0/29 readHide transliteration
कठोपनिषत् उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस
kaṭhopaniṣat uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau / tasya ha naciketā nāma putra āsa
Vahasrava, being desirous of heavenly rewards (at the Viswajit sacrifice), made a gift of all that he possessed. He had a son by the name of Nachiketas.
Translated by Swami Paramananda
Vâgasravasa, desirous (of heavenly rewards), surrendered (at a sacrifice) all that he possessed. He had a son of the name of Nakiketas.
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
1.1.1 कठोपनिषत् उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस 1.1.2 तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश । सो ऽमन्यत 1.1.3 पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । अनन्दा नाम ते लोकास् तान् स गच्छति ता ददत् 1.1.4 स होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं तृतीयम् । तं होवाच मृत्यवे त्वा ददामीति 1.1.5 बहूनाम् एमि प्रथमो बहूनाम् एमि मध्यमः । किं स्विद् यमस्य कर्तव्यं यन् मयाद्य करिष्यति 1.1.6 अनुपश्य यथा पूर्वे प्रतिपश्य तथापरे । सस्यम् इव मर्त्यः पच्यते सस्यम् इवाजायते पुनः 1.1.7 वैश्वानरः प्रविशति अतिथिर् ब्राह्मणो गृहान् । तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् 1.1.8 आशाप्रतीक्षे संगतं सूनृतां च इष्टापूर्ते पुत्रपशूंश् च सर्वान् । एतद् वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे 1.1.9 तिस्रो रात्रीर् यद् अवत्सीर् गृहे मे अनश्नन् ब्रह्मन्न् अतिथिर् नमस्यः । नमस् ते ऽस्तु ब्रह्मन् स्वस्ति मे ऽस्तु तस्मात् प्रति त्रीन् वरान् वृणीष्व 1.1.10 शान्तसङ्कल्पः सुमना यथा स्याद् वीतमन्युर् गौतमो माभि मृत्यो । त्वत्प्रसृष्टं माभिवदेत् प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे 1.1.11 यथा पुरस्ताद् भविता प्रतीत औद्दालकिर् आरुणिर् मत्प्रसृष्टः । सुखं रात्रीः शयिता वीतमन्युस् त्वां ददृशिवान् मृत्युमुखात् प्रमुक्तम् 1.1.12 स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया बिभेति । उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके 1.1.13 स त्वम् अग्निं स्वर्ग्यम् अध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्त एतद् द्वितीयेन वृणे वरेण 1.1.14 प्र ते ब्रवीमि तद् उ मे निबोध स्वर्ग्यम् अग्निं नचिकेतः प्रजानन् । अनन्तलोकाप्तिम् अथो प्रतिष्ठां विद्धि त्वम् एतं निहितं गुहायाम् 1.1.15 लोकादिम् अग्निं तम् उवाच तस्मै या इष्टका यावतीर् वा यथा वा । स चापि तत् प्रत्यवदद् यथोक्तम् अथास्य मृत्युः पुनर् आह तुष्टः 1.1.16 तम् अब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः । तवैव नाम्ना भवितायम् अग्निः सृङ्कां चेमाम् अनेकरूपां गृहाण 1.1.17 त्रिणाचिकेतस् त्रिभिर् एत्य सन्धिं त्रिकर्मकृत् तरति जन्ममृत्यू । ब्रह्मजज्ञं देवम् ईड्यं विदित्वा निचाय्येमां शान्तिम् अत्यन्तम् एति 1.1.18 त्रिणाचिकेतस् त्रयम् एतद् विदित्वा य एवं विद्वांश् चिनुते नाचिकेतम् । स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके 1.1.19 एष ते ऽग्निर् नचिकेतः स्वर्ग्यो यम् अवृणीथा द्वितीयेन वरेण । एतम् अग्निं तवैव प्रवक्ष्यन्ति जनासस् तृतीयं वरं नचिकेतो वृणीष्व 1.1.20 येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्य् एके नायम् अस्तीति चैके । एतद् विद्याम् अनुशिष्टस् त्वयाहं वराणाम् एष वरस् तृतीयः 1.1.21 देवैर् अत्रापि विचिकित्सितं पुरा न हि सुज्ञेयम् अणुर् एष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीर् अति मा सृजैनम् 1.1.22 देवैर् अत्रापि विचिकित्सितं किल त्वं च मृत्यो यन् न सुज्ञेयम् आत्थ । वक्ता चास्य त्वादृग् अन्यो न लभ्यो नान्यो वरस् तुल्य एतस्य कश्चित् 1.1.23 शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यम् अश्वान् । भूमेर् महद् आयतनं वृणीष्व स्वयं च जीव शरदो यावद् इच्छसि 1.1.24 एतत् तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च । महाभूमौ नचिकेतस् त्वम् एधि कामानां त्वा कामभाजं करोमि 1.1.25 ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामांश् छन्दतः प्रार्थयस्व । इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः । आभिर् मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः 1.1.26 श्वोभावा मर्त्यस्य यद् अन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः । अपि सर्वं जीवितम् अल्पम् एव तवैव वाहास् तव नृत्यगीते 1.1.27 न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तम् अद्राक्ष्म चेत् त्वा । जीविष्यामो यावद् ईशिष्यसि त्वं वरस् तु मे वरणीयः स एव 1.1.28 अजीर्यताम् अमृतानाम् उपेत्य जीर्यन् मर्त्यः क्वधःस्थः प्रजानन् । अभिध्यायन् वर्णरतिप्रमोदान् अतिदीर्घे जीविते को रमेत 1.1.29 यस्मिन्न् इदं विचिकित्सन्ति मृत्यो यत् साम्पराये महति ब्रूहि नस् तत् । यो ऽयं वरो गूढम् अनुप्रविष्टो नान्यं तस्मान् नचिकेता वृणीते Which verse says this?
Vahasrava, being desirous of heavenly rewards (at the Viswajit sacrifice), made a gift of all that he possessed. He had a son by the name of Nachiketas.
Translated by Swami Paramananda
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तम् अद्राक्ष्म चेत् त्वा । जीविष्यामो यावद् ईशिष्यसि त्वं वरस् तु मे वरणीयः स एव त्रिणाचिकेतस् त्रिभिर् एत्य सन्धिं त्रिकर्मकृत् तरति जन्ममृत्यू । ब्रह्मजज्ञं देवम् ईड्यं विदित्वा निचाय्येमां शान्तिम् अत्यन्तम् एति कठोपनिषत् उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.