0/18 readHide transliteration
॥ इति पञ्चमी वल्ली ॥ ऊर्ध्वमूलो अवाक्शाख एषो ऽश्वत्थः सनातनः । तद् एव शुक्रं तद् ब्रह्म तद् एवामृतम् उच्यते । तस्मिंल् लोकाः श्रिताः सर्वे तद् उ नात्येति कश्चन ॥ एतद् वै तत्
ūrdhvamūlo avākśākha eṣo 'śvatthaḥ sanātanaḥ / tad eva śukraṃ tad brahma tad evāmṛtam ucyate / tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // etad vai tat
This ancient Aswattha tree has its root above and branches below. That is pure, That is Brahman, That alone is called the Immortal. All the worlds rest in That. None goes beyond That. This verily is That.
Translated by Swami Paramananda
← PreviousMark as learned Next →
In this sitting
2.3.1 ॥ इति पञ्चमी वल्ली ॥ ऊर्ध्वमूलो अवाक्शाख एषो ऽश्वत्थः सनातनः । तद् एव शुक्रं तद् ब्रह्म तद् एवामृतम् उच्यते । तस्मिंल् लोकाः श्रिताः सर्वे तद् उ नात्येति कश्चन ॥ एतद् वै तत् 2.3.2 यद् इदं किंच जगत् सर्वं प्राण एजति निःसृतम् । महद् भयं वज्रम् उद्यतं य एतद् विदुर् अमृतास् ते भवन्ति 2.3.3 भयाद् अस्याग्निस् तपति भयात् तपति सूर्यः । भयाद् इन्द्रश् च वायुश् च मृत्युर् धावति पञ्चमः 2.3.4 इह चेद् अशकद् बोद्धुं प्राक्शरीरस्य विस्रसः । ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते 2.3.5 यथादर्शे तथात्मनि यथा स्वप्ने तथा पितृलोके । यथाप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोर् इव ब्रह्मलोके 2.3.6 इन्द्रियाणां पृथग्भावम् उदयास्तमयौ च यत् । पृथग् उत्पद्यमानानां मत्वा धीरो न शोचति 2.3.7 इन्द्रियेभ्यः परं मनो मनसः सत्त्वम् उत्तमम् । सत्त्वाद् अधि महानात्मा महतो ऽव्यक्तम् उत्तमम् 2.3.8 अव्यक्तात् तु परः पुरुषो व्यापको ऽलिङ्ग एव च । यं ज्ञात्वा मुच्यते जन्तुर् अमृतत्वं च गच्छति 2.3.9 न संदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाभिकॢप्तो य एतद् विदुर् अमृतास् ते भवन्ति 2.3.10 यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश् च न विचेष्टति ताम् आहुः परमां गतिम् 2.3.11 तां योगम् इति मन्यन्ते स्थिराम् इन्द्रियधारणाम् । अप्रमत्तस् तदा भवति योगो हि प्रभवाप्ययौ 2.3.12 नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा । अस्तीति ब्रुवतो ऽन्यत्र कथं तद् उपलभ्यते 2.3.13 अस्तीत्य् एवोपलब्धव्यस् तत्त्वभावेन चोभयोः । अस्तीत्य् एवोपलब्धस्य तत्त्वभावः प्रसीदति 2.3.14 यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः । अथ मर्त्यो ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते 2.3.15 यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः । अथ मर्त्यो ऽमृतो भवत्य् एतावद् ध्य् अनुशासनम् 2.3.16 शतं चैका च हृदयस्य नाड्यस् तासां मूर्धानम् अभिनिःसृतैका । तयोर्ध्वम् आयन्न् अमृतत्वम् एति विष्वङ्ङ् अन्या उत्क्रमणे भवति 2.3.17 अङ्गुष्ठमात्रः पुरुषो ऽन्तरात्मा सदा जनानां हृदये संनिविष्टः । तं स्वाच् छरीरात् प्रवृहेन् मुञ्जाद् इवेषीकां धैर्येण । तं विद्याच् छुक्रम् अमृतं तं विद्याच् छुक्रम् अमृतम् इति 2.3.18 मृत्युप्रोक्तां नचिकेतो ऽथ लब्ध्वा विद्याम् एतां योगविधिं च कृत्स्नम् । ब्रह्मप्राप्तो विरजो ऽभूद् विमृत्युर् अन्यो ऽप्य् एवं यो विद् अध्यात्मम् एव Which verse says this?
This ancient Aswattha tree has its root above and branches below. That is pure, That is Brahman, That alone is called the Immortal. All the worlds rest in That. None goes beyond That. This verily is That.
Translated by Swami Paramananda
भयाद् अस्याग्निस् तपति भयात् तपति सूर्यः । भयाद् इन्द्रश् च वायुश् च मृत्युर् धावति पञ्चमः यद् इदं किंच जगत् सर्वं प्राण एजति निःसृतम् । महद् भयं वज्रम् उद्यतं य एतद् विदुर् अमृतास् ते भवन्ति ॥ इति पञ्चमी वल्ली ॥ ऊर्ध्वमूलो अवाक्शाख एषो ऽश्वत्थः सनातनः । तद् एव शुक्रं तद् ब्रह्म तद् एवामृतम् उच्यते । तस्मिंल् लोकाः श्रिताः सर्वे तद् उ नात्येति कश्चन ॥ एतद् वै तत् See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.