0/12 readHide transliteration
त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत् पूजा पूजा तव चरणयोर् या विरचिता । तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे स्थिता ह्य् एते शश्वन् मुकुलितकरोत्तंसमुकुटाः
trayāṇāṃ devānāṃ triguṇajanitānāṃ tava śive bhavet pūjā pūjā tava caraṇayor yā viracitā / tathā hi tvatpādodvahanamaṇipīṭhasya nikaṭe sthitā hy ete śaśvan mukulitakarottaṃsamukuṭāḥ
Sanskrit only: no published translation is held for this verse.
← PreviousMark as learned Next →
In this sitting
25 त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत् पूजा पूजा तव चरणयोर् या विरचिता । तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे स्थिता ह्य् एते शश्वन् मुकुलितकरोत्तंसमुकुटाः 26 विरञ्चिः पञ्चत्वं व्रजति हरिर् आप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम् । वितन्द्री माहेन्द्री विततिर् अपि संमीलितदृशा महासंहारे +अस्मिन् विहरति सति त्वत्पतिर् असौ 27 जपो जल्पः शिल्पं सकलम् अपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणम् अशनाद्य् आहुतिविधिः । प्रणामः संवेशः सुखम् अखिलम् आत्मार्पणदृशा सपर्यापर्यायस् तव भवतु यन् मे विलसितम् 28 ददाने दीनेभ्यः श्रियम् अनिशम् आशानुसदृशीं अमन्दं सौन्दर्यप्रकरमकरन्दं विकिरति । तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे निमज्जन् मज्जीवः करणचरणैः षच्चरणताम् 29 सुधाम् अप्य् आस्वाद्य प्रतिभयजरामृत्युहरिणीं विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः । करालं यत् क्ष्वेडं कवलितवतः कालकलना न शंभोस् तन्मूलं तव जननि ताटङ्कमहिमा 30 किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् । प्रणम्रेष्व् एतेषु प्रसभम् अभियातस्य भवनं भवस्याभ्युत्थाने तव परिजनोक्तिर् विजयते 31 चतुःषष्ट्या तन्त्रैः सकलम् अभिसंधाय भुवनं स्थितस् तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः । पुनस् त्वन्निर्बन्धाद् अखिलपुरुषार्थैकघटना- स्वतन्त्रं ते तन्त्रं क्षितितलम् अवातीतरद् इदम् 32 शिवः शक्तिः कामः क्षितिर् अथ रविः शीतकिरणः स्मरो हंसः शक्रस् तद् अनु च परामारहरयः । अमी हृल्लेखाभिस् तिसृभिर् अवसानेषु घटिता भजन्ते वर्णास् ते तव जननि नामावयवताम् 33 स्मरं योनिं लक्ष्मीं त्रितयम् इदम् आदौ तव मनोर् निधायैके नित्ये निरवधिमहाभोगरसिकाः । जपन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः 34 शरीरं त्वं शंभोः शशिमिहिरवक्षोरुहयुगं तवात्मानं मन्ये भगवति भवात्मानम् अनघम् । अतः शेषः शेषीत्य् अयम् उभयसाधारणतया स्थितः संबन्धो वां समरसपरानन्दपरयोः 35 मनस् त्वं व्योम त्वं मरुद् असि मरुत्सारथिर् असि त्वम् आपस् त्वं भूमिस् त्वयि परिणतायां न हि परम् । त्वम् एव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवति भावेन बिभृषे 36 तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरम् परं शंभुं वन्दे परिमिलितपार्श्वं परचिता । यम् आराध्यन् भक्त्या रविशशिशुचीनाम् अविषये निरालोके लोको निवसति हि भालोकभवने See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.