अत्र गोत्रस्य चतुर्विधेन निमित्तत्वेनाग्रत्वं दर्शयति । तद् धि गोत्रं कुशलमुलानाम् उदग्रत्वे निमित्तं सर्वत्वे महार्थत्वे अक्षयत्वे च । न हि श्रावकाणां तथोदग्राणि न च सर्वाणि सन्ति बलवैशारद्याद्यभावात् । न च महार्थान्यपरार्थत्वात् । न चाक्षयाण्य् अनुपधिशेषनिर्वाणावसानत्वात् । लक्षणविभागे श्लोकः । प्रकृत्या परिपुष्टं च आश्रयश् चाश्रितं च तत् । सदसच् चैव विज्ञेयं गुणोत्तारणतार्थतः
atra gotrasya caturvidhena nimittatvenāgratvaṃ darśayati | tad dhi gotraṃ kuśalamulānām udagratve nimittaṃ sarvatve mahārthatve akṣayatve ca | na hi śrāvakāṇāṃ tathodagrāṇi na ca sarvāṇi santi balavaiśāradyādyabhāvāt | na ca mahārthānyaparārthatvāt | na cākṣayāṇy anupadhiśeṣanirvāṇāvasānatvāt | lakṣaṇavibhāge ślokaḥ | prakṛtyā paripuṣṭaṃ ca āśrayaś cāśritaṃ ca tat | sadasac caiva vijñeyaṃ guṇottāraṇatārthataḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.