चतुर्थो ऽधिकारः चित्तोत्पादलक्षणे श्लोकः । महोत्साहा महारम्भा महार्थाथ महोदया । चेतना बोधिसत्वानां द्वयार्था चित्तसंभवः
caturtho 'dhikāraḥ cittotpādalakṣaṇe ślokaḥ | mahotsāhā mahārambhā mahārthātha mahodayā | cetanā bodhisatvānāṃ dvayārthā cittasaṃbhavaḥ
Sanskrit only: no published translation is held for this verse.
महोत्साहा संनाहवीर्येण गम्भीरदुष्करदीर्घकालप्रतिक्षेपोत्सहनात् । महारम्भा यथासंनाहप्रयोगवीर्येण । महार्था आत्मपरहिताधिकारात् । महोदयामहाबोधिसत्वसमुदागमत्वात् । (म्स १४) सो ऽयं त्रिविधो गुणाः परिदीपितः पुरुषकारगुणो द्वाभ्यां पदाभ्याम् अर्थक्रियागुणः फलपरिग्रहगुणश् च द्वाभ्यां । द्वयार्था महाबोधिसत्वार्थक्रियालम्बनत्वात् । इति त्रिगुणा द्वयालम्बना च चेतना चित्तोत्पाद इत्य् उच्यते । चित्तोत्पादभेदे श्लोकः । चित्तोत्पादो ऽधिमोक्षो ऽसौ शुद्धाध्याशयिको ऽपरः । वैपाक्यो भूमिषु मतस् तथावरणवर्जितः
mahotsāhā saṃnāhavīryeṇa gambhīraduṣkaradīrghakālapratikṣepotsahanāt | mahārambhā yathāsaṃnāhaprayogavīryeṇa | mahārthā ātmaparahitādhikārāt | mahodayāmahābodhisatvasamudāgamatvāt | (Msa 14) so 'yaṃ trividho guṇāḥ paridīpitaḥ puruṣakāraguṇo dvābhyāṃ padābhyām arthakriyāguṇaḥ phalaparigrahaguṇaś ca dvābhyāṃ | dvayārthā mahābodhisatvārthakriyālambanatvāt | iti triguṇā dvayālambanā ca cetanā cittotpāda ity ucyate | cittotpādabhede ślokaḥ | cittotpādo 'dhimokṣo 'sau śuddhādhyāśayiko 'paraḥ | vaipākyo bhūmiṣu matas tathāvaraṇavarjitaḥ
Sanskrit only: no published translation is held for this verse.
चतुर्विधो बोधिसत्वानां चित्तोत्पादः । आधिमोक्षिको ऽधिमुक्तिचर्याभूमौ । शुद्धाध्याशयिकः सप्तसु भूमिषु । वैपाकिको ऽष्टम्यादिषु । अनावरणको बुद्धभूमौ । चित्तोत्पादविनिश्चये चत्वारः श्लोकाः । करुणामूल इष्टो ऽसौ सदासत्वहिताशयः । धर्माधिमोक्षस् तज्ज्ञानपर्येष्ट्यालम्बनस् तथा
caturvidho bodhisatvānāṃ cittotpādaḥ | ādhimokṣiko 'dhimukticaryābhūmau | śuddhādhyāśayikaḥ saptasu bhūmiṣu | vaipākiko 'ṣṭamyādiṣu | anāvaraṇako buddhabhūmau | cittotpādaviniścaye catvāraḥ ślokāḥ | karuṇāmūla iṣṭo 'sau sadāsatvahitāśayaḥ | dharmādhimokṣas tajjñānaparyeṣṭyālambanas tathā
Sanskrit only: no published translation is held for this verse.
उत्तरच्छन्दयानो ऽसौ प्रतिष्ठाशीलसंवृतिः । उत्थापना विपक्षस्य परिपन्थो ऽधिवासना
uttaracchandayāno 'sau pratiṣṭhāśīlasaṃvṛtiḥ | utthāpanā vipakṣasya paripantho 'dhivāsanā
Sanskrit only: no published translation is held for this verse.
शुभवृद्ध्यनुशंसो ऽभौ पुण्यज्ञानमयः स हि । सदा पारमितायोगनिर्याणश् च स कथ्यते
śubhavṛddhyanuśaṃso 'bhau puṇyajñānamayaḥ sa hi | sadā pāramitāyoganiryāṇaś ca sa kathyate
Sanskrit only: no published translation is held for this verse.
भूमिपर्यवसानो ऽसौ प्रतिस्वं तत्प्रयोगतः । विज्ञेयो बोधिसत्वानां चित्तोत्पादविनिश्चयः
bhūmiparyavasāno 'sau pratisvaṃ tatprayogataḥ | vijñeyo bodhisatvānāṃ cittotpādaviniścayaḥ
Sanskrit only: no published translation is held for this verse.
तथायं विनिश्चयः । किंमूल एष चतुर्विधो बोधिसत्वानां चित्तोत्पादः किमाशयः किमधिमोक्षः किमालम्बनः किंयानः किंप्रतिष्ठः किमादीनवः किमनुशंसः किंनिर्याणः किंपर्यवसान इति । आह । करुणामूलः । सदासत्वहिताशयः । महायानधर्माधिमोक्षः । तज्ज्ञानपर्येष्ट्याकारेण तज्ज्ञानालम्बनात् । उत्तरोत्तरच्छन्दयानः। । बोधिसत्वशीलसंवरप्रतिष्ठः । परिपन्थ आदीनवः । कः पुनस् तत्परिपन्थो । विपक्षस्यान्ययानचित्तस्योत्थापना ऽधिवासना वा । पुण्यज्ञानमयकुशलधर्मवृद्ध्यनुशंसः । सदा पारमिताभ्यासनिर्याणः । भूमिपर्यवसानश् च प्रतिस्वं भूमिप्रयोगात् । यस्यां भूमौ यः प्रयुक्तस् तस्य तद्भूमिपर्यवसानः । समादानसांकेतिकचित्तौत्पादे श्लोकः । मित्रबलाद् हेतुबलान् मूलबलाच् छ्रुतबलाच् छुभाभ्यासात् । अदृढदृढोदय उक्तश् चित्तोत्पादः पराख्यानात्
tathāyaṃ viniścayaḥ | kiṃmūla eṣa caturvidho bodhisatvānāṃ cittotpādaḥ kimāśayaḥ kimadhimokṣaḥ kimālambanaḥ kiṃyānaḥ kiṃpratiṣṭhaḥ kimādīnavaḥ kimanuśaṃsaḥ kiṃniryāṇaḥ kiṃparyavasāna iti | āha | karuṇāmūlaḥ | sadāsatvahitāśayaḥ | mahāyānadharmādhimokṣaḥ | tajjñānaparyeṣṭyākāreṇa tajjñānālambanāt | uttarottaracchandayānaḥ| | bodhisatvaśīlasaṃvarapratiṣṭhaḥ | paripantha ādīnavaḥ | kaḥ punas tatparipantho | vipakṣasyānyayānacittasyotthāpanā 'dhivāsanā vā | puṇyajñānamayakuśaladharmavṛddhyanuśaṃsaḥ | sadā pāramitābhyāsaniryāṇaḥ | bhūmiparyavasānaś ca pratisvaṃ bhūmiprayogāt | yasyāṃ bhūmau yaḥ prayuktas tasya tadbhūmiparyavasānaḥ | samādānasāṃketikacittautpāde ślokaḥ | mitrabalād hetubalān mūlabalāc chrutabalāc chubhābhyāsāt | adṛḍhadṛḍhodaya uktaś cittotpādaḥ parākhyānāt
Sanskrit only: no published translation is held for this verse.
यो हि पराख्यानाच् चित्तोत्पादः परविज्ञापनात् स उच्यते समादानसांकेतिकः । स पुनर् मित्रबलाद् वा भवति कल्याणमित्रानुरोधात् । हेतुबलाद् वा गोत्रसामर्थ्यात् । कुल्शलमूलबलाद् वातीतपुष्टितः । छ्रुतबलाद् वा तत्र तत्र धर्मपर्याये भाष्यमाणे बहूनां बोधिचित्तोत्पादात् । शुभाभ्यासाद् वा दृष्ट इव धर्मे सततश्रवणोद्ग्रहणधारणादिभिः । स पुनर् मित्रबलाद् अदृढोदयो वेदितव्यः । हेत्वादिबलाद् दृढोदयः पारमार्थिकचित्तोत्पादे सप्त श्लोकाः । सूपासितसंबुद्धे सुसंभृतज्ञानपुण्यसंभारे । धर्मेषु निर्विकल्पज्ञानप्रसवात् परमतास्य
yo hi parākhyānāc cittotpādaḥ paravijñāpanāt sa ucyate samādānasāṃketikaḥ | sa punar mitrabalād vā bhavati kalyāṇamitrānurodhāt | hetubalād vā gotrasāmarthyāt | kulśalamūlabalād vātītapuṣṭitaḥ | chrutabalād vā tatra tatra dharmaparyāye bhāṣyamāṇe bahūnāṃ bodhicittotpādāt | śubhābhyāsād vā dṛṣṭa iva dharme satataśravaṇodgrahaṇadhāraṇādibhiḥ | sa punar mitrabalād adṛḍhodayo veditavyaḥ | hetvādibalād dṛḍhodayaḥ pāramārthikacittotpāde sapta ślokāḥ | sūpāsitasaṃbuddhe susaṃbhṛtajñānapuṇyasaṃbhāre | dharmeṣu nirvikalpajñānaprasavāt paramatāsya
Sanskrit only: no published translation is held for this verse.
धर्मेषु च सत्वेषु च तत्कृत्येषूत्तमे च बुद्धत्वे । समचित्तोपात्तोपलम्भात् प्रामोद्यविशिष्टता तस्य
dharmeṣu ca satveṣu ca tatkṛtyeṣūttame ca buddhatve | samacittopāttopalambhāt prāmodyaviśiṣṭatā tasya
Sanskrit only: no published translation is held for this verse.
जन्माउदार्यं तस्मिन्न् उत्साहः शुद्धिर् आशयस्यापि । कौशल्यं परिशिष्टे निर्याणं चैव विज्ञेयम्
janmāudāryaṃ tasminn utsāhaḥ śuddhir āśayasyāpi | kauśalyaṃ pariśiṣṭe niryāṇaṃ caiva vijñeyam
Sanskrit only: no published translation is held for this verse.
धर्माधिमुक्तिबीजात् पारमिताश्रेष्ठमातृतो जातः । ध्यानमये सुखगर्भे करुणा संवर्धिका धात्री
dharmādhimuktibījāt pāramitāśreṣṭhamātṛto jātaḥ | dhyānamaye sukhagarbhe karuṇā saṃvardhikā dhātrī
Sanskrit only: no published translation is held for this verse.
औदार्यं विज्ञेयं प्रणिधानमहादशाभिनिर्हारात् । उत्साहो बोद्धव्यो दुष्करदीर्घाधिकाखेदात्
audāryaṃ vijñeyaṃ praṇidhānamahādaśābhinirhārāt | utsāho boddhavyo duṣkaradīrghādhikākhedāt
Sanskrit only: no published translation is held for this verse.
आसन्नबोधिबोधात् तदुपायज्ञानलाभतश् चापि । आशयशुद्धिर् ज्ञेया कौशल्यं त्व् अन्यभूमिगतम्
āsannabodhibodhāt tadupāyajñānalābhataś cāpi | āśayaśuddhir jñeyā kauśalyaṃ tv anyabhūmigatam
Sanskrit only: no published translation is held for this verse.
निर्याणं विज्ञेयं यथाव्यवस्थानमनसिकारेण । तत्कल्पनताज्ञानाद् अविकल्पनया च तस्यैव
niryāṇaṃ vijñeyaṃ yathāvyavasthānamanasikāreṇa | tatkalpanatājñānād avikalpanayā ca tasyaiva
Sanskrit only: no published translation is held for this verse.
प्रथमेन श्लोकेनोपदेशप्रतिपत्त्यधिगमविशेषैः पारमार्थिकत्वं चित्तोत्पादस्य दर्शयति । स च पारमार्थिकश् चित्तोत्पादः प्रमुदितायां भूमाव् इति । प्रामोद्यविशिष्टायास् तत्र कारणं दर्शयति । तत्र धर्मेषु समचित्तता धर्मनैरात्म्यप्रतिबोधात् । सत्वेषु समचित्तता आत्मपरमतोपगमात् । सत्वकृत्येषु समचित्तता आत्मन इव तेषां दुःखक्षयाकाङ्क्षणात् । बुद्धत्वे समचित्तता तद्धर्मधातोर् आत्मन्य् अभेदप्रतिबोधात् । तस्मिन्न् एव च पारमार्थिकचोत्तोत्पादे षडर्था वेदितव्याः । जन्म औदार्यम् उत्साह आशयशुद्धिः परिशिष्टकौशल्यं निर्याणं च । तत्र जन्म मातृगर्भधात्रीविशेषाद् वेदितव्यं । औदार्यं दशमहाप्रणिधानाभिनिर्हारात् । उत्साहो दीर्घकालिकदुष्कराखेदात् । आशयशुद्धिर् आसन्नबोधिज्ञानात् तदुपायज्ञानलाभाच् च । (म्स १६) परिशिष्टकौशल्यन् अन्यसु भूमिषु कौशल्यं । निर्याणं यथाव्यवस्थानभूमिमनसिकारेण । कथं मनसिकारेण तस्य भूमिव्यवस्थानस्य कल्पनाज्ञानात् कल्पनामात्रम् एतद् इति । तस्यैव च कल्पनाज्ञानस्याविकल्पनात् । औपम्यमाहात्म्ये षड् श्लोकाः । पृथिवीसम उत्पादः कल्याणसुवर्णसंनिभश् चान्यः । शुक्लनवचन्द्रसदृशो वह्निप्रख्यो ऽपरोच्छ्रायः ज्ञेयः
prathamena ślokenopadeśapratipattyadhigamaviśeṣaiḥ pāramārthikatvaṃ cittotpādasya darśayati | sa ca pāramārthikaś cittotpādaḥ pramuditāyāṃ bhūmāv iti | prāmodyaviśiṣṭāyās tatra kāraṇaṃ darśayati | tatra dharmeṣu samacittatā dharmanairātmyapratibodhāt | satveṣu samacittatā ātmaparamatopagamāt | satvakṛtyeṣu samacittatā ātmana iva teṣāṃ duḥkhakṣayākāṅkṣaṇāt | buddhatve samacittatā taddharmadhātor ātmany abhedapratibodhāt | tasminn eva ca pāramārthikacottotpāde ṣaḍarthā veditavyāḥ | janma audāryam utsāha āśayaśuddhiḥ pariśiṣṭakauśalyaṃ niryāṇaṃ ca | tatra janma mātṛgarbhadhātrīviśeṣād veditavyaṃ | audāryaṃ daśamahāpraṇidhānābhinirhārāt | utsāho dīrghakālikaduṣkarākhedāt | āśayaśuddhir āsannabodhijñānāt tadupāyajñānalābhāc ca | (Msa 16) pariśiṣṭakauśalyan anyasu bhūmiṣu kauśalyaṃ | niryāṇaṃ yathāvyavasthānabhūmimanasikāreṇa | kathaṃ manasikāreṇa tasya bhūmivyavasthānasya kalpanājñānāt kalpanāmātram etad iti | tasyaiva ca kalpanājñānasyāvikalpanāt | aupamyamāhātmye ṣaḍ ślokāḥ | pṛthivīsama utpādaḥ kalyāṇasuvarṇasaṃnibhaś cānyaḥ | śuklanavacandrasadṛśo vahniprakhyo 'parocchrāyaḥ jñeyaḥ
Sanskrit only: no published translation is held for this verse.
भूयो महानिधानवदन्यो रत्नाकरो यथैवान्यः । सागरसदृशो ज्ञेयो वज्रप्रख्यो ऽचलेन्द्रनिभः
bhūyo mahānidhānavadanyo ratnākaro yathaivānyaḥ | sāgarasadṛśo jñeyo vajraprakhyo 'calendranibhaḥ
Sanskrit only: no published translation is held for this verse.
भैषज्यराजसदृशो महासुहृत्संनिभो ऽपरो ज्ञेयः । चिन्तामणिप्रकाशो दिनकरसदृशो ऽपरो ज्ञेयः
bhaiṣajyarājasadṛśo mahāsuhṛtsaṃnibho 'paro jñeyaḥ | cintāmaṇiprakāśo dinakarasadṛśo 'paro jñeyaḥ
Sanskrit only: no published translation is held for this verse.
गन्धर्वमधुरघोषवदन्यो राजोपमो ऽपरो ज्ञेयः । कोष्ठागारप्रख्यो महापथसमस् यथैवान्यः
gandharvamadhuraghoṣavadanyo rājopamo 'paro jñeyaḥ | koṣṭhāgāraprakhyo mahāpathasamas yathaivānyaḥ
Sanskrit only: no published translation is held for this verse.
यानसमो विज्ञेयो गन्धर्वसमश् च वेतसगचेतसःप्रभवः । आनन्दशब्दसदृशो महानदीश्रोतसदृशश् च
yānasamo vijñeyo gandharvasamaś ca vetasagacetasaḥprabhavaḥ | ānandaśabdasadṛśo mahānadīśrotasadṛśaś ca
Sanskrit only: no published translation is held for this verse.
मेघसदृशश् च कथितश् चित्तोत्पादो जिनात्मजानां हि । तस्मात् तथा गुणाढ्यं चित्तं मुदितैः समुत्पाद्यम्
meghasadṛśaś ca kathitaś cittotpādo jinātmajānāṃ hi | tasmāt tathā guṇāḍhyaṃ cittaṃ muditaiḥ samutpādyam
Sanskrit only: no published translation is held for this verse.
प्रथमचित्तोत्पादो बोधिसत्वाणां पृथिवीसमः सर्वबुद्धधर्मतत्संभारप्रसवस्य प्रतिष्ठाभूतत्वात् । आशयसहगतश् च चित्तोत्पादः कल्याणसुवर्णसदृशो हितसुखाध्याशयस्य विकाराभजनात् । प्रयोगसहगतः शुक्लपक्षनवचन्द्रोपमः कुशलधर्मवृद्धिगमनात् । अध्याशयसहगतो वह्निसदृश इन्धनाकरविशेषेणेवाग्निस् तस्योत्तरोत्तरविशेषाधिगमनात् । विशेषाधिगमाशयो ह्य् अध्याशयः । दानपारमितासहगतो महानिधानोपम आमिषसंभोगेनाप्रमेयसत्वसंतर्पणाद् अक्षयत्वाच् च । शीलपरमितासहगतो रत्नाकरोपमः सर्वगुणरत्नानां ततः प्रसवात् । क्षान्तिपारमितासहगतः सागरोपमः सरवानिष्टोपरिपातैर् अक्षोभ्यत्वात् । वीर्यपारमितासहगतो वज्रोपमो दृढत्वाद् अभेद्यतया । ध्यानपारमितासहगतः पर्वतराजोपमो निष्कम्पत्वाद् अविक्षेपतः । प्रज्ञापारमितासहगतो भैषज्यराजोपमः सर्वक्लेशज्ञेयावरणव्याधिप्रशमनात् । अप्रमाणसहगतो महासुहृत्संनिभः सर्वावस्थं सत्वानुपेक्षकत्वात् । अभिज्ञासहगतश् चिन्तामणिसदृशो यथाधिमोक्षं तत्फलसमृद्धेः । संग्रहवस्तुसहगतो दिनकरसदृशो विनेयसस्यपरिपाचनात् । प्रतिसंवित्सहगतो गन्धर्वमधुरघोषोपमो विनेयावर्जकधर्मदेशकत्वात् । प्रतिशरणसहगतो महाराजोपमो ऽविप्रणाशहेतुत्वात् । पुण्यज्ञानसंभारसहगतः कोष्ठागारोपमो बहुपुण्यज्ञानसंभारकोषस्थानत्वात् । बोधिपक्षसहगतो महाराजपथोपमः सर्वार्यपुद्गलयातानुयातत्वात् । (म्स १७) शमथविपश्यनासहगतो यानोपमः सुखवहनात् । धारणाप्रतिभानसहगतो गन्धर्वौपमः उदकधारणाक्षयोद्भेदसाधर्म्येण श्रुतश्रुतधर्मार्थधारणोद्भेदतः । धर्मोद्दानसहगत आनन्दशब्दसदृशो मोक्षकामानां विनेयानां प्रियश्रवणात् । एकायनमार्गसहगतो नदीश्रोतसमः स्वरसवाहित्वात् । अनुत्पत्तिकधर्मक्षान्तिलाभे एकायनत्वं तद्भूमिगतानां बोधिसत्वानाम् अभिन्नकार्यक्रियात्वात् । उपायकौशल्यसहगतो मेघोपमः सर्वसत्वार्थक्रियातदधीनत्वात् तुषितभवनवासादिसंदर्शनतः । यथा मेघात् सर्वभाजनलोकसंपत्तयः । एष च द्वाविंशत्युपमश् चित्तोत्पाद आर्याक्षयमतिसूत्रे ऽक्षगतानुसारेणानुगन्तव्यः । चित्तानुत्पादपरिभाषायां श्लोकः । परार्थचित्तात् तदुपायलाभतो महाभिसंध्यर्थसुतत्वदर्शनात् । महार्हचित्तोदयवर्जिता जनाः शमं गमिष्यन्ति विहाय तत् सुखम्
prathamacittotpādo bodhisatvāṇāṃ pṛthivīsamaḥ sarvabuddhadharmatatsaṃbhāraprasavasya pratiṣṭhābhūtatvāt | āśayasahagataś ca cittotpādaḥ kalyāṇasuvarṇasadṛśo hitasukhādhyāśayasya vikārābhajanāt | prayogasahagataḥ śuklapakṣanavacandropamaḥ kuśaladharmavṛddhigamanāt | adhyāśayasahagato vahnisadṛśa indhanākaraviśeṣeṇevāgnis tasyottarottaraviśeṣādhigamanāt | viśeṣādhigamāśayo hy adhyāśayaḥ | dānapāramitāsahagato mahānidhānopama āmiṣasaṃbhogenāprameyasatvasaṃtarpaṇād akṣayatvāc ca | śīlaparamitāsahagato ratnākaropamaḥ sarvaguṇaratnānāṃ tataḥ prasavāt | kṣāntipāramitāsahagataḥ sāgaropamaḥ saravāniṣṭoparipātair akṣobhyatvāt | vīryapāramitāsahagato vajropamo dṛḍhatvād abhedyatayā | dhyānapāramitāsahagataḥ parvatarājopamo niṣkampatvād avikṣepataḥ | prajñāpāramitāsahagato bhaiṣajyarājopamaḥ sarvakleśajñeyāvaraṇavyādhipraśamanāt | apramāṇasahagato mahāsuhṛtsaṃnibhaḥ sarvāvasthaṃ satvānupekṣakatvāt | abhijñāsahagataś cintāmaṇisadṛśo yathādhimokṣaṃ tatphalasamṛddheḥ | saṃgrahavastusahagato dinakarasadṛśo vineyasasyaparipācanāt | pratisaṃvitsahagato gandharvamadhuraghoṣopamo vineyāvarjakadharmadeśakatvāt | pratiśaraṇasahagato mahārājopamo 'vipraṇāśahetutvāt | puṇyajñānasaṃbhārasahagataḥ koṣṭhāgāropamo bahupuṇyajñānasaṃbhārakoṣasthānatvāt | bodhipakṣasahagato mahārājapathopamaḥ sarvāryapudgalayātānuyātatvāt | (Msa 17) śamathavipaśyanāsahagato yānopamaḥ sukhavahanāt | dhāraṇāpratibhānasahagato gandharvaupamaḥ udakadhāraṇākṣayodbhedasādharmyeṇa śrutaśrutadharmārthadhāraṇodbhedataḥ | dharmoddānasahagata ānandaśabdasadṛśo mokṣakāmānāṃ vineyānāṃ priyaśravaṇāt | ekāyanamārgasahagato nadīśrotasamaḥ svarasavāhitvāt | anutpattikadharmakṣāntilābhe ekāyanatvaṃ tadbhūmigatānāṃ bodhisatvānām abhinnakāryakriyātvāt | upāyakauśalyasahagato meghopamaḥ sarvasatvārthakriyātadadhīnatvāt tuṣitabhavanavāsādisaṃdarśanataḥ | yathā meghāt sarvabhājanalokasaṃpattayaḥ | eṣa ca dvāviṃśatyupamaś cittotpāda āryākṣayamatisūtre 'kṣagatānusāreṇānugantavyaḥ | cittānutpādaparibhāṣāyāṃ ślokaḥ | parārthacittāt tadupāyalābhato mahābhisaṃdhyarthasutatvadarśanāt | mahārhacittodayavarjitā janāḥ śamaṃ gamiṣyanti vihāya tat sukham
Sanskrit only: no published translation is held for this verse.
तेन चित्तोत्पादेन वर्जिताः सत्वाश् चतुर्विधं सुखं न लभन्ते यद् बोधिसत्वानां परार्थचिन्तनात् सुखं । यच् च परार्थोपायलाभात् । यच् च महाभिसंध्यर्थसंदर्शनात् गम्भीरमहायानस्वताभिप्रायिकार्थविबोधतः । यच् च परमत्वस्य धर्मनैरात्म्यस्य संदर्शनात् सुखं । चित्तोत्पादप्रशंसायां दुर्गतिपरिखेदनिर्भयताम् उपादाय श्लोकः । सहोदयाच् चित्तवरस्य धीमतः सुसंवृतं चित्तम् अनन्तदुष्कृतात् । सुखेन दुःखेन च मोदते सदा शुभी कृपालुश् च विवर्धनद्वयम्
tena cittotpādena varjitāḥ satvāś caturvidhaṃ sukhaṃ na labhante yad bodhisatvānāṃ parārthacintanāt sukhaṃ | yac ca parārthopāyalābhāt | yac ca mahābhisaṃdhyarthasaṃdarśanāt gambhīramahāyānasvatābhiprāyikārthavibodhataḥ | yac ca paramatvasya dharmanairātmyasya saṃdarśanāt sukhaṃ | cittotpādapraśaṃsāyāṃ durgatiparikhedanirbhayatām upādāya ślokaḥ | sahodayāc cittavarasya dhīmataḥ susaṃvṛtaṃ cittam anantaduṣkṛtāt | sukhena duḥkhena ca modate sadā śubhī kṛpāluś ca vivardhanadvayam
Sanskrit only: no published translation is held for this verse.
तस्य चित्तवरस्य सहोदयात् बोधिसत्वस्य सुसंवृतं चित्तं भवत्य् अनन्तसत्वाधिष्ठानाद् (म्स १८) दुष्कृताद् अतो ऽस्य दुर्गतितो भयं न भवति । स च द्वयं वर्धयन् शुभं च कर्म कृपा च नित्यं च शुभी भवति कृपालुश् च तेन च सदा मोदते । सुखेनापि शुभित्वात् । दुःखेनापि परार्थक्रियानिमित्तेन कृपालुत्वात् । अतो ऽस्य बहुकर्तव्यतापरिखेदादपि भयं न भवति । अकरणसंवरलाभे श्लोकः । यद् आनपेक्षः स्वशरीरजीविते परार्थम् अभ्येति परं परिश्रमम् । परोघातेन तथाविधः कथं स दुष्कृते कर्मणि संप्रवत्स्यति
tasya cittavarasya sahodayāt bodhisatvasya susaṃvṛtaṃ cittaṃ bhavaty anantasatvādhiṣṭhānād (Msa 18) duṣkṛtād ato 'sya durgatito bhayaṃ na bhavati | sa ca dvayaṃ vardhayan śubhaṃ ca karma kṛpā ca nityaṃ ca śubhī bhavati kṛpāluś ca tena ca sadā modate | sukhenāpi śubhitvāt | duḥkhenāpi parārthakriyānimittena kṛpālutvāt | ato 'sya bahukartavyatāparikhedādapi bhayaṃ na bhavati | akaraṇasaṃvaralābhe ślokaḥ | yad ānapekṣaḥ svaśarīrajīvite parārtham abhyeti paraṃ pariśramam | paroghātena tathāvidhaḥ kathaṃ sa duṣkṛte karmaṇi saṃpravatsyati
Sanskrit only: no published translation is held for this verse.
अस्य पिण्डार्थो यस्य पर एव प्रियतरो नात्मा परार्थं स्वशरीरजीविते आनपेक्षत्वात् अभ्येति परं परिश्रमम् । स कथम् आत्मार्थं परोघातेन दुष्कृते कर्मणि प्रवत्स्यतीति । चित्ताव्यावृत्तौ श्लोकौ । मायोपमान् वीक्ष्य स सर्वधर्मान् उद्यानयात्राम् इव चोपपत्तीः । क्लेशाच् च दुःखाच् च बिभेति नासौ संपत्तिकाले ऽथ विपत्तिकाले
asya piṇḍārtho yasya para eva priyataro nātmā parārthaṃ svaśarīrajīvite ānapekṣatvāt abhyeti paraṃ pariśramam | sa katham ātmārthaṃ paroghātena duṣkṛte karmaṇi pravatsyatīti | cittāvyāvṛttau ślokau | māyopamān vīkṣya sa sarvadharmān udyānayātrām iva copapattīḥ | kleśāc ca duḥkhāc ca bibheti nāsau saṃpattikāle 'tha vipattikāle
Sanskrit only: no published translation is held for this verse.
स्वका गुणाः सत्वहिताच् च मोदः संचिन्त्यजन्म र्द्धिविकुर्वितं च । विभूषणं भोजनम् अग्रभूमिः क्रीडारतिर् नित्यकृपात्मकानाम्
svakā guṇāḥ satvahitāc ca modaḥ saṃcintyajanma rddhivikurvitaṃ ca | vibhūṣaṇaṃ bhojanam agrabhūmiḥ krīḍāratir nityakṛpātmakānām
Sanskrit only: no published translation is held for this verse.
मायोपमसर्वधर्मलक्षणात् स बोधिसत्वः संपत्तिकाले क्लेशेभ्यो न बिभेति । उद्यानयात्रोपमोपपत्तीलक्षणात् विपत्तिकाले दुःकान् न बिभेति । तस्य कुतो भयाद् बोधिचित्तं व्यावर्तिष्यते । अपि च स्वगुणा मण्डनं बोधिसत्वानां । परहितात् प्रीतिर् भोजनं । संचिन्त्योपपत्तिर् उद्यानभूमिः । ऋद्धिविकुर्वितं क्रीडारतिर् बोधिसत्वानाम् एवास्ति । नाबोधिसत्वानां । परार्थम् उद्योगवतः कृपात्मनो ह्य् अवीचिर् अप्य् एति यतो ऽस्य रम्यताम् । कुतः पुनस् त्रस्यति तादृशो भवन् पराश्रयैर् दुःखसमुद्भवैर् भवे
māyopamasarvadharmalakṣaṇāt sa bodhisatvaḥ saṃpattikāle kleśebhyo na bibheti | udyānayātropamopapattīlakṣaṇāt vipattikāle duḥkān na bibheti | tasya kuto bhayād bodhicittaṃ vyāvartiṣyate | api ca svaguṇā maṇḍanaṃ bodhisatvānāṃ | parahitāt prītir bhojanaṃ | saṃcintyopapattir udyānabhūmiḥ | ṛddhivikurvitaṃ krīḍāratir bodhisatvānām evāsti | nābodhisatvānāṃ | parārtham udyogavataḥ kṛpātmano hy avīcir apy eti yato 'sya ramyatām | kutaḥ punas trasyati tādṛśo bhavan parāśrayair duḥkhasamudbhavair bhave
Sanskrit only: no published translation is held for this verse.
अपि च यस्य परार्थम् उद्योगवतः करुणात्मत्वाद् अवीचिर् अप्य् रम्यः स कथं परार्थनिमित्तैर् दुःखोत्पादैर् भवे पुनस् त्रासम् आपत्स्यते यतो ऽस्य दुःखत्रासः स्याच् चित्तस्य व्यावृत्तिर् भवति । सत्वोपेक्षाप्रतिषेधे श्लोकः । महाकृपाचार्यसदोषितात्मनः परस्य दुःखैर् उपतप्तचेतसः । परस्य कृत्ये समुपस्थिते पुनः परैः समादापनतो ऽतिलज्जना
api ca yasya parārtham udyogavataḥ karuṇātmatvād avīcir apy ramyaḥ sa kathaṃ parārthanimittair duḥkhotpādair bhave punas trāsam āpatsyate yato 'sya duḥkhatrāsaḥ syāc cittasya vyāvṛttir bhavati | satvopekṣāpratiṣedhe ślokaḥ | mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhair upataptacetasaḥ | parasya kṛtye samupasthite punaḥ paraiḥ samādāpanato 'tilajjanā
Sanskrit only: no published translation is held for this verse.
यस्य महाकरुणाचार्येण नित्योषितो आत्मा परदुःखैश् च दुःखितं चेतस् तस्योत्पन्ने परार्थं करणीये यदि परैः समादापना कर्तव्या भवति अतिलज्जना । कौसीद्यपरिभाषायां श्लोकः । शिरसि विनिहितोच्चसत्वभारः शिथिलगतिर् न हि शोभते ऽग्रसत्वः । स्वपरविविधबन्धनातिबद्धः शतगुणम् उत्सहम् अर्हति प्रकर्तुम्
yasya mahākaruṇācāryeṇa nityoṣito ātmā paraduḥkhaiś ca duḥkhitaṃ cetas tasyotpanne parārthaṃ karaṇīye yadi paraiḥ samādāpanā kartavyā bhavati atilajjanā | kausīdyaparibhāṣāyāṃ ślokaḥ | śirasi vinihitoccasatvabhāraḥ śithilagatir na hi śobhate 'grasatvaḥ | svaparavividhabandhanātibaddhaḥ śataguṇam utsaham arhati prakartum
Sanskrit only: no published translation is held for this verse.
A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.