0/6 readHide transliteration
अथ यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्न् अन्तराकासः । तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं तद् वाव विजिज्ञासितव्यम् इति
atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāsaḥ | tasmin yad antas tad anveṣṭavyaṃ tad vāva vijijñāsitavyam iti
Harih, Om. There is this city of Brahman (the body), and in it the palace, the small lotus (of the heart), and in it that small ether. Now what exists within that small ether, that is to be sought for, that is to be understood.
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
8.1.1 अथ यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्न् अन्तराकासः । तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं तद् वाव विजिज्ञासितव्यम् इति 8.1.2 तं चेद् ब्रूयुर् यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्न् अन्तराकाशः किं तद् अत्र विद्यते यद् अन्वेष्टव्यं यद् वाव विजिज्ञासितव्यम् इति । स ब्रूयात् 8.1.3 यावान् वा अयम् आकाशस् तावान् एषो ऽन्तर्हृदय आकाशः । उभे ऽस्मिन् द्यावापृथिवी अन्तर् एव समाहिते । उभाव् अग्निश् च वायुश् च सूर्याचन्द्रमसाव् उभौ विद्युन् नक्षत्राणि । यच् चास्येहास्ति यच् च नास्ति सर्वं तद् अस्मिन् समाहितम् इति 8.1.4 तं चेद् ब्रूयुर् अस्मिंश् चेदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यद् एनज् जरा वाप्नोति प्रध्वंसते वा किं ततो ऽतिशिष्यत इति 8.1.5 स ब्रूयात् । नास्य जरयैतज् जीर्यति न वधेनास्य हन्यते । एतत् सत्यं ब्रह्मपुरम् अस्मिन् कामाः समाहिताः । एष आत्मापहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पः । यथा ह्य् एवेह प्रजा अन्वाविशन्ति यथानुशासनम् । यं यम् अन्तम् अभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तम् एवोपजीवन्ति 8.1.6 तद् यथेह कर्मजितो लोकः क्षीयत एवम् एवामुत्र पुण्यजितो लोकः क्षीयते । तद् य इहात्मानम् अननुविद्य व्रजन्त्य् एतांश् च सत्यान् कामांस् तेषां सर्वेषु लोकेष्व् अकामचारो भवति । अथ य इहात्मानम् अनिवुद्य व्रजन्त्य् एतंश् च सत्यान् कामांस् तेषां सर्वेषु लोकेषु कामचारो भवति Which verse says this?
Harih, Om. There is this city of Brahman (the body), and in it the palace, the small lotus (of the heart), and in it that small ether. Now what exists within that small ether, that is to be sought for, that is to be understood.
Translated by F. Max Müller
तं चेद् ब्रूयुर् यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्न् अन्तराकाशः किं तद् अत्र विद्यते यद् अन्वेष्टव्यं यद् वाव विजिज्ञासितव्यम् इति । स ब्रूयात् तद् यथेह कर्मजितो लोकः क्षीयत एवम् एवामुत्र पुण्यजितो लोकः क्षीयते । तद् य इहात्मानम् अननुविद्य व्रजन्त्य् एतांश् च सत्यान् कामांस् तेषां सर्वेषु लोकेष्व् अकामचारो भवति । अथ य इहात्मानम् अनिवुद्य व्रजन्त्य् एतंश् च सत्यान् कामांस् तेषां सर्वेषु लोकेषु कामचारो भवति अथ यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्न् अन्तराकासः । तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं तद् वाव विजिज्ञासितव्यम् इति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.