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम् यद् उ रोहितम् इवाभूद् इति तेजसस् तद् रूपम् इति तद् विदां चक्रुः । यद् उ शुक्लम् इवाभूद् इत्य् अपां रूपम् इति तद् विदां चक्रुः । यद् उ कृष्णम् इवाभूद् इत्य् अन्नस्य रूपम् इति तद् विदां चक्रुः See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.