0/5 readHide transliteration
अधीहि भगव इति होपससाद सनत्कुमारं नारदः । तं होवाच यद् वेत्थ तेन मोपसीद । ततस् त ऊर्ध्वं वक्ष्यामीति । स होवाच
adhīhi bhagava iti hopasasāda sanatkumāraṃ nāradaḥ | taṃ hovāca yad vettha tena mopasīda | tatas ta ūrdhvaṃ vakṣyāmīti | sa hovāca
Nârada approached Sanatkumâra and said, 'Teach me, Sir!' Sanatkumâra said to him: 'Please to tell me what you know; afterward I shall tell you what is beyond.'
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
7.1.1 अधीहि भगव इति होपससाद सनत्कुमारं नारदः । तं होवाच यद् वेत्थ तेन मोपसीद । ततस् त ऊर्ध्वं वक्ष्यामीति । स होवाच 7.1.2 ऋग्वेदं भगवो ऽध्येमि यजुर्वेदं सामवेदम् आथर्वणं चतुर्थम् इतिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यम् एकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्याम् एतद् भगवो ऽध्येमि 7.1.3 सो ऽहं भगवो मन्त्रविद् एवास्मि नात्मवित् । श्रुतं ह्य् एव मे भगवद्दृशेभ्यस् तरति शोकम् आत्मविद् इति । सो ऽहं भगवः शोचामि । तं मा भगवाञ् छोकस्य पारं तारयत्व् इति । तं होवाच यद् वै किंचैतद् अध्यगीष्ठा नामैवैतत् 7.1.4 नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश् चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर् दैवो निधिर् वाकोवाक्यम् एकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या । नामैवैतत् । नामोपास्स्वेति 7.1.5 स यो नाम ब्रह्मेत्य् उपास्ते । यावन् नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्य् उपास्ते । अस्ति भगवो नाम्नो भूय इति । नाम्नो वाव भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति Which verse says this?
Nârada approached Sanatkumâra and said, 'Teach me, Sir!' Sanatkumâra said to him: 'Please to tell me what you know; afterward I shall tell you what is beyond.'
Translated by F. Max Müller
सो ऽहं भगवो मन्त्रविद् एवास्मि नात्मवित् । श्रुतं ह्य् एव मे भगवद्दृशेभ्यस् तरति शोकम् आत्मविद् इति । सो ऽहं भगवः शोचामि । तं मा भगवाञ् छोकस्य पारं तारयत्व् इति । तं होवाच यद् वै किंचैतद् अध्यगीष्ठा नामैवैतत् अधीहि भगव इति होपससाद सनत्कुमारं नारदः । तं होवाच यद् वेत्थ तेन मोपसीद । ततस् त ऊर्ध्वं वक्ष्यामीति । स होवाच ऋग्वेदं भगवो ऽध्येमि यजुर्वेदं सामवेदम् आथर्वणं चतुर्थम् इतिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यम् एकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्याम् एतद् भगवो ऽध्येमि See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.