0/48 readHide transliteration
पुरु त्वा दाशिवां वोचे ऽरिरग्ने तव स्विदा । तोदस्येव शरण आ महस्य ॥ ९७
puru tvā dāśivāṃ voce 'riragne tava svidā . todasyeva śaraṇa ā mahasya .. 97
Agni, thy faithful servant I call upon thee with many a gift, As in the keeping of the great inciting God;
Translated by Ralph T. H. Griffith (1896)This is the translator's rendering of the same verse where it occurs at RV 1.150.1; the wording of this text may differ in places.
← PreviousMark as learned Next →
In this sitting
1.2.1.101 पुरु त्वा दाशिवां वोचे ऽरिरग्ने तव स्विदा । तोदस्येव शरण आ महस्य ॥ ९७ 1.2.1.102 प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । विपां ज्योतींषि बिभ्रते न वेधसे ॥ ९८ 1.2.1.103 अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे धेहि जातवेदो महि श्रवः ॥ ९९ 1.2.1.104 अग्ने यजिष्ठो अध्वरे देवां देवयते यज । होता मन्द्रो वि राजस्यति स्रिधः ॥ १०० 1.2.1.105 जज्ञानः सप्त मातृभिर्मेधामाशासत श्रिये । अयं ध्रुवो रयीणां चिकेतदा ॥ १०१ 1.2.1.106 उत स्या नो दिवा मतिरदितिरूत्यागमत् । सा शन्ताता मयस्करदप स्रिधः ॥ १०२ 1.2.1.107 ईडिष्वा हि प्रतीव्या३ं यजस्व जातवेदसम् । चरिष्णुधूममगृभीतशोचिषम् ॥ १०३ 1.2.1.108 न तस्य मायया च न रिपुरीशीत मर्त्यः । यो अग्नये ददाश हव्यदातये ॥ १०४ 1.2.1.109 अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम् । दविष्ठमस्य सत्पते कृधी सुगम् ॥ १०५ 1.2.1.110 श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते । नि मायिनस्तपसा रक्षसो दह ॥ १०६ 1.2.1.201 प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । उपस्तुतासो अग्नये ॥ १०७ 1.2.1.202 प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः । यस्य त्वं सख्यमाविथ ॥ १०८ 1.2.1.203 तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे । देवत्रा हव्यमूहिषे ॥ १०९ 1.2.1.204 मा नो हृणीथा अतिथिं वसुरग्निः पुरुप्रशस्त एशः । यः सुहोता स्वध्वरः ॥ ११० 1.2.1.205 भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥ १११ 1.2.1.206 यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् । अस्य यज्ञस्य सुक्रतुम् ॥ ११२ 1.2.1.207 तदग्ने द्युम्नमा भर यत्सासाहा सदने कं चिदत्रिणम् । मन्युं जनस्य दूढ्यम् ॥ ११३ 1.2.1.208 यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशे । विश्वेदग्निः प्रति रक्षांसि सेधति ॥ ११४ 1.2.1.301 तद्वो गाय सुते सचा पुरुहूताय सत्वने । शं यद्गवे न शाकिने ॥ ११५ 1.2.1.302 यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः । तेन नूनं मदे मदेः ॥ ११६ 1.2.1.303 गाव उप वदावटे महि यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥ ११७ 1.2.1.304 अरमश्वाय गायत श्रुतकक्षारं गवे । अरमिन्द्रस्य धाम्ने ॥ ११८ 1.2.1.305 तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । स वृषा वृषभो भुवत् ॥ ११९ 1.2.1.306 त्वमिन्द्र बलादधि सहसो जात ओजसः । त्वं सन्वृषन्वृषेदसि ॥ १२० 1.2.1.307 यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् । चक्राण ओपशं दिवि ॥ १२१ 1.2.1.308 यदिन्द्राहं तथा त्वमीशीय वस्व एक इत् । स्तोता मे गोसखा स्यात् ॥ १२२ 1.2.1.309 पन्यंपन्यमित्सोतार आ धावत मद्याय । सोमं वीराय शूराय ॥ १२३ 1.2.1.310 इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् । अनाभयिन्ररिमा ते ॥ १२४ 1.2.1.401 उद्धेदभि श्रुतामघं वृषभं नर्यापसम् । अस्तारमेषि सूर्य ॥ १२५ 1.2.1.402 यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य । सर्वं तदिन्द्र ते वशे ॥ १२६ 1.2.1.403 य आनयत्परावतः सुनीती तुर्वशं यदुम् । इन्द्रः स नो युवा सखा ॥ १२७ 1.2.1.404 मा न इन्द्राभ्या ऽ ऽ३ दिशः सूरो अक्तुष्वा यमत । त्वा युजा वनेम तत् ॥ १२८ 1.2.1.405 एन्द्र सानसिं रयिं सजित्वानं सदासहम् । वर्षिष्ठमूतये भर ॥ १२९ 1.2.1.406 इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे । युजं वृत्रेषु वज्रिणम् ॥ १३० 1.2.1.407 अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे । तत्राददिष्ट पौंस्यम् ॥ १३१ 1.2.1.408 वयमिन्द्र त्वायवो ऽभि प्र नोनुमो वृषन् । विद्धी त्वा३स्य नो वसो ॥ १३२ 1.2.1.409 आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा ॥ १३३ 1.2.1.410 भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । वसु स्पार्हं तदा भर ॥ १३४ 1.2.1.501 इहेव शृण्व एषां कशा हस्तेषु यद्वदान् । नि यामं चित्रमृञ्जते ॥ १३५ 1.2.1.502 इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः । पुष्टावन्तो यथा पशुम् ॥ १३६ 1.2.1.503 समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्धवः ॥ १३७ 1.2.1.504 देवानामिदवो महत्तदा वृणीमहे वयम् । वृष्णामस्मभ्यमूतये ॥ १३८ 1.2.1.505 सोमानां स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजः ॥ १३९ 1.2.1.506 बोधन्मना इदस्तु नो वृत्रहा भूर्यासुतिः । शृणोतु शक्र आशिषम् ॥ १४० 1.2.1.507 अद्य नो देव सवितः प्रजावत्सावीः सौभगम् । परा दुःष्वप्न्यं सुव ॥ १४१ 1.2.1.508 क्वा३स्य वृषभो युवा तुविग्रीवो अनानतः । ब्रह्मा कस्तं सपर्यति ॥ १४२ 1.2.1.509 उपह्वरे गिरीणां सङ्गमे च नदीनाम् । धिया विप्रो अजायत ॥ १४३ 1.2.1.510 प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः । नरं नृषाहं मंहिष्ठम् ॥ १४४ Which verse says this?
Agni, thy faithful servant I call upon thee with many a gift, As in the keeping of the great inciting God;
Translated by Ralph T. H. Griffith (1896)
पुरु त्वा दाशिवां वोचे ऽरिरग्ने तव स्विदा । तोदस्येव शरण आ महस्य ॥ ९७ उत स्या नो दिवा मतिरदितिरूत्यागमत् । सा शन्ताता मयस्करदप स्रिधः ॥ १०२ अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे । तत्राददिष्ट पौंस्यम् ॥ १३१ See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.