विषय इति । ज्ञानेन स्वरूप मेव निर्धार्यते । तदाकारतया जायमानत्वात् । यद्यप्यणवः तत्कारणम् । तथापि न तादृशाः अक्षवत् । एवञ्च नाणवस्तावदालम्बनम् । संघातस्तु तदाभत्वे ऽपि[ज्ञानम्य नालम्बनम् । यतः] यदाभासा न तस्मात्सा यो ऽर्थः स्वावभासिविज्ञप्तिमुत्पादयति सह्यालम्बनं युज्यते । यतः स एव ह्युत्पत्तिप्रत्यय उच्यते । संघातस्तु नैवम् । द्रव्याभावाद् द्विचन्द्रवत् । इन्द्रियवैकल्यात् द्विचन्द्रदर्शनस्य तदाभत्वे ऽपि न तस्य विषयो ऽस्ति । तद्वत् संघातः द्रव्यतो ऽसत्त्वेन अकारणात्वात् नालम्बनम् । एवं बाह्यदूयञ्चैव न युक्तं मतिगोचरः
viṣaya iti / jñānena svarūpa meva nirdhāryate / tadākāratayā jāyamānatvāt / yadyapyaṇavaḥ tatkāraṇam / tathāpi na tādṛśāḥ akṣavat / evañca nāṇavastāvadālambanam / saṃghātastu tadābhatve 'pi[jñānamya nālambanam / yataḥ] yadābhāsā na tasmātsā yo 'rthaḥ svāvabhāsivijñaptimutpādayati sahyālambanaṃ yujyate / yataḥ sa eva hyutpattipratyaya ucyate / saṃghātastu naivam / dravyābhāvād dvicandravat / indriyavaikalyāt dvicandradarśanasya tadābhatve 'pi na tasya viṣayo 'sti / tadvat saṃghātaḥ dravyato 'sattvena akāraṇātvāt nālambanam / evaṃ bāhyadūyañcaiva na yuktaṃ matigocaraḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.