ये धर्मा भ्रान्तिलक्षणा विपक्षस्वभावास् ते सदसन्तो मायोपमाश् च । किं कारणं । सन्तस् तथा भावाद् अभूतपरिकल्पत्वेन । असन्तस् तथा ऽभावात् ग्राह्यग्राहकत्वेन । तयोश् च भावाभावयोर् अविशिष्टत्वात् सन्तो ऽप्य सन्तो ऽपि मायापि चैवंलक्षणास् तस्मान् मायोपमाः । तथा ऽभावात् तथा ऽ; भावात् तथा ऽभावाद् अलक्षणाः । मायोपमाश् च निर्दिष्टा ये धर्माः प्रातिपक्षिकाः
ye dharmā bhrāntilakṣaṇā vipakṣasvabhāvās te sadasanto māyopamāś ca | kiṃ kāraṇaṃ | santas tathā bhāvād abhūtaparikalpatvena | asantas tathā 'bhāvāt grāhyagrāhakatvena | tayoś ca bhāvābhāvayor aviśiṣṭatvāt santo 'pya santo 'pi māyāpi caivaṃlakṣaṇās tasmān māyopamāḥ | tathā 'bhāvāt tathā '; bhāvāt tathā 'bhāvād alakṣaṇāḥ | māyopamāś ca nirdiṣṭā ye dharmāḥ prātipakṣikāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.