0/2 readHide transliteration
अन्नं वाव बलाद् भूयः । तस्माद् यद्य् अपि दश रात्रीर् नाश्नीयात् । यद्य् उ ह जीवेत् । अथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता भवति । अथान्नस्याये द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति । अन्नम् उपास्स्वेति
annaṃ vāva balād bhūyaḥ | tasmād yady api daśa rātrīr nāśnīyāt | yady u ha jīvet | athavādraṣṭāśrotāmantāboddhākartāvijñātā bhavati | athānnasyāye draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati | annam upāssveti
'Food (anna) is better than power. Therefore if a man abstain from food for ten days, though he live, he would be unable to see, hear, perceive, think, act, and understand. But when he obtains food, he is able to see, hear, perceive, think, act, and understand. Meditate on food.
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
7.9.1 अन्नं वाव बलाद् भूयः । तस्माद् यद्य् अपि दश रात्रीर् नाश्नीयात् । यद्य् उ ह जीवेत् । अथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता भवति । अथान्नस्याये द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति । अन्नम् उपास्स्वेति 7.9.2 स यो ऽन्नं ब्रह्मेत्य् उपास्ते । अन्नवतो वै स लोकान् पानवतो ऽभिसिध्यति । यावद् अन्नस्य गतं तत्रास्य यथाकामचारो भवति यो ऽन्नं ब्रह्मेत्य् उपास्ते । अस्ति भगवो ऽन्नाद् भूय इति । अन्नाद् वाव भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.