द्वादशो ऽधिकारः धर्मदेशनायां मात्सर्यप्रतिषेधे श्लोकः प्राणान् भोगांश् च धीराः प्रमुदितमनसः कृच्छ्रलब्धान् असारान् सत्वेभ्यो दुःखितेभ्यः सततम् अवसृजन्त्य् उच्चदानप्रकारैः । प्राग् एवोदारधर्मं हितकरम् असकृत् सर्वथैव प्रजानां कृच्छ्रे नैवोपलब्धं भृशमवसृजतां वृद्धिगं चाव्ययं च
dvādaśo 'dhikāraḥ dharmadeśanāyāṃ mātsaryapratiṣedhe ślokaḥ prāṇān bhogāṃś ca dhīrāḥ pramuditamanasaḥ kṛcchralabdhān asārān satvebhyo duḥkhitebhyaḥ satatam avasṛjanty uccadānaprakāraiḥ | prāg evodāradharmaṃ hitakaram asakṛt sarvathaiva prajānāṃ kṛcchre naivopalabdhaṃ bhṛśamavasṛjatāṃ vṛddhigaṃ cāvyayaṃ ca
Sanskrit only: no published translation is held for this verse.
कृच्छ्रलब्धान् अप्य् असारान् क्षयित्वा प्राणान् भोगांश् च बोधिसत्वा दुःखितेभ्यः कारुण्यात् सततम् उदारैर् विसर्गैर् उत्सृजन्ति प्राग् एव धर्मं यो नैव कृच्छ्रेण वा भृशम् अपि वावसृजतां वृद्धिं गछति न क्षयं । धर्मनैरर्थक्यसार्थक्ये श्लोकद्वयं । धर्मो नैव च देशितो भगवता प्रत्यात्मवेद्यो यत आकृष्टा जनता च युक्तयुक्तिविहितैर् धर्मैः स्वकीं धर्मतां । स्वशान्त्यास्यपुटे विशुद्धिविपुले साधारणे ऽथाक्षये लालेनेव कृपात्मभिस् त्वजगरप्रख्यैः समापादिता
kṛcchralabdhān apy asārān kṣayitvā prāṇān bhogāṃś ca bodhisatvā duḥkhitebhyaḥ kāruṇyāt satatam udārair visargair utsṛjanti prāg eva dharmaṃ yo naiva kṛcchreṇa vā bhṛśam api vāvasṛjatāṃ vṛddhiṃ gachati na kṣayaṃ | dharmanairarthakyasārthakye ślokadvayaṃ | dharmo naiva ca deśito bhagavatā pratyātmavedyo yata ākṛṣṭā janatā ca yuktayuktivihitair dharmaiḥ svakīṃ dharmatāṃ | svaśāntyāsyapuṭe viśuddhivipule sādhāraṇe 'thākṣaye lāleneva kṛpātmabhis tvajagaraprakhyaiḥ samāpāditā
Sanskrit only: no published translation is held for this verse.
तत्र बुद्धा अजगरोपमास् तेषां स्वशान्तिर् आस्यपुटं धर्मकायः । विशुद्धिविपुलं सवासनक्लेशज्ञेयावरणविशुद्धितः । साधारणं सर्वबुद्धैः अक्षयम् आत्यन्तिकत्वात् । तस्मान् नैव निरर्थिका भवति सा या भावना योगिनां तस्मान् नैव निरर्थिका भवति सा या देशना सौगती । दृष्टो ऽर्थः श्रुतमात्रकाद् यदि भवेत् स्याद् भावनापार्थिका अश्रुत्वा यदि भावनाम् अनुविशेत् स्याद् देशनापार्थिका
tatra buddhā ajagaropamās teṣāṃ svaśāntir āsyapuṭaṃ dharmakāyaḥ | viśuddhivipulaṃ savāsanakleśajñeyāvaraṇaviśuddhitaḥ | sādhāraṇaṃ sarvabuddhaiḥ akṣayam ātyantikatvāt | tasmān naiva nirarthikā bhavati sā yā bhāvanā yogināṃ tasmān naiva nirarthikā bhavati sā yā deśanā saugatī | dṛṣṭo 'rthaḥ śrutamātrakād yadi bhavet syād bhāvanāpārthikā aśrutvā yadi bhāvanām anuviśet syād deśanāpārthikā
Sanskrit only: no published translation is held for this verse.
तस्मान् न निरर्थिका योगिनां भावना भवति प्रत्यात्मवेद्यस्य धर्मस्य तद्वशेनाभिगमात् । न निरर्थिका देशना भवति युक्तिविहितैर् धर्मैः स्वधर्मतायां जनताकर्षणात् । यथा पुनर्भावना सार्थिका भवेद् देशना वा तत् श्लोकार्धेन दर्शयति । शेषं गतार्थं । देशनाविभागे श्लोकः । आगमतो अधिगमतो विभुत्वतो देशनाग्रसत्वानां । मुखतो रूपात् सर्वाकाशाद् उच्चरणता ऽपि॥॥॥॥॥॥
tasmān na nirarthikā yogināṃ bhāvanā bhavati pratyātmavedyasya dharmasya tadvaśenābhigamāt | na nirarthikā deśanā bhavati yuktivihitair dharmaiḥ svadharmatāyāṃ janatākarṣaṇāt | yathā punarbhāvanā sārthikā bhaved deśanā vā tat ślokārdhena darśayati | śeṣaṃ gatārthaṃ | deśanāvibhāge ślokaḥ | āgamato adhigamato vibhutvato deśanāgrasatvānāṃ | mukhato rūpāt sarvākāśād uccaraṇatā 'pi............
Sanskrit only: no published translation is held for this verse.
तत्र विभुत्वतो या महाभूमिप्रविष्टानां । सर्वतो रूपाद्या वृक्षवादित्रादिभ्यो ऽपि निश्चरति । शेषं गतार्थं । देशनासंपत्तौ श्लोकद्वयं । विषदा संदेहजहा आदेया तत्वदर्शिका द्विविधा । संपन्नदेशनेयं विज्ञेयंया बोधिसत्वानां
tatra vibhutvato yā mahābhūmipraviṣṭānāṃ | sarvato rūpādyā vṛkṣavāditrādibhyo 'pi niścarati | śeṣaṃ gatārthaṃ | deśanāsaṃpattau ślokadvayaṃ | viṣadā saṃdehajahā ādeyā tatvadarśikā dvividhā | saṃpannadeśaneyaṃ vijñeyaṃyā bodhisatvānāṃ
Sanskrit only: no published translation is held for this verse.
अयं चतुष्कार्थनिर्देशेन श्लोकः । यद् उक्तं ब्रह्मपरिपृच्छायां । चतुर्भिर् धर्मैः समन्वागता बोधिसत्वा महाधर्मदानं वितरन्ति सद्धर्मपरिग्रहणतया आत्मनः प्रज्ञोत्तापनतया सत्पुरुषकर्मकरणतया संक्लेशव्यवदानसंदेशनतया च । एकेन हि बाहुश्रुत्याद् विषदा देशना भवति । द्वितीयेन महाप्राज्ञत्वात् संशयजहा परेषां संशयच्छेदात् । तृतीयेनानवद्यकर्मत्वाद् आदेया । चतुर्थेन तत्वदर्शिका द्विविधा संक्लेशलक्षणस्य च तत्वस्य व्यवदानलक्षणस्य च द्वाभ्यां द्वाभ्यां सत्याभ्यां । मधुरा मदव्यपेता न च खिन्ना देशनाग्रसत्वानां । स्फुटचित्रयुक्तगमिका निरामिषा सर्वगा चैव
ayaṃ catuṣkārthanirdeśena ślokaḥ | yad uktaṃ brahmaparipṛcchāyāṃ | caturbhir dharmaiḥ samanvāgatā bodhisatvā mahādharmadānaṃ vitaranti saddharmaparigrahaṇatayā ātmanaḥ prajñottāpanatayā satpuruṣakarmakaraṇatayā saṃkleśavyavadānasaṃdeśanatayā ca | ekena hi bāhuśrutyād viṣadā deśanā bhavati | dvitīyena mahāprājñatvāt saṃśayajahā pareṣāṃ saṃśayacchedāt | tṛtīyenānavadyakarmatvād ādeyā | caturthena tatvadarśikā dvividhā saṃkleśalakṣaṇasya ca tatvasya vyavadānalakṣaṇasya ca dvābhyāṃ dvābhyāṃ satyābhyāṃ | madhurā madavyapetā na ca khinnā deśanāgrasatvānāṃ | sphuṭacitrayuktagamikā nirāmiṣā sarvagā caiva
Sanskrit only: no published translation is held for this verse.
अस्मिन् द्वितीये श्लोके मधुरा परेणाक्षिप्तस्यापरुषवचनात् । मदव्यपेता स्तुतौ सिद्धौ वा मदाननुगमनात् । अखिन्ना अकिलासिकत्वात् । स्फुटा निराचार्यमुष्टित्वात् कृत्स्नदेशनतः । चित्रा अपुनरुक्तत्वात् । युक्ता प्रमाणाविरुद्धवात् । गमिका प्रतीतपदव्यञ्जनत्वात् निरामिषा प्रसन्नाधिकारानधिकत्वात् । सर्वत्रगा यानत्रयगतत्वात् । वाक्संपत्तौ श्लोकः । अदीना मधुरा सूक्ता प्रतीता विषदा तथा वाग् जिनात्मजे । यथार्हा निरामिषा च परिमिताक्षया तथा
asmin dvitīye śloke madhurā pareṇākṣiptasyāparuṣavacanāt | madavyapetā stutau siddhau vā madānanugamanāt | akhinnā akilāsikatvāt | sphuṭā nirācāryamuṣṭitvāt kṛtsnadeśanataḥ | citrā apunaruktatvāt | yuktā pramāṇāviruddhavāt | gamikā pratītapadavyañjanatvāt nirāmiṣā prasannādhikārānadhikatvāt | sarvatragā yānatrayagatatvāt | vāksaṃpattau ślokaḥ | adīnā madhurā sūktā pratītā viṣadā tathā vāg jinātmaje | yathārhā nirāmiṣā ca parimitākṣayā tathā
Sanskrit only: no published translation is held for this verse.
अदीना पौरी पर्षन्पूरणात् । मधुरा वल्गुः । सूक्ता विस्पष्टा सुनिरुक्ताक्षरत्वात् । प्रतीता विज्ञेया प्रतीताभिधानत्वात् । यथार्हा श्रवणीया विनेयानुरूपत्वात् । अनामिषा अनिःश्रितलाभसत्कारा लोके । प्रतता अप्रतिकूला । परिमिता आयामखेदात् । विषदा अपर्यात्ता । व्यञ्जनसंपत्तौ श्लोकद्वयं । उद्देशान् निर्देशात् तथैव यानानुलोमनात् श्लाक्ष्ण्यात् । प्रातीत्याद् याथार्हान् नैर्याण्याद् आनुकूल्यत्वात्
adīnā paurī parṣanpūraṇāt | madhurā valguḥ | sūktā vispaṣṭā suniruktākṣaratvāt | pratītā vijñeyā pratītābhidhānatvāt | yathārhā śravaṇīyā vineyānurūpatvāt | anāmiṣā aniḥśritalābhasatkārā loke | pratatā apratikūlā | parimitā āyāmakhedāt | viṣadā aparyāttā | vyañjanasaṃpattau ślokadvayaṃ | uddeśān nirdeśāt tathaiva yānānulomanāt ślākṣṇyāt | prātītyād yāthārhān nairyāṇyād ānukūlyatvāt
Sanskrit only: no published translation is held for this verse.
युक्तैः पदव्यञ्जनैर् उद्देशात् प्रमाणाविरोधेन । सहितैर् निर्देशाद् उद्देशाविरोधेन । यानानुलोमनाद् आनुलोमिकैर् यानत्रयाविरोधेन । श्लाक्ष्ण्याद् अनुच्छविकैर् अकष्टशब्दतया । प्रातीत्याद् औपयिकैः प्रतीतार्थतया चार्थोपगमनात् । याथार्हात् प्रतिरूपैर् विनेयानुरूपतया । नैर्याण्यात् प्रदक्षिणैर् निर्वाणाधिकारतया । आनुकूल्यान् निपकस्याङ्गसंभारैः शैक्षस्यार्याष्टाङ्गमार्गानुकूल्यात् । व्यञ्जनसंपच् चैषा विज्ञेया सर्वथाग्रसत्वानां । षष्ट्यङ्गी साचिन्त्या घोषो ऽनन्तस् तु सुगतानां
yuktaiḥ padavyañjanair uddeśāt pramāṇāvirodhena | sahitair nirdeśād uddeśāvirodhena | yānānulomanād ānulomikair yānatrayāvirodhena | ślākṣṇyād anucchavikair akaṣṭaśabdatayā | prātītyād aupayikaiḥ pratītārthatayā cārthopagamanāt | yāthārhāt pratirūpair vineyānurūpatayā | nairyāṇyāt pradakṣiṇair nirvāṇādhikāratayā | ānukūlyān nipakasyāṅgasaṃbhāraiḥ śaikṣasyāryāṣṭāṅgamārgānukūlyāt | vyañjanasaṃpac caiṣā vijñeyā sarvathāgrasatvānāṃ | ṣaṣṭyaṅgī sācintyā ghoṣo 'nantas tu sugatānāṃ
Sanskrit only: no published translation is held for this verse.
षष्ट्यङ्गी साचिन्त्या या गुह्यकाधिपतिनिर्देशे बुद्धस्य षष्ट्याकारा वाग् निर्दिष्टा । पुनर् अपरं शान्तमते तथागतस्य षष्ट्याकारोपेता वाग् निश्चरति स्निग्धा च मृदुका च मनोज्ञा च मनोरमा च शुद्धा चेति विस्तरः । तत्र (म्स ८०) स्निग्धा सत्वधातुकुशलमूलोपस्तम्भिकत्वात् । मृदुका दुष्ट एव धर्मे सुखसंस्पर्शत्वात् । मनोज्ञा स्वर्थत्वात् । मनोरमा सुव्यञ्जनत्वात् । शुद्धा निरुत्तरलोकोत्तरपृष्ठलब्धत्वात् । विमला सर्वक्लेशानुशयवासनाविसंयुक्तत्वात् । प्रभास्वरा प्रतीतपदव्यञ्जनत्वात् । वल्गुः सर्वतीर्थ्यकुमतिदृष्टिविघातबलगुणयुक्तत्वात् । श्रवणीया प्रतिपत्तिनैर्याणिकत्वात् । अनन्ता सर्वपरप्रवादिभिर् अनाछेद्यत्वात् । कला रञ्जिकत्वात् । विनीता रागादिप्रतिपक्षत्वात् । अकर्कशा शिक्षाप्रज्ञप्तिसुखोपायत्वात् । अपरुषा तद्व्यतिक्रमसंपन्निःसरणोपदेशकत्वात् । सुविनीता यानत्रयनयोपदेशिकत्वात् । कर्णसुखा विक्षेपप्रतिपक्षत्वात् । कायप्रह्लादनकरी समाध्यावाहकत्वात् । चित्ताउद्विल्यकरी विपश्यनाप्रामोद्यावाहफलकत्वात् । हृदयसंतुष्टिकरी संशयच्छेदिकत्वात् । प्रीतिसुखसंजननी मिथ्यानिश्चयापकर्षिकत्वात् । निःपरिदाहा प्रतिपत्तावविप्रतिसारत्वात् । आज्ञेया संपन्नश्रुतमयज्ञानाश्रयत्वात् । विज्ञेया संपन्नचिन्तामयज्ञानाश्रयत्वात् । विष्पष्टा अनाचार्यमुष्टिधर्मविहितत्वात् । प्रेमणीया ऽनुप्राप्तस्वक-अर्थानां प्रेमकरत्वात् । अभिनन्दनीया ऽननुप्राप्तस्वकार्थानां स्पृहणीयत्वात् । आज्ञापनीया अचिन्त्यधर्मसम्यग्दर्शिकत्वात् । विज्ञापनीया ऽचिन्त्यधर्मसम्यग्देशिकत्वात् । युक्ता प्रमाणाविरुद्धत्वात् । सहिता यथार्हविनेयदेशिकत्वात् । पुनरुक्तदोषजहा अवन्ध्यत्वात् । सिंहस्वरवेगा सर्वतीर्थ्यसंत्रासकत्वात् । नागस्वरशब्दा उदारत्वात् । मेघस्वरघोषा गम्भीरत्वात् । नागेन्द्ररुता आदेयत्वात् । किन्नरसंगीतिघोषा मधुरत्वात् । कलविङ्कस्वररुतरविता ऽभीक्ष्णभङ्गरत्वात् । ब्रह्मस्वररुतरविता दूरंगमत्वात् । जीवंजीवकस्वररुतरविता सर्वसिद्धिपूर्वंगमनङ्गलत्वात् । देवेन्द्रमधुरनिर्घोषा अनतिक्रमणीयत्वात् । दुन्दुभिस्वरा सर्वमारप्रत्यर्थिकविजयपूर्वंगमत्वात् । अनुन्नता स्तुत्यसंक्लिष्टत्वात् । अनवनता निन्दाऽसंक्लिष्टत्वात् । सर्वशब्दानुप्रविष्टा सर्वव्याकरणसर्वाकारलक्षणानुप्रविष्टत्वात् । अपशब्दविगता स्मृतिसंप्रमोषे तदनिश्चरणत्वात् । अविकला विनेयकृत्यसर्वकालप्रत्युपस्थितत्वात् । अलीना लाभसत्कारानिश्रितत्वात् । अदीना सावद्यापगतत्वात् । प्रमुदिता अखेदित्वात् । प्रसृता सर्वविद्यास्थानकौशल्यानुगतत्वात् । अखिला सत्वानां तत्सकलार्थसंपादकत्वात् । सरिता प्रबन्धानुपच्छिन्नत्वात् । ललिता विचित्राकारप्रत्युपस्थानत्वात् । सर्वस्वरपूरणी एकस्वरनैकशब्दविज्ञप्तिप्रत्युपस्थापनत्वात् । सर्वसत्वेन्द्रियसंतोषणी एकानेकार्थविज्ञप्तिप्रत्युपस्थानत्वात् । अनिन्दिता यथाप्रतिज्ञत्वात् । अचञ्चला आगमितकालप्रयुक्तत्वात् । अचपला अत्वरमाणविहितत्वात् । सर्वपर्षदनुरविता दूरान्तिकपर्षत्तुल्यश्रवणत्वात् । (म्स ८१) सर्वाकारवरोपेतो सर्वलौकिकार्थदृष्टान्तधर्मपरिणामिकत्वात् । देशनामाहात्म्ये चत्वारः श्लोकाः । वाचा पदैः सुयुक्तैर् अनुदेशविभागसंशयच्छेदैः । बहुलीकारानुगता ह्य् उद्धटितविपञ्चितज्ञेषु
ṣaṣṭyaṅgī sācintyā yā guhyakādhipatinirdeśe buddhasya ṣaṣṭyākārā vāg nirdiṣṭā | punar aparaṃ śāntamate tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca mṛdukā ca manojñā ca manoramā ca śuddhā ceti vistaraḥ | tatra (Msa 80) snigdhā satvadhātukuśalamūlopastambhikatvāt | mṛdukā duṣṭa eva dharme sukhasaṃsparśatvāt | manojñā svarthatvāt | manoramā suvyañjanatvāt | śuddhā niruttaralokottarapṛṣṭhalabdhatvāt | vimalā sarvakleśānuśayavāsanāvisaṃyuktatvāt | prabhāsvarā pratītapadavyañjanatvāt | valguḥ sarvatīrthyakumatidṛṣṭivighātabalaguṇayuktatvāt | śravaṇīyā pratipattinairyāṇikatvāt | anantā sarvaparapravādibhir anāchedyatvāt | kalā rañjikatvāt | vinītā rāgādipratipakṣatvāt | akarkaśā śikṣāprajñaptisukhopāyatvāt | aparuṣā tadvyatikramasaṃpanniḥsaraṇopadeśakatvāt | suvinītā yānatrayanayopadeśikatvāt | karṇasukhā vikṣepapratipakṣatvāt | kāyaprahlādanakarī samādhyāvāhakatvāt | cittāudvilyakarī vipaśyanāprāmodyāvāhaphalakatvāt | hṛdayasaṃtuṣṭikarī saṃśayacchedikatvāt | prītisukhasaṃjananī mithyāniścayāpakarṣikatvāt | niḥparidāhā pratipattāvavipratisāratvāt | ājñeyā saṃpannaśrutamayajñānāśrayatvāt | vijñeyā saṃpannacintāmayajñānāśrayatvāt | viṣpaṣṭā anācāryamuṣṭidharmavihitatvāt | premaṇīyā 'nuprāptasvaka-arthānāṃ premakaratvāt | abhinandanīyā 'nanuprāptasvakārthānāṃ spṛhaṇīyatvāt | ājñāpanīyā acintyadharmasamyagdarśikatvāt | vijñāpanīyā 'cintyadharmasamyagdeśikatvāt | yuktā pramāṇāviruddhatvāt | sahitā yathārhavineyadeśikatvāt | punaruktadoṣajahā avandhyatvāt | siṃhasvaravegā sarvatīrthyasaṃtrāsakatvāt | nāgasvaraśabdā udāratvāt | meghasvaraghoṣā gambhīratvāt | nāgendrarutā ādeyatvāt | kinnarasaṃgītighoṣā madhuratvāt | kalaviṅkasvararutaravitā 'bhīkṣṇabhaṅgaratvāt | brahmasvararutaravitā dūraṃgamatvāt | jīvaṃjīvakasvararutaravitā sarvasiddhipūrvaṃgamanaṅgalatvāt | devendramadhuranirghoṣā anatikramaṇīyatvāt | dundubhisvarā sarvamārapratyarthikavijayapūrvaṃgamatvāt | anunnatā stutyasaṃkliṣṭatvāt | anavanatā nindā'saṃkliṣṭatvāt | sarvaśabdānupraviṣṭā sarvavyākaraṇasarvākāralakṣaṇānupraviṣṭatvāt | apaśabdavigatā smṛtisaṃpramoṣe tadaniścaraṇatvāt | avikalā vineyakṛtyasarvakālapratyupasthitatvāt | alīnā lābhasatkārāniśritatvāt | adīnā sāvadyāpagatatvāt | pramuditā akheditvāt | prasṛtā sarvavidyāsthānakauśalyānugatatvāt | akhilā satvānāṃ tatsakalārthasaṃpādakatvāt | saritā prabandhānupacchinnatvāt | lalitā vicitrākārapratyupasthānatvāt | sarvasvarapūraṇī ekasvaranaikaśabdavijñaptipratyupasthāpanatvāt | sarvasatvendriyasaṃtoṣaṇī ekānekārthavijñaptipratyupasthānatvāt | aninditā yathāpratijñatvāt | acañcalā āgamitakālaprayuktatvāt | acapalā atvaramāṇavihitatvāt | sarvaparṣadanuravitā dūrāntikaparṣattulyaśravaṇatvāt | (Msa 81) sarvākāravaropeto sarvalaukikārthadṛṣṭāntadharmapariṇāmikatvāt | deśanāmāhātmye catvāraḥ ślokāḥ | vācā padaiḥ suyuktair anudeśavibhāgasaṃśayacchedaiḥ | bahulīkārānugatā hy uddhaṭitavipañcitajñeṣu
Sanskrit only: no published translation is held for this verse.
आख्याति वाचा । प्रज्ञापयति पदैः सुयुक्तैः । प्रस्थापयति विभाजयति विवृणोति यथाक्रममुद्देशविभागसंशयच्छेदैः । उत्तानीकरोति उत्तानीकरणं बहुलीकारानुगता देशना निश्चयबलाधानर्थं । देशयत्य् उद्घटितज्ञेषु । संप्रकाशयति विपञ्चितज्ञेषु । शुद्धा त्रिमण्डलेन हितेयं देशना हि बुद्धानां । दोषैर् विवर्जिता पुनर् अष्टभिर् एषैव विज्ञेया
ākhyāti vācā | prajñāpayati padaiḥ suyuktaiḥ | prasthāpayati vibhājayati vivṛṇoti yathākramamuddeśavibhāgasaṃśayacchedaiḥ | uttānīkaroti uttānīkaraṇaṃ bahulīkārānugatā deśanā niścayabalādhānarthaṃ | deśayaty udghaṭitajñeṣu | saṃprakāśayati vipañcitajñeṣu | śuddhā trimaṇḍalena hiteyaṃ deśanā hi buddhānāṃ | doṣair vivarjitā punar aṣṭabhir eṣaiva vijñeyā
Sanskrit only: no published translation is held for this verse.
शुद्धा त्रिमण्डलेनेति । येन च देशयति वाचा पदैश् च । यथा चोद्देशादिप्रकारैः । येषु चोद्घटितविपञ्चितज्ञेषु । एषैव च देशना पुनर् अष्टदोषविवर्जिता वेदितव्या यथाक्रमं । कौशीद्यम् अनवबोधो ह्य् अवकाशस्याकृतिर् ह्य् अनीतत्वम् । संदेहस्याच्छेदस् तद्विगमस्यादृढीकरणम्
śuddhā trimaṇḍaleneti | yena ca deśayati vācā padaiś ca | yathā coddeśādiprakāraiḥ | yeṣu codghaṭitavipañcitajñeṣu | eṣaiva ca deśanā punar aṣṭadoṣavivarjitā veditavyā yathākramaṃ | kauśīdyam anavabodho hy avakāśasyākṛtir hy anītatvam | saṃdehasyācchedas tadvigamasyādṛḍhīkaraṇam
Sanskrit only: no published translation is held for this verse.
ते पुनर् अष्टौ दोषाः कौशीद्यम् अनवसंबोधः अवकाशस्याकरणं अनीतार्थत्वं संदेहस्याच्छेदना तद्विगमस्यादृढीकरणं निश्चयस्येत्य् अर्थः । खेदो ऽथ मत्सरित्वं दोषा ह्य् एते मता कथायां हि । तदभावाद् बुद्धानां निरुत्तरा देशना भवति
te punar aṣṭau doṣāḥ kauśīdyam anavasaṃbodhaḥ avakāśasyākaraṇaṃ anītārthatvaṃ saṃdehasyācchedanā tadvigamasyādṛḍhīkaraṇaṃ niścayasyety arthaḥ | khedo 'tha matsaritvaṃ doṣā hy ete matā kathāyāṃ hi | tadabhāvād buddhānāṃ niruttarā deśanā bhavati
Sanskrit only: no published translation is held for this verse.
खेदो येनाभीक्ष्णं न देशयेत् । मत्सरित्वं चाकृत्स्नप्रकाशन्ता । अर्थसंपत्तौ श्लोकद्वयं । कल्याणो धर्मो ऽयं हेतुत्वाद् भक्तितुष्टिबुद्धीनां । द्विविधार्थः सुग्राह्यश् चतुर्गुणब्रह्मचर्यवदः
khedo yenābhīkṣṇaṃ na deśayet | matsaritvaṃ cākṛtsnaprakāśantā | arthasaṃpattau ślokadvayaṃ | kalyāṇo dharmo 'yaṃ hetutvād bhaktituṣṭibuddhīnāṃ | dvividhārthaḥ sugrāhyaś caturguṇabrahmacaryavadaḥ
Sanskrit only: no published translation is held for this verse.
परैर् असाधारणयोगकेवलं त्रिधातुकक्लेशविहानिपूरकम् । स्वभावशुद्धं मलशुद्धितश् च तच् चतुर्गुणब्रह्मविचर्यम् इष्यते
parair asādhāraṇayogakevalaṃ tridhātukakleśavihānipūrakam | svabhāvaśuddhaṃ malaśuddhitaś ca tac caturguṇabrahmavicaryam iṣyate
Sanskrit only: no published translation is held for this verse.
चतुर्गुणब्रह्मचर्यसंप्रकाशको धर्मः । आदिमध्यपर्यवसानकल्याणो यथाक्रमं श्रुतचिन्ताभावनाभिर् भक्तितुष्टिबुद्धिहेतुत्वात् । तत्र भक्तिर् अधिमुक्तिः संप्रत्ययः तुष्टिः प्रामोद्यं युक्तिनिध्यानाच् छक्यप्राप्तितां विदित्वा । बुद्धिः समाहितचित्तस्य यथाभूतज्ञानं । द्विविधार्थ इत्यतः स्वर्थः संवृत्तिपरमार्थसत्ययोगात् । सुग्राह्य इत्यतः सुव्यञ्जनः प्रतीतपदव्यञ्जनत्वात् । चतुर्गुणं ब्रह्मचर्यं । केवलं परैर् असाधारणत्वात् परिपूर्णं त्रिधातुक्लेशप्रहाणपरिपूरणात् । परिशुद्धं स्वभावविशुद्धितो ऽनास्रवत्वात् । पर्यवदातं मलविशुद्धितः संतानविशुद्ध्या क्षीणास्रवाणां । अभिसंधिविभागे श्लोकद्वयं । अवतारणसंधिश् च संधिर् लक्षणतो ऽपरः । प्रतिपक्षाभिसंधिश् च संधिः परिणताव् अपि
caturguṇabrahmacaryasaṃprakāśako dharmaḥ | ādimadhyaparyavasānakalyāṇo yathākramaṃ śrutacintābhāvanābhir bhaktituṣṭibuddhihetutvāt | tatra bhaktir adhimuktiḥ saṃpratyayaḥ tuṣṭiḥ prāmodyaṃ yuktinidhyānāc chakyaprāptitāṃ viditvā | buddhiḥ samāhitacittasya yathābhūtajñānaṃ | dvividhārtha ityataḥ svarthaḥ saṃvṛttiparamārthasatyayogāt | sugrāhya ityataḥ suvyañjanaḥ pratītapadavyañjanatvāt | caturguṇaṃ brahmacaryaṃ | kevalaṃ parair asādhāraṇatvāt paripūrṇaṃ tridhātukleśaprahāṇaparipūraṇāt | pariśuddhaṃ svabhāvaviśuddhito 'nāsravatvāt | paryavadātaṃ malaviśuddhitaḥ saṃtānaviśuddhyā kṣīṇāsravāṇāṃ | abhisaṃdhivibhāge ślokadvayaṃ | avatāraṇasaṃdhiś ca saṃdhir lakṣaṇato 'paraḥ | pratipakṣābhisaṃdhiś ca saṃdhiḥ pariṇatāv api
Sanskrit only: no published translation is held for this verse.
श्रावकेषु स्वभावेषु दोषाणां विनये तथा । अभिधानस्य गाम्भीर्ये संधिर् एष चतुर्विधः
śrāvakeṣu svabhāveṣu doṣāṇāṃ vinaye tathā | abhidhānasya gāmbhīrye saṃdhir eṣa caturvidhaḥ
Sanskrit only: no published translation is held for this verse.
असारे सारमतयो विपर्यासे च सुस्थिताः । क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुक्तमां ॥ अम्स १२।१७* ॥ ॥ इति ॥ चतुर्विधो ऽभिसंधिर्देशनायां बुद्धस्य वेदितव्यः । अवतारणाभिसंधिर् लक्षणाभिसंधिः प्रतिपक्षाभिसंधिः परिणामन-अभिसंधिश्च । तत्रावतारणाभिसंधिः श्रावकेषु द्रष्टव्यः । शासनावतारणार्थम् अनुत्त्रासाय रूपाद्यस्तित्वदेशनात् । लक्षणाभिसंधिस् त्रिषु परिकल्पितादिस्व् अभावेषु द्रष्टव्यो निःस्वभावानुत्पन्नादिसर्वधर्मदेशनात् । प्रतिपक्षाभिसंधिर् दोषाणां विनये द्रष्टव्यो यथाष्टावरणप्रतिपक्षाग्रयानसंभाषानुशंसे गाथाद्वयं वक्ष्यति । परिणामनाभिसंधिर् अभिधानगाम्भीर्ये द्रष्टव्यो यथाह । असारे सारतयो विपर्यासेच सुखिताः । क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिम् उत्तमां ॥ इति अयम् अत्राभिसंधिः । असारे सारमतय इत्य् अविक्षेपे येषां सारबुद्धिः प्रधानबुद्धिर्विक्षेपो हि विसारश् चेतसः । विपर्यासे च सुस्थिता इति नित्यसुखशुच्यात्मग्राहविपर्ययेणानित्यादिके विपर्यासे सुस्थिता अपरिहाणितः । क्लेशेन च स संक्लिष्टा इति दीर्घदुष्करव्यायाम् अश्रमेणात्यर्थं परिक्लिष्टाः । अभिप्रायविभागे श्लोकः । समता ऽर्थान्तरे ज्ञेयस् तथा कालान्तरे पुनः । पुद्गलस्याशये चैव अभिप्रायश् चतुर्विधः
asāre sāramatayo viparyāse ca susthitāḥ | kleśena ca susaṃkliṣṭā labhante bodhimuktamāṃ || AMsa 12.17* || || iti || caturvidho 'bhisaṃdhirdeśanāyāṃ buddhasya veditavyaḥ | avatāraṇābhisaṃdhir lakṣaṇābhisaṃdhiḥ pratipakṣābhisaṃdhiḥ pariṇāmana-abhisaṃdhiśca | tatrāvatāraṇābhisaṃdhiḥ śrāvakeṣu draṣṭavyaḥ | śāsanāvatāraṇārtham anuttrāsāya rūpādyastitvadeśanāt | lakṣaṇābhisaṃdhis triṣu parikalpitādisv abhāveṣu draṣṭavyo niḥsvabhāvānutpannādisarvadharmadeśanāt | pratipakṣābhisaṃdhir doṣāṇāṃ vinaye draṣṭavyo yathāṣṭāvaraṇapratipakṣāgrayānasaṃbhāṣānuśaṃse gāthādvayaṃ vakṣyati | pariṇāmanābhisaṃdhir abhidhānagāmbhīrye draṣṭavyo yathāha | asāre sāratayo viparyāseca sukhitāḥ | kleśena ca susaṃkliṣṭā labhante bodhim uttamāṃ || iti ayam atrābhisaṃdhiḥ | asāre sāramataya ity avikṣepe yeṣāṃ sārabuddhiḥ pradhānabuddhirvikṣepo hi visāraś cetasaḥ | viparyāse ca susthitā iti nityasukhaśucyātmagrāhaviparyayeṇānityādike viparyāse susthitā aparihāṇitaḥ | kleśena ca sa saṃkliṣṭā iti dīrghaduṣkaravyāyām aśrameṇātyarthaṃ parikliṣṭāḥ | abhiprāyavibhāge ślokaḥ | samatā 'rthāntare jñeyas tathā kālāntare punaḥ | pudgalasyāśaye caiva abhiprāyaś caturvidhaḥ
Sanskrit only: no published translation is held for this verse.
चतुर्विधो ऽभिप्रायः । सतताभिप्रायो यद् आह । अहम् एव स तस्मिन् समये विपश्वी सम्यक्संबुद्धो ऽभूवम् इत्य् अविशिष्टधर्मकायत्वात् । अर्थान्तराभिप्रायो यद् आह । निःस्वभावाः सर्वधर्मा अनुत्पन्ना इत्य् एवम् आदि अयथारुतार्थत्वात् कालान्तराभिप्रायो यदाह । ये सुखावत्यां प्राणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति कालान्तरेणेत्य् अभिप्रायः । पुद्गलाशयाभिप्रायो यत् तद् एव कुशलमूलं कस्यचित् प्रशंसते कस्यचिद् विगर्हते ऽल्पमात्रसंतुष्टस्य वैपुल्यसंग्रहात् महायानसूत्रान्तसानुशंसं गाथाद्वयम् उपादायाह । बुद्धे धर्मे ऽवज्ञा कौशीद्यं तुष्टिर् अल्पमात्रेण । रागे माने चरितं कौकृतं चानियतभेदः
caturvidho 'bhiprāyaḥ | satatābhiprāyo yad āha | aham eva sa tasmin samaye vipaśvī samyaksaṃbuddho 'bhūvam ity aviśiṣṭadharmakāyatvāt | arthāntarābhiprāyo yad āha | niḥsvabhāvāḥ sarvadharmā anutpannā ity evam ādi ayathārutārthatvāt kālāntarābhiprāyo yadāha | ye sukhāvatyāṃ prāṇidhānaṃ kariṣyanti te tatropapatsyanta iti kālāntareṇety abhiprāyaḥ | pudgalāśayābhiprāyo yat tad eva kuśalamūlaṃ kasyacit praśaṃsate kasyacid vigarhate 'lpamātrasaṃtuṣṭasya vaipulyasaṃgrahāt mahāyānasūtrāntasānuśaṃsaṃ gāthādvayam upādāyāha | buddhe dharme 'vajñā kauśīdyaṃ tuṣṭir alpamātreṇa | rāge māne caritaṃ kaukṛtaṃ cāniyatabhedaḥ
Sanskrit only: no published translation is held for this verse.
सत्वानाम् आवरणं तत्प्रतिपक्षो ऽग्रयान् असंभाषा । सर्वान्तरायदोषप्रहाणम् एषां ततो भवति
satvānām āvaraṇaṃ tatpratipakṣo 'grayān asaṃbhāṣā | sarvāntarāyadoṣaprahāṇam eṣāṃ tato bhavati
Sanskrit only: no published translation is held for this verse.
यो ग्रन्थतो ऽर्थतो वा गाथाद्वयधारणे प्रयुज्येत । स हि दशविधमनुशंसं लभते सत्वोत्तमो धीमान्
yo granthato 'rthato vā gāthādvayadhāraṇe prayujyeta | sa hi daśavidhamanuśaṃsaṃ labhate satvottamo dhīmān
Sanskrit only: no published translation is held for this verse.
कृत्स्नां च धातुपुष्टिं प्रामोद्यं चोत्तमं मरणकाले । जन्म च यथाभिकामं जातिस्मरतां च सर्वत्र
kṛtsnāṃ ca dhātupuṣṭiṃ prāmodyaṃ cottamaṃ maraṇakāle | janma ca yathābhikāmaṃ jātismaratāṃ ca sarvatra
Sanskrit only: no published translation is held for this verse.
बुद्धैश् च समवधानं तेभ्यः श्रवणं तथाग्रयान् अस्य । अधिमुक्तिं सह बुद्ध्या द्वयमुखताम् आशुबोधिं च
buddhaiś ca samavadhānaṃ tebhyaḥ śravaṇaṃ tathāgrayān asya | adhimuktiṃ saha buddhyā dvayamukhatām āśubodhiṃ ca
Sanskrit only: no published translation is held for this verse.
बुद्धे धर्मे ऽवज्ञेति पञ्च गाथाः । तत्रानियतभेदो बोधिसत्वानाम् अनियतानां महायानद्भेदः । अग्रयान् असंभाषा या महायानदेशना । बुद्धे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा । अहम् एव स तेन कालेन विपश्वी सम्यक्संबुद्धो ऽभूवम् इति । धर्मे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा । इयतो गंगानदीवालिकासमानबुद्धान् पर्युपास्य महायाने ऽवबोध उत्पद्यत इति । कौशीद्यावरणस्य प्रतिपक्षसंभाषा । ये सुखावत्यां प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति । विमलचन्द्रप्रभस्य च तथागतस्य नामधेयग्रहणमात्रेण नियतो भवत्य् उनत्तरायां सम्यक्संबोधाव् इति । अल्पमात्रसंतुष्ट्यावरस्य प्रतिपक्षसंभाषा । यत्र भगवान् क्वचिद् दानादि विवर्णयति अन्यत्र वर्णितवान् । रागचरितस्य चावरणस्य प्रतिपक्षसंभाषा । यत्र भगवान् बुद्धक्षेत्रविभूतिं वर्णयति । मानचरितस्यावरणस्य प्रतिपक्षसंभाषा । यत्र भगवान् कस्यचिद् बुद्धस्याधिकां संपत्तिं वर्णयति । कौकृत्यावरणस्य (म्स ८४) प्रतिपक्षसंभाषा । ये बुद्धबोधिसत्वेष्व् अकारं करिष्यन्ति ते सर्वे स्वर्गोपगा भविष्यन्तीति । अनियतभेदस्यावरणस्य प्रतिपक्षसंभाषा । महाश्रावकाणां बुद्धत्वे व्याकरणदेशना एकयानदेशना च । कृत्स्नधातुपुष्टिः सर्वमहायानाधिष्ठानाय धातुपुष्टिस् तदावरणविगमात् सर्वत्र महायाने ऽधिमुक्तिलाभतः । द्वयमुखता समाधिमुखता धारणीमुखता च । दृष्टे धर्मे द्विविधो ऽनुशंसः सांपरायिके ऽष्टविधः क्रमेणोत्तराउत्तरविशेषलाभाद् वेदितव्यः । देशनानुशंसे श्लोकः । इति सुगतिरखेदवान् कृपालुः प्रथितयशाः सुविधिज्ञताम् उपेतः । भवति सुकथिको हि बोधिसत्वस् तपति जने कथितैर् यथैव सूर्यः
buddhe dharme 'vajñeti pañca gāthāḥ | tatrāniyatabhedo bodhisatvānām aniyatānāṃ mahāyānadbhedaḥ | agrayān asaṃbhāṣā yā mahāyānadeśanā | buddhe 'vajñāvaraṇasya pratipakṣasaṃbhāṣā | aham eva sa tena kālena vipaśvī samyaksaṃbuddho 'bhūvam iti | dharme 'vajñāvaraṇasya pratipakṣasaṃbhāṣā | iyato gaṃgānadīvālikāsamānabuddhān paryupāsya mahāyāne 'vabodha utpadyata iti | kauśīdyāvaraṇasya pratipakṣasaṃbhāṣā | ye sukhāvatyāṃ praṇidhānaṃ kariṣyanti te tatropapatsyanta iti | vimalacandraprabhasya ca tathāgatasya nāmadheyagrahaṇamātreṇa niyato bhavaty unattarāyāṃ samyaksaṃbodhāv iti | alpamātrasaṃtuṣṭyāvarasya pratipakṣasaṃbhāṣā | yatra bhagavān kvacid dānādi vivarṇayati anyatra varṇitavān | rāgacaritasya cāvaraṇasya pratipakṣasaṃbhāṣā | yatra bhagavān buddhakṣetravibhūtiṃ varṇayati | mānacaritasyāvaraṇasya pratipakṣasaṃbhāṣā | yatra bhagavān kasyacid buddhasyādhikāṃ saṃpattiṃ varṇayati | kaukṛtyāvaraṇasya (Msa 84) pratipakṣasaṃbhāṣā | ye buddhabodhisatveṣv akāraṃ kariṣyanti te sarve svargopagā bhaviṣyantīti | aniyatabhedasyāvaraṇasya pratipakṣasaṃbhāṣā | mahāśrāvakāṇāṃ buddhatve vyākaraṇadeśanā ekayānadeśanā ca | kṛtsnadhātupuṣṭiḥ sarvamahāyānādhiṣṭhānāya dhātupuṣṭis tadāvaraṇavigamāt sarvatra mahāyāne 'dhimuktilābhataḥ | dvayamukhatā samādhimukhatā dhāraṇīmukhatā ca | dṛṣṭe dharme dvividho 'nuśaṃsaḥ sāṃparāyike 'ṣṭavidhaḥ krameṇottarāuttaraviśeṣalābhād veditavyaḥ | deśanānuśaṃse ślokaḥ | iti sugatirakhedavān kṛpāluḥ prathitayaśāḥ suvidhijñatām upetaḥ | bhavati sukathiko hi bodhisatvas tapati jane kathitair yathaiva sūryaḥ
Sanskrit only: no published translation is held for this verse.