* सूर्यान्तः शशिवीचिदन्तवदनप्रान्तप्लवौघोरगी संप्राप्ते पवनातिसङ्गहरणे क्षिप्रं ततो धाविता ॥ १०।३ * श्रीमन्मध्यपथान्ततो विदधती कम्पादि कोपान्विता तस्यैवाश्रययायिनो ऽपि शशिनो दत्ता सुधा संमता ॥ १०।४ * आदौ शोषणिको ऽत्र सारणम् अतः कार्यं महासारणं कर्तव्यं प्रतिसारणं च गुरुणा निर्दिष्टमार्गं क्रमात् ॥ १०।५ * पश्चाद् एव च शङ्खसारणविधौ कार्यं महासारणं सम्मूर्छा वितताकृतिः प्रतिदिनं वेलात्रयं दीयताम् ॥ १०।६ * आकुञ्च्यागजकामरूपम् अचलं बन्धत्वजातं तनौ नात्यूर्ध्वे चतुरङ्गुलाग्रविदिते स्थाने हृदा प्राणिते ॥ १०।७ * दन्तैर् बन्धुरिते च वातयुगले प्रश्लेषणाश्लेषणात् नाभिग्रन्थिविमोक्षपातसहजे मार्गे मनःसिद्धयः ॥ १०।८ * दूराकारविसर्पिते च पवने नाभेश् च मार्गस्थिते बन्धेषु त्रिषु सत्सु सो ऽपि शिथिले मध्यप्रबोधे सति ॥ १०।९ * क्षिप्रं च ध्रियते द्विपीठमरुतो ऽप्य् ऊर्ध्वक्रमाकर्षणे संयुक्तो गतिचित्तशोषणम् अतः प्राप्ये ऽनिले तिष्ठति ॥ १०।१० * मूले मूलोर्ध्वचक्रे वृषणकुलतले वह्निमातङ्गकूले कम्पक्षोभभ्रमाढ्ये ध्वनितपरिचयं घर्मपातोर्ध्वरोम ॥ १०।११ * भूमित्यागं कवित्वं परपुरविशनं वश्यम् आकर्षणं च ह्य् एवं वा चेतनाप्ता प्रभवति निखिला खेचरत्वप्रतिष्ठा ॥ १०।१२ * द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च तत् ॥ १०।१३ * हृदये परमे धाम्नि मध्ये तु रविचन्द्रमाः ॥ १०।१४ * नादं तु तं गृहीत्वा च चैतन्यं तत्र योजयेत् ॥ १०।१५ * द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च तत् ॥ १०।१६ * शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १०।१७ * अन्यत् सर्वं परित्यज्य शब्दब्रह्म सदाभ्यसेत् ॥ १०।१८ * स्वसंवेद्यम् असंवेद्यं शब्दब्रह्म द्विधा स्थितम् ॥ १०।१९ * चिनोति प्रथमः शब्दश् चिञ्चिनोति द्वितीयकः ॥ १०।२० * विवरश् च तृतीयः स्याच् छङ्खशब्दश् चतुर्थकः ॥ १०।२१ * पञ्चमो मेघनिर्घोषः षष्ठम् एतद् उदीरणम् ॥ १०।२२ * सप्तमं कांस्यतालाख्यं मेघशब्दस् तथाष्टमम् ॥ १०।२३ * नवमो ऽप्य् अग्निदाहश् च दशमो दुन्दुभिस्वनः ॥ १०।२४ * अनाहतनिनादो ऽयं पवनान्तविनिर्गतः ॥ १०।२५ * ध्वनितेन विना यस् तु नादश् चैवम् अपण्डितः ॥ १०।२६ * चिनोति रसम् उद्धृत्य चिञ्चिनोति भगाश्रितम् ॥ १०।२७ * विरसांशेन संप्राप्तं मेघशब्देन चाविशेत् ॥ १०।२८ * मज्जां पतति निर्घोषः संस्थितोदधिभीषणः ॥ १०।२९ * कांस्यताले नभःशब्दः प्राणमेघध्वनिः क्रमात् ॥ १०।३० * जीवश् चैवाग्निदाहः स्यान् मोक्षः समरसो भवेत् ॥ १०।३१ * विशुद्धम् इत्थम् आत्मानं पश्येत चात्मनात्मनि ॥ १०।३२ * प्रथमे जनवात्सल्यं द्वितीये रोगनाशनम् ॥ १०।३३ * तृतीयेन कवित्वं च दूराकर्षं चतुर्थके ॥ १०।३४ * पञ्चमे वाचि कामित्वं षष्ठे भूमिं परित्यजेत् ॥ १०।३५ * सप्तमे दूरम् आलोक्य चाष्टमे वज्रवद् भवेत् ॥ १०।३६ * नवमे स्फुरते कायो दशमे सामरस्यकम् ॥ १०।३७ * पृथ्वीमध्ये भवेत् पृथ्वी चापाम् आपस् तथैव च ॥ १०।३८ * तेजोमध्ये भवेत् तेजो वायुर् वायौ प्रलीयते ॥ १०।३९ * आकाशो लीयते सर्वः सतत्त्वः पिण्डसंग्रहः ॥ १०।४० * अनाहतो दिवारात्रौ ध्वनते तु धनंजयः ॥ १०।४१ * तत्रारूढो यदा योगी प्राप्नुयात् परमं पदम् ॥ १०।४२] अयं प्रकृतिभेदः पृथ्वी आपः तेजः वायुः आकाशश् च इति शरीरे पञ्चगुणाः महाभूतानि भवन्ति तत्रैव तानि पञ्चविधानि भवन्ति
* sūryāntaḥ śaśivīcidantavadanaprāntaplavaughoragī saṃprāpte pavanātisaṅgaharaṇe kṣipraṃ tato dhāvitā || 10.3 * śrīmanmadhyapathāntato vidadhatī kampādi kopānvitā tasyaivāśrayayāyino 'pi śaśino dattā sudhā saṃmatā || 10.4 * ādau śoṣaṇiko 'tra sāraṇam ataḥ kāryaṃ mahāsāraṇaṃ kartavyaṃ pratisāraṇaṃ ca guruṇā nirdiṣṭamārgaṃ kramāt || 10.5 * paścād eva ca śaṅkhasāraṇavidhau kāryaṃ mahāsāraṇaṃ sammūrchā vitatākṛtiḥ pratidinaṃ velātrayaṃ dīyatām || 10.6 * ākuñcyāgajakāmarūpam acalaṃ bandhatvajātaṃ tanau nātyūrdhve caturaṅgulāgravidite sthāne hṛdā prāṇite || 10.7 * dantair bandhurite ca vātayugale praśleṣaṇāśleṣaṇāt nābhigranthivimokṣapātasahaje mārge manaḥsiddhayaḥ || 10.8 * dūrākāravisarpite ca pavane nābheś ca mārgasthite bandheṣu triṣu satsu so 'pi śithile madhyaprabodhe sati || 10.9 * kṣipraṃ ca dhriyate dvipīṭhamaruto 'py ūrdhvakramākarṣaṇe saṃyukto gaticittaśoṣaṇam ataḥ prāpye 'nile tiṣṭhati || 10.10 * mūle mūlordhvacakre vṛṣaṇakulatale vahnimātaṅgakūle kampakṣobhabhramāḍhye dhvanitaparicayaṃ gharmapātordhvaroma || 10.11 * bhūmityāgaṃ kavitvaṃ parapuraviśanaṃ vaśyam ākarṣaṇaṃ ca hy evaṃ vā cetanāptā prabhavati nikhilā khecaratvapratiṣṭhā || 10.12 * dve brahmaṇī veditavye śabdabrahma paraṃ ca tat || 10.13 * hṛdaye parame dhāmni madhye tu ravicandramāḥ || 10.14 * nādaṃ tu taṃ gṛhītvā ca caitanyaṃ tatra yojayet || 10.15 * dve brahmaṇī veditavye śabdabrahma paraṃ ca tat || 10.16 * śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati || 10.17 * anyat sarvaṃ parityajya śabdabrahma sadābhyaset || 10.18 * svasaṃvedyam asaṃvedyaṃ śabdabrahma dvidhā sthitam || 10.19 * cinoti prathamaḥ śabdaś ciñcinoti dvitīyakaḥ || 10.20 * vivaraś ca tṛtīyaḥ syāc chaṅkhaśabdaś caturthakaḥ || 10.21 * pañcamo meghanirghoṣaḥ ṣaṣṭham etad udīraṇam || 10.22 * saptamaṃ kāṃsyatālākhyaṃ meghaśabdas tathāṣṭamam || 10.23 * navamo 'py agnidāhaś ca daśamo dundubhisvanaḥ || 10.24 * anāhataninādo 'yaṃ pavanāntavinirgataḥ || 10.25 * dhvanitena vinā yas tu nādaś caivam apaṇḍitaḥ || 10.26 * cinoti rasam uddhṛtya ciñcinoti bhagāśritam || 10.27 * virasāṃśena saṃprāptaṃ meghaśabdena cāviśet || 10.28 * majjāṃ patati nirghoṣaḥ saṃsthitodadhibhīṣaṇaḥ || 10.29 * kāṃsyatāle nabhaḥśabdaḥ prāṇameghadhvaniḥ kramāt || 10.30 * jīvaś caivāgnidāhaḥ syān mokṣaḥ samaraso bhavet || 10.31 * viśuddham ittham ātmānaṃ paśyeta cātmanātmani || 10.32 * prathame janavātsalyaṃ dvitīye roganāśanam || 10.33 * tṛtīyena kavitvaṃ ca dūrākarṣaṃ caturthake || 10.34 * pañcame vāci kāmitvaṃ ṣaṣṭhe bhūmiṃ parityajet || 10.35 * saptame dūram ālokya cāṣṭame vajravad bhavet || 10.36 * navame sphurate kāyo daśame sāmarasyakam || 10.37 * pṛthvīmadhye bhavet pṛthvī cāpām āpas tathaiva ca || 10.38 * tejomadhye bhavet tejo vāyur vāyau pralīyate || 10.39 * ākāśo līyate sarvaḥ satattvaḥ piṇḍasaṃgrahaḥ || 10.40 * anāhato divārātrau dhvanate tu dhanaṃjayaḥ || 10.41 * tatrārūḍho yadā yogī prāpnuyāt paramaṃ padam || 10.42] ayaṃ prakṛtibhedaḥ pṛthvī āpaḥ tejaḥ vāyuḥ ākāśaś ca iti śarīre pañcaguṇāḥ mahābhūtāni bhavanti tatraiva tāni pañcavidhāni bhavanti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.