Library·Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja·9

Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja 9

एवं त्रिविधादिषु द्रष्टव्यम् । यो यत्राग्नौ पुरुपस्थानीयः तत्र तस्य विंशतितमो भागो विहरणे इष्टकानां चाङ्गुलिः कल्प्या । तिलाश् च तस्याश्वतुस्त्रिंशाः । तत्र श्लोकाः - व्योमाकाशाब्धिवेदैकादभीष्टैः पुरुषैर्हतात् । हरेत सप्तभिर्भागं तन्मूलं पुरुषो भवेत् ॥ ।१ ॥ चतुरश्रश्येनचितोः प्रादेशारत्निहीनयोः । तत्रतत्राङ्गुलिः कल्प्या तत्र विंशशतांशतः । ॥ ।२ ॥ सारत्निप्रादेशे तु बोधायनेनोक्तो विभागः - "यदन्यत्प्रकृतेस्तत्पञ्चदशभागान् कृत्वा विधायां विधायां द्वौद्वौ भागौ समस्येत्, ताभिरर्धाष्टमाभिरग्निं चिनुयात्ऽ ॥ इत्यादि । तत्र प्रकारः - अर्धाष्टमेभ्यो ऽधिकैः पुरुषैः पुरुषाङ्गुलीश्वदुर्हशसहस्राणि चत्वारि च शतानि हत्वा पञ्चदशभिर्विभज्य लब्धं द्विगुणीकृत्य पुरुषांङ्गुलीषु संयोजयेत् । तास्तत्र पुरुषाङ्गुलयः । यथा अर्धनवमे पुरुषेषु पुरुषाङ्गुलीरेकेन हत्वा पञ्चदशभिर्विभज्य लब्धं नव शतानि षष्टिश्वाङ्गुलयः, ता द्विगुणाः पुरुषाङ्गुलीषु संयोज्य दृष्टाः पुरुषाङ्गुल्यः षोडशसहस्राणि त्रीणि शतानि विंशतिश् च १६३२०। तन्मूलं तत्र पुरुषप्रमाणं पादोनाष्टविंशतिशतमङ्गुलयः । एवमर्धदशपुरुषे अष्टादश सहस्राणि द्वे शते चत्वारिंशच्च पुरुषक्षेत्राङ्गुलयः । पुरुषवेणुश् च पञ्चत्रिंशच्छताङ्गुलयः तिलद्वयाधिका इत्यादि द्रष्टव्यम् । ये त्वपक्षपुच्छाः प्रौगचिदादयः तेष्वरत्निप्रादेशैर्युक्तेषु वियुक्तेषु चैवमेव पुरुषमानीय तस्य विंशतिशततमभागमङ्गुलिं प्रकल्प्य विहरणमिष्टकाश् च । यथा प्रौगचिति - १४४००। एकविधे एकं सहस्रं चतुश्वत्वारिंशच्छताङ्गुलयः षट्तिलोनाः पुरुषः, तस्य विंशतिशततमो भागः तत्राङ्गुलिरित्यादि । तत्र श्लोकौ ----- खाकाशश्रुतिवेदैकात् षुरुषैर्द्विगुणैर्हतात् । हरेत तिथिभिर्भागं तन्मूलं पुरुषो भवेत् ॥ ।१ ॥ चतुरश्रश्येनचितोः प्रादेशारत्नियुक्तयोः । प्रौगादिषु चैवं स्यात्पुरुषाङ्गुलक्ल्टप्तये ॥ ।२ ॥ ये त्वरत्निप्रादेशवृद्धिं नित्यामाहुः तेषामेतत्सूत्रे बोधायनेनोक्तेर्ऽथे क्लेशेन योजयितव्यं स्यात् - सप्तभ्यःसार्धसप्तभ्य इति, एवं सप्तविधा अर्धाष्टमविधेति, एवमुत्तरत्र विधासप्तमकरणीमिति । अत्राधिकानां पुरुषाणां प्रतिपुरुषमावेशनमुक्तम् । तत्र हेतुमाह - आकृति त्वात् प्रकृत्या अन्याकृतेर्विकारस्य श्रुत्यभावात् । यदि त्वधिकाः पुरुषाः कचिदेवैकस्मिन् प्रदेशे आत्मनि पक्षे वा निधीयेरन् । प्रकृतिर्ह्यग्न्याकृतिर्विक्रियते । पुरुष यते पुरुषमात्रेण - यावान् पुरुष ऊर्ध्वबाहुस्तावता वेणुनाग्निं विमिमीत इति श्रुतिद्वयस्यार्थः । यावानतीयम् बाह्यच्छिद्राभ्भां बहिःसससौकर्यार्थमुपाह्रियते छिद्रयोश् च बाह्यार्थे । अपरेण दान्तात् अपरेण यूपावटदेशं सञ्चरमवशिष्यैव वेणुनिधानम् । आन्तादर्वाक्चक्षुर्निमिताच्चतुरश्रपूर्वान्तादुन्मुच्य पूर्वस्मादपरस्मिन् प्रतिमुच्य दक्षिणा प्रत्यक्परिलिखेदान्तात् । अष्टमः खण्डः। कपर्दिक्षाष्यम् उन्मुच्य वेणुं मध्यमे शङ्काव् अन्त्यं वेणोश् छिद्रं प्रतिमुच्योपर्युपरि लेखासमरं दक्षिणा वेणुं निधायान्त्ये छिद्रे शङ्कुं निहत्य तस्मिन् मध्यमं वेणोश् छिद्रं प्रतिमुच्य लेखान्तयोर् इतरे प्रतिष्ठाप्य छिद्रयोः शङ्कू निहन्ति दक्षिणे शङ्कौ अन्यतरं वेणोश्छिद्रं प्रतिमुच्योपर्युपरिलेखासम्भेदं दक्षिणाग्रं वेणुं निधाय अन्त्ये छिद्रे शङ्कुं निहत्य तमिन् श्ङ्ककककौ मध्यमं वेणोश्छिद्रं प्रतिमुच्य लेखान्तरयोरन्तर छिद्रेप्रतिष्ठाप्य छिद्रयोर्लेखान्तयोरेव शङ्कू निहन्ति । स पुरुषश् चतुरश्रः

evaṃ trividhādiṣu draṣṭavyam / yo yatrāgnau purupasthānīyaḥ tatra tasya viṃśatitamo bhāgo viharaṇe iṣṭakānāṃ cāṅguliḥ kalpyā / tilāś ca tasyāśvatustriṃśāḥ / tatra ślokāḥ - vyomākāśābdhivedaikādabhīṣṭaiḥ puruṣairhatāt / hareta saptabhirbhāgaṃ tanmūlaṃ puruṣo bhavet // .1 // caturaśraśyenacitoḥ prādeśāratnihīnayoḥ / tatratatrāṅguliḥ kalpyā tatra viṃśaśatāṃśataḥ / // .2 // sāratniprādeśe tu bodhāyanenokto vibhāgaḥ - "yadanyatprakṛtestatpañcadaśabhāgān kṛtvā vidhāyāṃ vidhāyāṃ dvaudvau bhāgau samasyet, tābhirardhāṣṭamābhiragniṃ cinuyāt' // ityādi / tatra prakāraḥ - ardhāṣṭamebhyo 'dhikaiḥ puruṣaiḥ puruṣāṅgulīśvadurhaśasahasrāṇi catvāri ca śatāni hatvā pañcadaśabhirvibhajya labdhaṃ dviguṇīkṛtya puruṣāṃṅgulīṣu saṃyojayet / tāstatra puruṣāṅgulayaḥ / yathā ardhanavame puruṣeṣu puruṣāṅgulīrekena hatvā pañcadaśabhirvibhajya labdhaṃ nava śatāni ṣaṣṭiśvāṅgulayaḥ, tā dviguṇāḥ puruṣāṅgulīṣu saṃyojya dṛṣṭāḥ puruṣāṅgulyaḥ ṣoḍaśasahasrāṇi trīṇi śatāni viṃśatiś ca 16320. tanmūlaṃ tatra puruṣapramāṇaṃ pādonāṣṭaviṃśatiśatamaṅgulayaḥ / evamardhadaśapuruṣe aṣṭādaśa sahasrāṇi dve śate catvāriṃśacca puruṣakṣetrāṅgulayaḥ / puruṣaveṇuś ca pañcatriṃśacchatāṅgulayaḥ tiladvayādhikā ityādi draṣṭavyam / ye tvapakṣapucchāḥ praugacidādayaḥ teṣvaratniprādeśairyukteṣu viyukteṣu caivameva puruṣamānīya tasya viṃśatiśatatamabhāgamaṅguliṃ prakalpya viharaṇamiṣṭakāś ca / yathā praugaciti - 14400. ekavidhe ekaṃ sahasraṃ catuśvatvāriṃśacchatāṅgulayaḥ ṣaṭtilonāḥ puruṣaḥ, tasya viṃśatiśatatamo bhāgaḥ tatrāṅgulirityādi / tatra ślokau ----- khākāśaśrutivedaikāt ṣuruṣairdviguṇairhatāt / hareta tithibhirbhāgaṃ tanmūlaṃ puruṣo bhavet // .1 // caturaśraśyenacitoḥ prādeśāratniyuktayoḥ / praugādiṣu caivaṃ syātpuruṣāṅgulaklṭaptaye // .2 // ye tvaratniprādeśavṛddhiṃ nityāmāhuḥ teṣāmetatsūtre bodhāyanenokter'the kleśena yojayitavyaṃ syāt - saptabhyaḥsārdhasaptabhya iti, evaṃ saptavidhā ardhāṣṭamavidheti, evamuttaratra vidhāsaptamakaraṇīmiti / atrādhikānāṃ puruṣāṇāṃ pratipuruṣamāveśanamuktam / tatra hetumāha - ākṛti tvāt prakṛtyā anyākṛtervikārasya śrutyabhāvāt / yadi tvadhikāḥ puruṣāḥ kacidevaikasmin pradeśe ātmani pakṣe vā nidhīyeran / prakṛtirhyagnyākṛtirvikriyate / puruṣa yate puruṣamātreṇa - yāvān puruṣa ūrdhvabāhustāvatā veṇunāgniṃ vimimīta iti śrutidvayasyārthaḥ / yāvānatīyam bāhyacchidrābhbhāṃ bahiḥsasasaukaryārthamupāhriyate chidrayoś ca bāhyārthe / apareṇa dāntāt apareṇa yūpāvaṭadeśaṃ sañcaramavaśiṣyaiva veṇunidhānam / āntādarvākcakṣurnimitāccaturaśrapūrvāntādunmucya pūrvasmādaparasmin pratimucya dakṣiṇā pratyakparilikhedāntāt / aṣṭamaḥ khaṇḍaḥ. kapardikṣāṣyam unmucya veṇuṃ madhyame śaṅkāv antyaṃ veṇoś chidraṃ pratimucyoparyupari lekhāsamaraṃ dakṣiṇā veṇuṃ nidhāyāntye chidre śaṅkuṃ nihatya tasmin madhyamaṃ veṇoś chidraṃ pratimucya lekhāntayor itare pratiṣṭhāpya chidrayoḥ śaṅkū nihanti dakṣiṇe śaṅkau anyataraṃ veṇośchidraṃ pratimucyoparyuparilekhāsambhedaṃ dakṣiṇāgraṃ veṇuṃ nidhāya antye chidre śaṅkuṃ nihatya tamin śṅkakakakau madhyamaṃ veṇośchidraṃ pratimucya lekhāntarayorantara chidrepratiṣṭhāpya chidrayorlekhāntayoreva śaṅkū nihanti / sa puruṣaś caturaśraḥ

Sanskrit only: no published translation is held for this verse.

स चतुरश्रः पुरुषः ॥ एवं पुरदक्षिणं चतुर आत्मनि पुरुषानवमिमीते एवं चत्वारि पुरुषक्षेत्राणि आत्मनि यथा भवन्ति तथा प्रदक्षिणं मिनुयात् । पुरुषं दक्षिणे पक्षे । पुरुषं पुच्छे पुरुषम् उत्तरे दक्षिणे पक्षे - दक्षिणे पार्श्वे । मध्यमेषु त्रिषु वेणुं प्रतिमुच्य अपराभ्यामित्यादि पूर्ववच्चतुरश्रः पुरुषः । एवमुत्तरपक्षे उत्तरपार्श्वे, मध्यमेष्वेव त्रिषु प्रतिमुच्य उत्तरम् । पुच्छे तु पाश्वात्यमधयमशङ्कौ मध्यमं वेणोच्छिद्रं प्रतिमुच्य तिर्यग्वेणुं निधाय छिद्रयोःशङ्कू निहत्योन्मुच्योत्तराभ्यां प्रसव्यं परिलिखेत् । दक्षिणस्मादुन्मुच्योत्तरस्मिन् पुरुषमात्रे शङ्कौ प्रतिमुच्यान्त्यच्छिद्रशङ्कुप्रभृति प्रदक्षिणं परिलिखेत् । उन्मुच्य वेणुं मध्यमे प्रतिमुच्य उपर्युपरि लेखासम्भेदं पश्चाद्वेणुं निधाय अन्त्य इत्यादि समानं तत्पुच्छम् । अरत्निना दक्षिणतो दक्षिणम् इत्य् उक्तम्

sa caturaśraḥ puruṣaḥ // evaṃ puradakṣiṇaṃ catura ātmani puruṣānavamimīte evaṃ catvāri puruṣakṣetrāṇi ātmani yathā bhavanti tathā pradakṣiṇaṃ minuyāt / puruṣaṃ dakṣiṇe pakṣe | puruṣaṃ pucche puruṣam uttare dakṣiṇe pakṣe - dakṣiṇe pārśve / madhyameṣu triṣu veṇuṃ pratimucya aparābhyāmityādi pūrvavaccaturaśraḥ puruṣaḥ / evamuttarapakṣe uttarapārśve, madhyameṣveva triṣu pratimucya uttaram / pucche tu pāśvātyamadhayamaśaṅkau madhyamaṃ veṇocchidraṃ pratimucya tiryagveṇuṃ nidhāya chidrayoḥśaṅkū nihatyonmucyottarābhyāṃ prasavyaṃ parilikhet / dakṣiṇasmādunmucyottarasmin puruṣamātre śaṅkau pratimucyāntyacchidraśaṅkuprabhṛti pradakṣiṇaṃ parilikhet / unmucya veṇuṃ madhyame pratimucya uparyupari lekhāsambhedaṃ paścādveṇuṃ nidhāya antya ityādi samānaṃ tatpuccham / aratninā dakṣiṇato dakṣiṇam ity uktam

Sanskrit only: no published translation is held for this verse.

एवं विमितस्य दक्षिणपक्षस्य दक्षिणतः उत्तरस्योत्तरतः अरत्निना वर्धयेत्, पक्षयोस्तिर्यङ्भानी सारत्ननिपुरुषमात्रा पार्श्व मानी च पुरुषमात्रं, एवं पुच्छस्य पश्चादपि प्रादेशेन वितस्त्या वा वर्धयेत्, तत्तत्सुपार्श्वमानी स प्रादेशः पुरुषः, पुरुषमात्रे तिर्यङ्भानी ॥ पृष्ठ्यातो वा पुरुषमात्रस्याक्ष्णया वेणुं निधाय पूर्वस्मिन्न् इतरम् । ताभ्यां दक्षिणं अंसं निर्हरेत् । विपर्यस्य श्रोणी अपरस्मिन् शङ्कौ पुरुषमात्र प्रतिमुच्य दक्षिणां श्रोणिं उदगपसार्योत्तरामेव श्रोणिं विहरेत् । पूर्ववद् उत्तरम् अंसम्

evaṃ vimitasya dakṣiṇapakṣasya dakṣiṇataḥ uttarasyottarataḥ aratninā vardhayet, pakṣayostiryaṅbhānī sāratnanipuruṣamātrā pārśva mānī ca puruṣamātraṃ, evaṃ pucchasya paścādapi prādeśena vitastyā vā vardhayet, tattatsupārśvamānī sa prādeśaḥ puruṣaḥ, puruṣamātre tiryaṅbhānī // pṛṣṭhyāto vā puruṣamātrasyākṣṇayā veṇuṃ nidhāya pūrvasminn itaram | tābhyāṃ dakṣiṇaṃ aṃsaṃ nirharet | viparyasya śroṇī aparasmin śaṅkau puruṣamātra pratimucya dakṣiṇāṃ śroṇiṃ udagapasāryottarāmeva śroṇiṃ viharet / pūrvavad uttaram aṃsam

Sanskrit only: no published translation is held for this verse.

लेखासमरः - लेखायाःसंपातः । तस्योपरिष्टात् सन्निकृष्टं निधायान्त्यछिद्रे शङ्कून्निहत्य तस्मिन् मध्यमं वेणोश्छिद्रं प्रतिमुच्य लेखान्तयोरितरे छिद्रे प्रतिष्ठाप्य छिद्रयोःशङ्कुं निरन्ति स चतुरश्रः पुरुषसंज्ञो भवति, एवं प्रदक्षिणं चतुरः पुरुषानात्मनि कुर्यात् । पश्चिमे शह्कावेवं वेणोश्छिद्रं प्रतिमुच्य पश्चादनुपृष्ठ्यं वेणुं निधाय पश्चिमयोरपि छिद्रयोरपि शङ्कुं निखाय पूर्ववद्द्वितीयं पुरुषं कुर्यादेवमुत्तरतो ऽपि उत्तराप्रत्यगुत्तराप्राक्चालिख्य पुरुषद्वयं विमिमीते । अपरेण यूपावटतेशं सञ्चरमवशिष्य पृष्ठ्यायां शङ्कुं निहत्य तस्मिन् वेणोश्छिद्रं प्रतिमुच्य पृष्ठ्यायां वेणुं निपात्य छिद्रयोर्द्वै शङ्कू । पश्चिमे शङ्कौ वेणोः छिद्रं प्रतिमुच्य पृष्ठ्यायामेव पश्चान्ननिपात्य द्वौ शङ्कू । एवं पञ्च शङ्कवः । मध्यमपूर्वयोःशङ्व्कोः प्रतिमुच्य उल्लिख्य पूर्ववत्पुरुष द्वयं कुर्यात् । उदक्षिमत उपान्त्ययोः छिद्रं प्रतिमुच्य उल्लिख्य दक्षिणपक्षे पुरुषं उत्तरत उपान्त्ययोः प्रतिमुच्य उत्तरपक्षे पुरुषण्टपुच्छे तु पश्चिमे शङ्कौ वेणोर्मध्यमछिद्रं प्रतिमुच्य दक्षिणोत्तरं वेणुं निधाय छिद्रयोःशङ्कुं निहत्य तयोश्छिद्रं प्रतिमुच्य पश्चिमोत्तरं पश्चिमदक्षिणं चालिख्य पुरुषं कुर्यात् । एवं कृत्वा आरत्ननिना दक्षिणतो दक्षिणं पक्षं प्रवर्धयति । उत्तरमपि पक्षमुत्तरतो ऽरत्निनैव प्रादेशेन वितस्त्या वा पश्चात् पुच्छं प्रवर्धयति ॥ पृष्ठ्या मसं वा शब्दो विकल्पार्थः । एवमिह वेणुमानम् । द्वौ तावद्वेणू भवतः । तयोरकेः पुरुषमात्रः । अन्यः पुरुषमात्रस्याक्ष्णया रज्जुसमः । ताभ्यां विमानमपरेण युपावटदेशं सञ्चरमवशिष्यते । पृष्ठ्यायां शङ्कुः । ततः पश्चात् तावन्मात्रे शङ्कुः । मध्यमशङ्कावक्ष्णयामात्रं वेणुं प्रतिमुच्य पूर्वस्मिन् पुरुषमात्रं प्रति मुच्य ताभ्यां दक्षिणमंसं निर्हरेत् । पुरुषमात्रं पूर्वस्मादुन्मुच्यापरस्मिन् प्रतिस्मिन् प्रतिमुच्योत्तरमंसं दाक्षणोत्तरपश्चिममध्यमशङ्कूनां पार्श्वद्वयेष्वर्द्धपुरुषमात्रेषु शङ्कुं निहत्य पुक्षपुच्छपुरुषानप्येवमेव कुर्यात् ॥ उन्मुच्य निहन्ति समरः - सङ्गमः पूर्वापरे छिद्रे लेखयोर्यत्र निपततस्तावेव लेखान्तौ । स वमिमीते पृष्ठ्यायां पूर्वयोश्चतुरश्रयोः पाश्वात्यशङ्कुः अपरयोः पौरस्त्यः । पुरुषंअपक्षे दाक्षिणात्यानां पञ्चानां शङ्कूनां मध्यमेषु त्रिषु वेणुंप्रतिमुच्य अपराभ्यामित्यादि । पुरुषं पच्छे पाश्वात्यानां त्रयाणां दक्षिणयोरन्त्ये छिद्रे प्रतिमुच्य मध्यमे छिद्रे शङ्कुं निहन्यात् । एवमुत्तरयोरेवं स्थितानां पञ्चानां मध्ये मध्यमेषु त्रिषु वेणुं प्रतिमुच्योत्तराभ्यामित्यादि द्रष्टव्यम् । पुरुषमुत्तरे दक्षिणपक्षवत् । अरत्निना त्युक्तम् वेणोः पञ्चमे लक्षणं कृत्वा तेन पक्षौ प्रवर्धयेत्, एवं दशमे लक्षणं कृत्वा । पुच्छं प्रकारान्तरमाह --- पृष्ठ्यान्तो मंसं द्वावत्र वेणू उभ्यतश्छिदौ, पुरुषमात्रःसविशेषश् च । पृष्ठ्यायां पुरुषान्तरालान् त्रीन् शङ्कून्निहत्य मध्यमे सविशेषं प्रतिमुच्य पूर्वस्मिन्नितरं तयोरन्त्ये च्छिद्रे यत्र संपततःस दक्षिणांसः । विपर्यस्य पुरुषमात्रं पाश्वात्ये प्रतिमुच्य श्रोणी पूर्ववदुत्तरांसः । एवं पक्षपुच्छेष्वपि । सविशेषो वेणुःसप्ततिशतमङ्गुलयो दशतिलोनाः । कपर्दिभाष्यम् रज्ज्वा वा विमायोत्तरवेदिन्यायेन वेणुना विमिमीते

lekhāsamaraḥ - lekhāyāḥsaṃpātaḥ / tasyopariṣṭāt sannikṛṣṭaṃ nidhāyāntyachidre śaṅkūnnihatya tasmin madhyamaṃ veṇośchidraṃ pratimucya lekhāntayoritare chidre pratiṣṭhāpya chidrayoḥśaṅkuṃ niranti sa caturaśraḥ puruṣasaṃjño bhavati, evaṃ pradakṣiṇaṃ caturaḥ puruṣānātmani kuryāt / paścime śahkāvevaṃ veṇośchidraṃ pratimucya paścādanupṛṣṭhyaṃ veṇuṃ nidhāya paścimayorapi chidrayorapi śaṅkuṃ nikhāya pūrvavaddvitīyaṃ puruṣaṃ kuryādevamuttarato 'pi uttarāpratyaguttarāprākcālikhya puruṣadvayaṃ vimimīte / apareṇa yūpāvaṭateśaṃ sañcaramavaśiṣya pṛṣṭhyāyāṃ śaṅkuṃ nihatya tasmin veṇośchidraṃ pratimucya pṛṣṭhyāyāṃ veṇuṃ nipātya chidrayordvai śaṅkū / paścime śaṅkau veṇoḥ chidraṃ pratimucya pṛṣṭhyāyāmeva paścānnanipātya dvau śaṅkū / evaṃ pañca śaṅkavaḥ / madhyamapūrvayoḥśaṅvkoḥ pratimucya ullikhya pūrvavatpuruṣa dvayaṃ kuryāt / udakṣimata upāntyayoḥ chidraṃ pratimucya ullikhya dakṣiṇapakṣe puruṣaṃ uttarata upāntyayoḥ pratimucya uttarapakṣe puruṣaṇṭapucche tu paścime śaṅkau veṇormadhyamachidraṃ pratimucya dakṣiṇottaraṃ veṇuṃ nidhāya chidrayoḥśaṅkuṃ nihatya tayośchidraṃ pratimucya paścimottaraṃ paścimadakṣiṇaṃ cālikhya puruṣaṃ kuryāt / evaṃ kṛtvā āratnaninā dakṣiṇato dakṣiṇaṃ pakṣaṃ pravardhayati / uttaramapi pakṣamuttarato 'ratninaiva prādeśena vitastyā vā paścāt pucchaṃ pravardhayati // pṛṣṭhyā masaṃ vā śabdo vikalpārthaḥ / evamiha veṇumānam / dvau tāvadveṇū bhavataḥ / tayorakeḥ puruṣamātraḥ / anyaḥ puruṣamātrasyākṣṇayā rajjusamaḥ / tābhyāṃ vimānamapareṇa yupāvaṭadeśaṃ sañcaramavaśiṣyate / pṛṣṭhyāyāṃ śaṅkuḥ / tataḥ paścāt tāvanmātre śaṅkuḥ / madhyamaśaṅkāvakṣṇayāmātraṃ veṇuṃ pratimucya pūrvasmin puruṣamātraṃ prati mucya tābhyāṃ dakṣiṇamaṃsaṃ nirharet / puruṣamātraṃ pūrvasmādunmucyāparasmin pratismin pratimucyottaramaṃsaṃ dākṣaṇottarapaścimamadhyamaśaṅkūnāṃ pārśvadvayeṣvarddhapuruṣamātreṣu śaṅkuṃ nihatya pukṣapucchapuruṣānapyevameva kuryāt // unmucya nihanti samaraḥ - saṅgamaḥ pūrvāpare chidre lekhayoryatra nipatatastāveva lekhāntau / sa vamimīte pṛṣṭhyāyāṃ pūrvayoścaturaśrayoḥ pāśvātyaśaṅkuḥ aparayoḥ paurastyaḥ / puruṣaṃapakṣe dākṣiṇātyānāṃ pañcānāṃ śaṅkūnāṃ madhyameṣu triṣu veṇuṃpratimucya aparābhyāmityādi / puruṣaṃ pacche pāśvātyānāṃ trayāṇāṃ dakṣiṇayorantye chidre pratimucya madhyame chidre śaṅkuṃ nihanyāt / evamuttarayorevaṃ sthitānāṃ pañcānāṃ madhye madhyameṣu triṣu veṇuṃ pratimucyottarābhyāmityādi draṣṭavyam / puruṣamuttare dakṣiṇapakṣavat / aratninā tyuktam veṇoḥ pañcame lakṣaṇaṃ kṛtvā tena pakṣau pravardhayet, evaṃ daśame lakṣaṇaṃ kṛtvā / pucchaṃ prakārāntaramāha --- pṛṣṭhyānto maṃsaṃ dvāvatra veṇū ubhyataśchidau, puruṣamātraḥsaviśeṣaś ca / pṛṣṭhyāyāṃ puruṣāntarālān trīn śaṅkūnnihatya madhyame saviśeṣaṃ pratimucya pūrvasminnitaraṃ tayorantye cchidre yatra saṃpatataḥsa dakṣiṇāṃsaḥ / viparyasya puruṣamātraṃ pāśvātye pratimucya śroṇī pūrvavaduttarāṃsaḥ / evaṃ pakṣapuccheṣvapi / saviśeṣo veṇuḥsaptatiśatamaṅgulayo daśatilonāḥ / kapardibhāṣyam rajjvā vā vimāyottaravedinyāyena veṇunā vimimīte

Sanskrit only: no published translation is held for this verse.

रज्ज्वा वान्यतरया विमायोत्तरवेदिवद्वेणुना पश्चाद्विमिमीते अटृष्टार्थम् । सपक्षपुच्छेषु विधाभ्यासे ऽपचये च विधासप्तमकरणीं पुरुषस्थानीयां कृत्वा विहरेत्

rajjvā vānyatarayā vimāyottaravedivadveṇunā paścādvimimīte aṭṛṣṭārtham / sapakṣapuccheṣu vidhābhyāse 'pacaye ca vidhāsaptamakaraṇīṃ puruṣasthānīyāṃ kṛtvā viharet

Sanskrit only: no published translation is held for this verse.

उत्तरवेदिन्यायेन यथोत्तरवेदिर्युगेनयजमानस्य वा पदैर्विमाय शम्यया परिमिमीते अदृष्टार्थं; एवमत्रापि रज्ज्वा विमाय वेणुना मानमदृष्टार्थं स्यात्, तथोत्तरवेदिविकारत्वादग्नेः रज्ज्वा विमाय वेणुना शम्यया चादृष्टार्थं विमानं भवेदिति ॥ सपक्ष - रेत् सपक्षपुच्छेषु प्रौगादिव्यतिरिक्तेष्वग्निष्वभ्यासे ऽष्टविधादावपचये चैकविधादौ चैकविधादौ विधाविधानं करणीनामुच्यते विधासप्तमकरणीं पुरुषस्थानीयां कृत्वा विहरेत् । यावत्यो ऽग्नेर्विधाःसन्ति तासां सप्तमं या करोति सा विधा सप्तमकरणी तां पुरुषस्थानीयां कृत्वा तयाऽत्मपक्षपुच्छानि विहरेदिति । अयमर्थः - यद्येकविधो ऽग्निः ; तमेकविधं पञ्चदशधा विभज्य द्वौ भागौ समस्य समचतुरश्रं कृत्वा तस्य प्रमाणं पुरुषक्थाने कृत्वा अनेनात्मपक्षपुच्छानि विहरेदिति । एवमेव द्विविधादिषु कुर्यात् । चत्वारि सहस्राण्यशीतिश् च तिलाः पुरुषः । तेषां वर्ग एका कोटिः षट्प्रयुतानि षण्णियुतानि चत्वार्ययुतानि षट्सस्राणि चत्वारि शतानि (१६६४६४००) यद्यष्टविधं पुरुषवर्गमष्टभिर्गुणित्वा पूर्वराश्यर्घेन च संयोज्य तत्पञ्चदशभिर्विभज्य लब्धं द्विगुणीकृत्य मूले गृहीते स तस्य पुरुषो भवति । अपचये त्वरत्निप्रादेशानामभावात् नार्धसंयोगः ॥ इतरदुपचयवत्। । नन्वेकविधप्रभृतीनां न प्रक्षपुच्छानि भवन्तीत्युक्तं सत्यमुक्तम् । तद्व्यायाममात्ररूपत्वेन एकविधादौ न घटत इत्येवमर्थमिदमिति तत्रैव व्याख्यातम् । एकविधप्रकृतित्वप्रतिपादनाय च । तस्मान्नात्यन्तनिषेधः, एकविधप्रभृतीनामपि पक्षपुच्छानि भवन्त्येव ॥ अत्र श्लोकमुदाहरन्ति - आकाशवस्वम्बरवेदवर्ग मिष्टप्रवृद्धं तिथिमिर्विभक्तम् । तस्य प्रवृद्धस्य यमेन मूलं सम्भावयेत्सापचये च वृद्धौ ॥ इति --- सुन्दरराजीया व्याख्या रज्ज्वा मिमीते आस्मिन् पक्षे शम्यामानवददृष्टार्थं वेणुमानम् । अथाष्टविधादीनामेकविधादीनां च विहरणमाह ॥ सपक्ष रेत् सपक्षपुच्छा अग्नयः चतुरश्रश्येनकङ्कचिदलजचितश् च । तत्राष्टविधादिषु विधानामभ्यासः । एकविधादिष्वपचयः । विधानां (एकीभूतानां) समस्तानां सप्तमस्य करणी विधासप्तमकरणी । चीयमानस्याग्नेर्य्ॐऽशः तस्य करणी पुरुषस्थानीया । सा चाष्टविधप्रभृतीनामित्यत्रैव प्रदर्शिता । अत्रापि सारात्निप्रादेशपक्षे विधार्धाष्टमकरणीमिति द्रष्टव्यम् । अपचयवचनं श्येनचिदाद्यर्थम् । चतुरश्राणामेकविधादीनामपक्षपुच्छत्वात् । पूर्वत्र पुरुषावेशनमुक्तं, इदानीं तस्य विहरणमुच्यते इत्यतो न पुनरुक्तिः । यद्वा पूर्वसूत्रमष्टविधादिविषयं चतुरश्रविषयं च । डदमेकविधादीनां श्येनादीनां च साधारणमित्यस्ति विशेषः । इदं चानेन ज्ञायते - श्येनचिदादयो गुणविकाराःसप्तविधादिवदेकविधादिष्वपि भवन्ति । शखान्तरीयत्वं च तस्य पूर्वमेवोक्तम् । अत एव तस्य पक्षस्य यत्नसाध्यत्वात् तत्रैवोपधान प्रकारो वक्ष्यते - "यावानग्निःसारत्निप्रादेशःऽ इत्यादि । कपर्दिभाष्यम् करणानाष्टकानां पुरुषस्य पञ्चमेन कारयेत् इष्टकानां करणानि वक्ष्याम इति शेषः । पुरुषस्य पञ्चमेन अरत्निना कारयेत् । तासाम् एवैकतो ऽध्यर्धास् तद् द्वितीयम् । पुरुषस्य पञ्चमो भाग एकतः प्रादेश एकतः तत् तृतीयम् तासामेवेष्टकानां (कतिपया) एकतो ऽध्यर्धा अर्धेनाधिकास्तासां करणं तृतीयं त्रिप्रादेशा पार्श्वमानी अरत्निमात्रा तिर्यङ्भानी द्वितीयस्य करणस्य । अरत्निः पार्श्वमानी । प्रादेशस्तिर्यङ्भानी तत्तृतीयकरणम् । सर्वतः प्रादेशस् तच् चतुर्थम् । समचतुरश्राः पञ्चदशभागीयास् तत् पञ्चमम्

uttaravedinyāyena yathottaravediryugenayajamānasya vā padairvimāya śamyayā parimimīte adṛṣṭārthaṃ; evamatrāpi rajjvā vimāya veṇunā mānamadṛṣṭārthaṃ syāt, tathottaravedivikāratvādagneḥ rajjvā vimāya veṇunā śamyayā cādṛṣṭārthaṃ vimānaṃ bhavediti // sapakṣa - ret sapakṣapuccheṣu praugādivyatirikteṣvagniṣvabhyāse 'ṣṭavidhādāvapacaye caikavidhādau caikavidhādau vidhāvidhānaṃ karaṇīnāmucyate vidhāsaptamakaraṇīṃ puruṣasthānīyāṃ kṛtvā viharet / yāvatyo 'gnervidhāḥsanti tāsāṃ saptamaṃ yā karoti sā vidhā saptamakaraṇī tāṃ puruṣasthānīyāṃ kṛtvā tayā'tmapakṣapucchāni viharediti / ayamarthaḥ - yadyekavidho 'gniḥ ; tamekavidhaṃ pañcadaśadhā vibhajya dvau bhāgau samasya samacaturaśraṃ kṛtvā tasya pramāṇaṃ puruṣakthāne kṛtvā anenātmapakṣapucchāni viharediti / evameva dvividhādiṣu kuryāt / catvāri sahasrāṇyaśītiś ca tilāḥ puruṣaḥ / teṣāṃ varga ekā koṭiḥ ṣaṭprayutāni ṣaṇṇiyutāni catvāryayutāni ṣaṭsasrāṇi catvāri śatāni (16646400) yadyaṣṭavidhaṃ puruṣavargamaṣṭabhirguṇitvā pūrvarāśyarghena ca saṃyojya tatpañcadaśabhirvibhajya labdhaṃ dviguṇīkṛtya mūle gṛhīte sa tasya puruṣo bhavati / apacaye tvaratniprādeśānāmabhāvāt nārdhasaṃyogaḥ // itaradupacayavat. / nanvekavidhaprabhṛtīnāṃ na prakṣapucchāni bhavantītyuktaṃ satyamuktam / tadvyāyāmamātrarūpatvena ekavidhādau na ghaṭata ityevamarthamidamiti tatraiva vyākhyātam / ekavidhaprakṛtitvapratipādanāya ca / tasmānnātyantaniṣedhaḥ, ekavidhaprabhṛtīnāmapi pakṣapucchāni bhavantyeva // atra ślokamudāharanti - ākāśavasvambaravedavarga miṣṭapravṛddhaṃ tithimirvibhaktam / tasya pravṛddhasya yamena mūlaṃ sambhāvayetsāpacaye ca vṛddhau // iti --- sundararājīyā vyākhyā rajjvā mimīte āsmin pakṣe śamyāmānavadadṛṣṭārthaṃ veṇumānam / athāṣṭavidhādīnāmekavidhādīnāṃ ca viharaṇamāha // sapakṣa ret sapakṣapucchā agnayaḥ caturaśraśyenakaṅkacidalajacitaś ca / tatrāṣṭavidhādiṣu vidhānāmabhyāsaḥ / ekavidhādiṣvapacayaḥ / vidhānāṃ (ekībhūtānāṃ) samastānāṃ saptamasya karaṇī vidhāsaptamakaraṇī / cīyamānasyāgneryoṃ'śaḥ tasya karaṇī puruṣasthānīyā / sā cāṣṭavidhaprabhṛtīnāmityatraiva pradarśitā / atrāpi sārātniprādeśapakṣe vidhārdhāṣṭamakaraṇīmiti draṣṭavyam / apacayavacanaṃ śyenacidādyartham / caturaśrāṇāmekavidhādīnāmapakṣapucchatvāt / pūrvatra puruṣāveśanamuktaṃ, idānīṃ tasya viharaṇamucyate ityato na punaruktiḥ / yadvā pūrvasūtramaṣṭavidhādiviṣayaṃ caturaśraviṣayaṃ ca / ḍadamekavidhādīnāṃ śyenādīnāṃ ca sādhāraṇamityasti viśeṣaḥ / idaṃ cānena jñāyate - śyenacidādayo guṇavikārāḥsaptavidhādivadekavidhādiṣvapi bhavanti / śakhāntarīyatvaṃ ca tasya pūrvamevoktam / ata eva tasya pakṣasya yatnasādhyatvāt tatraivopadhāna prakāro vakṣyate - "yāvānagniḥsāratniprādeśaḥ' ityādi / kapardibhāṣyam karaṇānāṣṭakānāṃ puruṣasya pañcamena kārayet iṣṭakānāṃ karaṇāni vakṣyāma iti śeṣaḥ / puruṣasya pañcamena aratninā kārayet / tāsām evaikato 'dhyardhās tad dvitīyam | puruṣasya pañcamo bhāga ekataḥ prādeśa ekataḥ tat tṛtīyam tāsāmeveṣṭakānāṃ (katipayā) ekato 'dhyardhā ardhenādhikāstāsāṃ karaṇaṃ tṛtīyaṃ triprādeśā pārśvamānī aratnimātrā tiryaṅbhānī dvitīyasya karaṇasya / aratniḥ pārśvamānī / prādeśastiryaṅbhānī tattṛtīyakaraṇam / sarvataḥ prādeśas tac caturtham | samacaturaśrāḥ pañcadaśabhāgīyās tat pañcamam

Sanskrit only: no published translation is held for this verse.

अष्टाङ्गुलाः । कपर्दिभाष्यम् ऊर्व्ध्वप्रमाणमिष्टकानां जानोः जानोः पञ्चमेन कारयेत् इत्सेधप्रमाणमिष्टकानां जानुप्रमाणपञ्चमम् । द्वात्रिंशदङ्गुलं जानुः । तस्य पञ्चमभागेन त्रयोदशतिलाधिकषडङ्गुलेन कारयेत् । महाग्नेरिष्टकानामेवैतन्महाग्नेः करणानि विधाय विधानात् । अर्धेन नाकसदां पञ्चचूडानां च

aṣṭāṅgulāḥ / kapardibhāṣyam ūrvdhvapramāṇamiṣṭakānāṃ jānoḥ jānoḥ pañcamena kārayet itsedhapramāṇamiṣṭakānāṃ jānupramāṇapañcamam / dvātriṃśadaṅgulaṃ jānuḥ / tasya pañcamabhāgena trayodaśatilādhikaṣaḍaṅgulena kārayet / mahāgneriṣṭakānāmevaitanmahāgneḥ karaṇāni vidhāya vidhānāt / ardhena nākasadāṃ pañcacūḍānāṃ ca

Sanskrit only: no published translation is held for this verse.

जानुपञ्चमार्धेन नाकसदां पञ्चचूडानां चोत्सेधं सप्ततिलाधिकाङ्गुलत्रयोत्सेधेन कारयेत् ॥ यत् पच्यमानानां प्रतिह्रसीत पुरीषेण तत् सम्पूरयेद् अनियतपरिमाणत्वात् पुरीषस्य

jānupañcamārdhena nākasadāṃ pañcacūḍānāṃ cotsedhaṃ saptatilādhikāṅgulatrayotsedhena kārayet // yat pacyamānānāṃ pratihrasīta purīṣeṇa tat sampūrayed aniyataparimāṇatvāt purīṣasya

Sanskrit only: no published translation is held for this verse.