0/62 readHide transliteration
उपास्मै गायता नरः पवमानायेन्दवे । अभि देवां इयक्षते ॥ ६५१
upāsmai gāyatā naraḥ pavamānāyendave . abhi devāṃ iyakṣate .. 651
Sing forth to Indu, O ye men, to him who is purified, Fain to pay worship to the Gods.
Translated by Ralph T. H. Griffith (1896)This is the translator's rendering of the same verse where it occurs at RV 9.11.1; the wording of this text may differ in places.
← PreviousMark as learned Next →
In this sitting
4.1.1.101 उपास्मै गायता नरः पवमानायेन्दवे । अभि देवां इयक्षते ॥ ६५१ 4.1.1.102 अभि ते मधुना पयो ऽथर्वाणो अशिश्रयुः । देवं देवाय देवयु ॥ ६५२ 4.1.1.103 स नः पवस्व शं गवे शं जनाय शमर्वते । शं राजन्नोषधीभ्यः ॥ ६५३ 4.1.1.201 दविद्युतत्या रुचा परिष्टोभन्त्या कृपा । सोमाः शुक्रा गवाशिरः ॥ ६५४ 4.1.1.202 हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत् । सीदन्तो वनुषो यथा ॥ ६५५ 4.1.1.203 ऋधक्सोम स्वस्तये संजग्मानो दिवा कवे । पवस्व सूर्यो दृशे ॥ ६५६ 4.1.1.301 पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षते । अर्वन्तो न श्रवस्यवः ॥ ६५७ 4.1.1.302 अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये । अवावशन्त धीतयः ॥ ६५८ 4.1.1.303 अच्छा समुद्रमिन्दवो ऽस्तं गावो न धेनवः । अग्मन्नृतस्य योनिमा ॥ ६५९ 4.1.1.401 अग्न आ याहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि ॥ ६६० 4.1.1.402 तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य ॥ ६६१ 4.1.1.403 स नः पृथु श्रवाय्यमच्छा देव विवाससि । बृहदग्ने सुवीर्यम् ॥ ६६२ 4.1.1.501 आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । मध्वा रजांसि सुक्रतू ॥ ६६३ 4.1.1.502 उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः । द्राघिष्ठाभिः शुचिव्रता ॥ ६६४ 4.1.1.503 गृणाना जमदग्निना योनावृतस्य सीदतम् । पातं सोममृतावृधा ॥ ६६५ 4.1.1.601 आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । एदं बर्हिः सदो मम ॥ ६६६ 4.1.1.602 आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना । उप ब्रह्माणि नः शृणु ॥ ६६७ 4.1.1.603 ब्रह्माणस्त्वा युजा वयं सोमपामिन्द्र सोमिनः । सुतावन्तो हवामहे ॥ ६६८ 4.1.1.701 इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् । अस्य पातं धियेषिता ॥ ६६९ 4.1.1.702 इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । अया पातमिमं सुतम् ॥ ६७० 4.1.1.703 इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे । ता सोमस्येह तृम्पताम् ॥ ६७१ 4.1.1.801 उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे । उग्रं शर्म महि श्रवः ॥ ६७२ 4.1.1.802 स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । वरिवोवित्परि स्रव ॥ ६७३ 4.1.1.803 एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् । सिषासन्तो वनामहे ॥ ६७४ 4.1.1.901 पुनानः सोम धारयापो वसानो अर्षसि । आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥ ६७५ 4.1.1.902 दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् । आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः ॥ ६७६ 4.1.1.1001 प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष । अश्वं न त्वा वाजिनं मर्जयन्तो ऽच्छा बर्ही रशनाभिर्नयन्ति ॥ ६७७ 4.1.1.1002 स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः । पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥ ६७८ 4.1.1.1003 ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन । स चिद्विवेद निहितं यदासामपीच्या३ं गुह्यं नाम गोनाम् ॥ ६७९ 4.1.1.1101 अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥ ६८० 4.1.1.1102 न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥ ६८१ 4.1.1.1201 कया नश्चित्र आ भुवदूती सदावृधः सखा । कया शचिष्ठया वृता ॥ ६८२ 4.1.1.1202 कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु ॥ ६८३ 4.1.1.1203 अभी षु णः सखीनामविता जरित्र्^ईणाम् । शतं भवास्यूतये ॥ ६८४ 4.1.1.1301 तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥ ६८५ 4.1.1.1302 द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् । क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥ ६८६ 4.1.1.1401 तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये । बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥ ६८७ 4.1.1.1402 न यं दुध्रा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः । य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥ ६८८ 4.1.1.1501 स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । इन्द्राय पातवे सुतः ॥ ६८९ 4.1.1.1502 रक्षोहा विश्वचर्षणिरभि योनिमयोहते । द्रोणे सधस्थमासदत् ॥ ६९० 4.1.1.1503 वरिवोधातमो भुवो मंहिष्ठो वृत्रहन्तमः । पर्षि राधो मघोनाम् ॥ ६९१ 4.1.1.1601 पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । महि द्युक्षतमो मदः ॥ ६९२ 4.1.1.1602 यस्य ते पीत्वा वृषभो वृषायते ऽस्य पीत्वा स्वर्विदः । स सुप्रकेतो अभ्यक्रमीदिषो ऽच्छा वाजं नैतशः ॥ ६९३ 4.1.1.1701 इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः । श्रुष्टे जातास इन्दवः स्वर्विदः ॥ ६९४ 4.1.1.1702 अयं भराय सानसिरिन्द्राय पवते सुतः । सोमो जैत्रस्य चेतति यथा विदे ॥ ६९५ 4.1.1.1703 अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिम् । वज्रं च वृषणं भरत्समप्सुजित् ॥ ६९६ 4.1.1.1801 पुरोजिती वो अन्धसः सुताय मादयित्नवे । अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥ ६९७ 4.1.1.1802 यो धारया पावकया परिप्रस्यन्दते सुतः । इन्दुरश्वो न कृत्व्यः ॥ ६९८ 4.1.1.1803 तं दुरोषमभी नरः सोमं विश्वाच्या धिया । यज्ञाय सन्त्वद्रयः ॥ ६९९ 4.1.1.1901 अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥ ७०० 4.1.1.1902 ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः । दधाति पुत्रः पित्रोरपीच्या३ं नाम तृतीयमधि रोचनं दिवः ॥ ७०१ 4.1.1.1903 अव द्युतानः कलशां अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये । अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि ॥ ७०२ 4.1.1.2001 यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे । प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् ॥ ७०३ 4.1.1.2002 ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये । भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम् ॥ ७०४ 4.1.1.2101 एह्यू षु ब्रवाणि ते ऽग्न इत्थेतरा गिरः । एभिर्वर्धास इन्दुभिः ॥ ७०५ 4.1.1.2102 यत्र क्व च ते मनो दक्षं दधस उत्तरम् । तत्रा योनिं कृणवसे ॥ ७०६ 4.1.1.2103 न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते । अथा दुवो वनवसे ॥ ७०७ 4.1.1.2201 वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तो ऽवस्यवः । वज्रिञ्चित्रं हवामहे ॥ ७०८ 4.1.1.2202 उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् । त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥ ७०९ 4.1.1.2301 अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे । उदेव ग्मन्त उदभिः ॥ ७१० 4.1.1.2302 वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि । ववृध्वांसं चिदद्रिवो दिवेदिवे ॥ ७११ 4.1.1.2303 पुञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा । इन्द्रवाहा स्वर्विदा ॥ ७१२ Which verse says this?
Sing forth to Indu, O ye men, to him who is purified, Fain to pay worship to the Gods.
Translated by Ralph T. H. Griffith (1896)
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तो ऽवस्यवः । वज्रिञ्चित्रं हवामहे ॥ ७०८ आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना । उप ब्रह्माणि नः शृणु ॥ ६६७ उपास्मै गायता नरः पवमानायेन्दवे । अभि देवां इयक्षते ॥ ६५१ See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.