अष्टास्व् अनुत्पत्तिधर्मेषु क्षान्तिर् अनुत्पत्तिकधर्मक्षान्तिः । आदौ संसारस्य न हि तस्याद्युत्पत्तिर् अस्ति । तत्वे ऽन्यत्वे च पूर्वपश्चिमानां न हि संसारे तेषाम् एव धर्माणाम् उत्पत्तिर्ये पूर्वम् उत्पन्नास् तद्भावेनानुत्पत्तेः । न चान्येषाम् अपूर्वप्रकारानुत्पत्तेः । स्वलक्षणे परिकल्पितस्य स्वभावस्य न हि तस्य कदाचिद् उत्पत्तिः । स्वयमनुत्पत्तौ परतन्त्रस्य । अन्यथाभावे परिनिष्पन्नस्य न हि तदन्यथा भावस्योत्पत्तिर् अस्ति । संक्लेशे प्रहीणे न हि क्षयज्ञानलाभिनः सक्लेशस्योत्पत्तिं पुनः पश्यन्ति । विशेषे बुद्धधर्मकायानां न हि तेषां विशेषोत्पत्तिर् अस्ति । इत्य् एतेष्व् अनुत्पत्तिधर्मेषु क्षान्तिर् अनुत्पत्तिधर्मोक्ता । एकयानतापर्येष्टौ सप्त श्लोकाः । धर्म नैरात्म्यमुक्तीनां तुल्यत्वात् गोत्रभेदतः । द्व्याशयाप्तेश् च निर्माणात् पर्यन्ताद् एकयानता
aṣṭāsv anutpattidharmeṣu kṣāntir anutpattikadharmakṣāntiḥ | ādau saṃsārasya na hi tasyādyutpattir asti | tatve 'nyatve ca pūrvapaścimānāṃ na hi saṃsāre teṣām eva dharmāṇām utpattirye pūrvam utpannās tadbhāvenānutpatteḥ | na cānyeṣām apūrvaprakārānutpatteḥ | svalakṣaṇe parikalpitasya svabhāvasya na hi tasya kadācid utpattiḥ | svayamanutpattau paratantrasya | anyathābhāve pariniṣpannasya na hi tadanyathā bhāvasyotpattir asti | saṃkleśe prahīṇe na hi kṣayajñānalābhinaḥ sakleśasyotpattiṃ punaḥ paśyanti | viśeṣe buddhadharmakāyānāṃ na hi teṣāṃ viśeṣotpattir asti | ity eteṣv anutpattidharmeṣu kṣāntir anutpattidharmoktā | ekayānatāparyeṣṭau sapta ślokāḥ | dharma nairātmyamuktīnāṃ tulyatvāt gotrabhedataḥ | dvyāśayāpteś ca nirmāṇāt paryantād ekayānatā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.