याचनके हि जने दायकदर्शनात् ततश् च यथा-ईप्सितं लब्ध्वा मनोरथपरिपूरणाद्या तुष्टिर् उत्पद्यते । अतुष्टिश् चादर्शनाद् अपरिपूरणाच् च । आशास्तिश् च या तद्दर्शने मनोरथपरिपूरणे च । सा बोधिसत्वस्याधिकोत्पद्यते (म्स ११०) सर्वकालं याचनकदर्शनात् तन्मनोरथपरिपूरणाच् च । अदर्शनाद् अपरिपूरणाच् चातुष्टिः । अतो दाता कृपालुस् तां सर्वम् अभिभवत्य् आधिक्ययोगात् । प्राणान् भोगान् दारान् सत्वेषु सदान्यत्यजनकृपालुत्वात् । आमोदते निकामं तद्विरतिं पालयात्र कथम्
yācanake hi jane dāyakadarśanāt tataś ca yathā-īpsitaṃ labdhvā manorathaparipūraṇādyā tuṣṭir utpadyate | atuṣṭiś cādarśanād aparipūraṇāc ca | āśāstiś ca yā taddarśane manorathaparipūraṇe ca | sā bodhisatvasyādhikotpadyate (Msa 110) sarvakālaṃ yācanakadarśanāt tanmanorathaparipūraṇāc ca | adarśanād aparipūraṇāc cātuṣṭiḥ | ato dātā kṛpālus tāṃ sarvam abhibhavaty ādhikyayogāt | prāṇān bhogān dārān satveṣu sadānyatyajanakṛpālutvāt | āmodate nikāmaṃ tadviratiṃ pālayātra katham
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.