तच्चक्षुः श्रोत्रमसृजत तदिदं श्रोत्रं सृष्टमाविरबुभूषन्निरुक्ततरम् मूर्ततरं तदात्मानमन्वैचत्तत्तपोऽतप्यत तत्प्रामूर्चत्तत्षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्काण्च्रोत्रमयाञ्च्रोत्रचितस्ते श्रोत्रेणैवाधीयन्त श्रोत्रेणाचीयन्त श्रोत्रेणैषु ग्रहा अगृह्यन्त श्रोत्रेणास्तुवत श्रोत्रेणाशंसन्यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म श्रोत्रेणैव तेषु तच्रोत्रमयेषु श्रोत्रचित्सु श्रोत्रमयमक्रियत तद्यत्किं चेमानि भूतानि श्रोत्रेण शृण्वन्ति तेषामेव सा कृतिस्तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शंसन्त्येतावती वै श्रोत्रस्य विभूतिरेतावती विसृष्टिरेतावच्रोत्रं षट्त्रिंश
taccakṣuḥ śrotramasṛjata tadidaṃ śrotraṃ sṛṣṭamāvirabubhūṣanniruktataram mūrtataraṃ tadātmānamanvaicattattapo'tapyata tatprāmūrcattatṣaṭtriṃśataṃ sahasrāṇyapaśyadātmano'gnīnarkāṇcrotramayāñcrotracitaste śrotreṇaivādhīyanta śrotreṇācīyanta śrotreṇaiṣu grahā agṛhyanta śrotreṇāstuvata śrotreṇāśaṃsanyatkiṃ ca yajñe karma kriyate yatkiṃ ca yajñiyaṃ karma śrotreṇaiva teṣu tacrotramayeṣu śrotracitsu śrotramayamakriyata tadyatkiṃ cemāni bhūtāni śrotreṇa śṛṇvanti teṣāmeva sā kṛtistānevādadhati tāṃścinvanti teṣu grahāngṛhṇanti teṣu stuvate teṣu śaṃsantyetāvatī vai śrotrasya vibhūtiretāvatī visṛṣṭiretāvacrotraṃ ṣaṭtriṃśa
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.