अथातो ब्रह्मजिज्ञासा प्रमाणाभावेन जीवचैतन्यातिरिक्तब्रह्मणो ऽभावात्, जीवस्य च स्वप्रकाशत्वेनासन्दिग्धत्वात्, तथा च विषयाभावात् प्रत्यग्रूपे ब्रह्मण्यहमिति प्रतीयमाने ऽपि मोक्षानुफलम्भेन प्रयोजनाभावात् तत एव तत्प्रतिबद्धाधिकार्यभावाच्च न ब्रह्मजिज्ञासा कर्तव्येति प्राप्ते सिद्धान्तितं भगवता सूत्रकारेण ओम् अथातो ब्रह्मजिज्ञासा
athāto brahmajijñāsā pramāṇābhāvena jīvacaitanyātiriktabrahmaṇo 'bhāvāt, jīvasya ca svaprakāśatvenāsandigdhatvāt, tathā ca viṣayābhāvāt pratyagrūpe brahmaṇyahamiti pratīyamāne 'pi mokṣānuphalambhena prayojanābhāvāt tata eva tatpratibaddhādhikāryabhāvācca na brahmajijñāsā kartavyeti prāpte siddhāntitaṃ bhagavatā sūtrakāreṇa om athāto brahmajijñāsā
Sanskrit only: no published translation is held for this verse.
ब्रह्मणो लक्षणमाह - जन्माद्यस्य यतः
brahmaṇo lakṣaṇamāha - janmādyasya yataḥ
Sanskrit only: no published translation is held for this verse.
अनुमानतो ऽन्ये न कल्पनीयाः । शास्त्रयोनित्वात्
anumānato 'nye na kalpanīyāḥ / śāstrayonitvāt
Sanskrit only: no published translation is held for this verse.
अज्ञानां प्रतीयमानमपि नेतरेषां शास्त्रयोनित्वम् । कुतः? तत् तु समन्वयात्
ajñānāṃ pratīyamānamapi netareṣāṃ śāstrayonitvam / kutaḥ? tat tu samanvayāt
Sanskrit only: no published translation is held for this verse.
नेत्याह - ईक्षतेर् नाशब्दम्
netyāha - īkṣater nāśabdam
Sanskrit only: no published translation is held for this verse.
गौणश्चेन्नात्मशब्दात्
gauṇaścennātmaśabdāt
Sanskrit only: no published translation is held for this verse.
तन्निष्ठस्य मोक्षोपदेशात्
tanniṣṭhasya mokṣopadeśāt
Sanskrit only: no published translation is held for this verse.
हेयत्वावचनाच् च
heyatvāvacanāc ca
Sanskrit only: no published translation is held for this verse.
स्वाप्ययात्
svāpyayāt
Sanskrit only: no published translation is held for this verse.
न च कासुचिच्छाखास्वन्यथोच्यते ॥ गतिसामान्यात्
na ca kāsucicchākhāsvanyathocyate // gatisāmānyāt
Sanskrit only: no published translation is held for this verse.
श्रुतत्वाच् च
śrutatvāc ca
Sanskrit only: no published translation is held for this verse.
नन्वानन्दमयाधिकरणमारभ्य सर्वेषामधिकरणानामवश्यवक्तव्ये सङ्गतिपञ्चके अस्मिन्नधिकरणे लोकतो ऽन्यत्रप्रसिद्धानन्दमयशब्दोपलक्षितगुणिवाचिशब्दानामानन्दादिगुणवाचिशब्दानां च ब्रह्मणि समन्वयकरणात् अस्यास्तु शास्त्रे ऽध्याये पादे चान्तर्भावरूपा सङ्गतिः । तथापि आनन्दमयस्य विष्णुत्वसमर्थने का पूर्वसङ्गतिरित्यतो ऽव्यवहितपूर्वाधिकरणेनैव सङ्गतिर्वक्तव्येति नियमाभावात् व्यवहितपूर्वेण जिज्ञासाधिकरणेन तद्विषयेण च अस्यानन्तर्यलक्षणलक्षितामाक्षेपिकीं सङ्गतिं तावद्दर्शयति - ब्रह्मेति ॥ उक्तं जिज्ञासाधिकरणे इति शेषः । ऽतच्चेतिऽ; । यज्जिज्ञास्यतया प्रतिज्ञातं ब्रह्म तदेवेत्यर्थः । यद्वा - प्रकृतानुसन्धानार्थश्चशब्दः । इतीत्यनन्तरं ऽश्रुतौऽ; इति शेषः । ऽआनन्दमयावयवरूपमितिऽ; आनन्दमयाख्यस्य कस्यचित्पुच्छाख्यावयवभूतं प्रतीयत इत्यर्थः। ननु ब्रह्मणो ऽवयवत्वोक्तावपि किमर्थमानन्दमयस्य विष्णुत्वसमर्थनमित्यत आह - न हीति। हिशब्दो हेतौ। ऽअतऽ; इत्यावर्तते । ऽतच्चऽ; इत्यादि ऽइत्यत आहऽ; इत्यन्तं सङ्गतिप्रयोजनोभयपरतया व्याख्येयम् । न हीत्येतत्तदुपपादकम् । योजना तु - यतो ऽब्रह्म पुच्छं प्रतिष्ठाऽ; इति श्रुतौ जिज्ञास्यतयोक्तं ब्रह्म आनन्दमयाख्यस्य कस्यचिदवयवरूपं ऽप्रतीयतेऽ; उच्यते यतश्च अन्याङ्गतया जिज्ञास्यत्वे ऽपि ऽअवयविनम्ऽ; आनन्दमयं विना ऽअवयवमात्रस्यऽ; अवयवस्यैव केवलस्य ब्रह्मणो न पृथक् ऽज्ञेयताऽ; जिज्ञास्यता सम्भवति । अमुख्यत्वात् । नापि जिज्ञासाया एव त्यागो युज्यते । "तद्विजिज्ञासस्व"(तै। उ। ३-१।) इति श्रुतिविहितत्वादित्येवं शङ्का प्राप्ता । अतः शङ्कारूपसङ्गतिसद्भावात् अत्रानन्दमयस्य विष्ण्वन्यत्वपक्षे ब्रह्मजिज्ञासाक्षेपात् विष्णुत्वपक्षे च तत्समाधानात् एवं च पूर्वपक्षसिद्धान्तयोः फलसद्भावाच्च ऽअतोऽ; ब्रह्मजिज्ञासासिद्ध्यर्थम् ऽआनन्दमयो ऽभ्यासात्ऽ; इत्यानन्दमयस्य विष्णुत्वम् ऽआहऽ; समर्थयति सूत्रकार इति । "तस्माद्वा एतस्माद्विज्ञानमयात् । अन्यो ऽन्तर आत्मानन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा"(तैउ। २-५-२।) इति तैत्तिरीयवाक्यस्यायमर्थः । ऽतस्मात्ऽ; आत्मपदोदितात् ऽएतस्मात्ऽ; जीवशरीरगतात् विज्ञानपूर्णत्वात् विज्ञानमयशब्दवाच्यात् विष्णोः अनन्यो ऽप्यन्यशब्दोक्तः ऽआनन्दमयःऽ; आनन्दपूर्णत्वादानन्दमयशब्दवाच्यः ऽआत्माऽ; नारायणः ऽअन्तरोऽ; विज्ञानमयस्यान्तःस्थितः ऽतेनऽ; आनन्दमयेन ऽएषःऽ; विज्ञानमयशब्दवाच्यो वासुदेवः ऽपूर्णःऽ; निश्छिद्रत्वेन पूरितः । वैशब्दः प्रसिद्धौ । ऽस एषऽ; आनन्दमयः ऽपुरुषविध एवऽ; पुरुषाकार एव । ऽतस्यऽ; आनन्दमयस्य शरीरस्थानीयस्य पुरुषाकारताम् ऽअनुऽ; अनुसृत्य ऽअयंऽ; विज्ञानमयः शरीरस्थानीयः ऽपुरुषविधःऽ; तस्मात्प्रादुर्भूतः, उत्तरैः पूरिताः पूर्वे निश्छिद्रत्वेन सर्वशः । सर्वे ऽपि पुरुषाकारा उत्तरात्पूर्वसम्भवः ॥ इति तैत्तिरीयभाष्योक्तेः । ऽतस्यऽ; आनन्दमयस्य विष्णोः अवयवभूतं ऽपरेयं प्रियनामकम्ऽ; इति भाष्योक्तेः । परैरुत्तमैः देवैः प्राप्यत्वात्प्रियशब्दवाच्यं यत्सुखं तत्तस्य ऽशिरःऽ; तदेवानन्दमयाख्यस्य जीवशरीरस्य परैरन्यैरुपकर्तृभिः प्राप्यत्वात् प्रियनामकमुपकारजन्यवैषयिकसुखाख्यं यच्छिरः तत्स्थं च । एवमानन्दमयाख्यस्य विष्णोः ये दक्षिणोत्तरबाहुमध्यदेहाः मोदप्रमोदकारित्वानन्दत्वनिमित्तैर्मोद- प्रमोदानन्दनामानः ते आनन्दमयाख्यजीवशरीरस्य दक्षिणोत्तरपक्षात्मनामानो दक्षिणसव्यबाहुमध्यदेहाः। ऽमोदोऽ; भोगनिमित्तकः ऽप्रमोदःऽ; "तद्विशेषोत्थः"इत्यैतरेयभाष्योक्तेः । मुन्नाम विषयोत्थं यत्प्रकृष्टविषयात्प्रमुत् । सुखं स्वरूपभूतं यदानन्द इति कथ्यते ॥ इति बृहद्भाष्योक्तेश्च । अपकृष्टविषयोद्भूतत्वप्रकृष्टविषयोत्थत्वजीवस्वरूपानन्दत्वनिमित्तैर्मोदप्रमोदानन्दनामानस्तेषु स्थिताश्च । एवमानन्दमयाख्यस्य विष्णोः ऽपुच्छंऽ; प्रतिष्ठति गच्छति लोक आभ्यामिति व्युत्पत्त्या प्रतिष्ठापदोक्तो यः पादाख्यो ऽवयवः तद्ब्रह्म ऽब्रह्मसृष्ट्या तु बृंहयेत्ऽ; इति तैत्तिरीयभाष्योक्तरीत्या सृष्ट्यादिक्रियया विश्वगुणवृद्धिकरत्वाद्ब्रह्मशब्दवाच्यः स एवानन्दमयाख्यजीवशरीरस्य यत् पुच्छं यः पादाख्यो ऽवयवः तत्स्थिते ब्रह्माख्ये प्रधानवायौ स्थितः । अनेन कोशावयवस्य ब्रह्मशब्दवाच्यत्वं ब्रह्मशब्दवाच्यप्रधानवाय्वधिष्ठानत्वनिमित्तं, प्रधानवायोर्ब्रह्मशब्दवाच्यत्वं तु परब्रह्माधिष्ठानत्वादित्युक्तं भवति । अनेनानन्दमयादिशब्दवाच्यस्य विष्णोरवयव- भूताः ये प्रियादयः ते विष्ण्वभिन्नाः ये चानन्दमयादिजीवकोशावयवाः प्रियादयस्ते प्रतिशरीरं भिन्ना इति द्विविधाः प्रियादय इत्युक्तं भवति । यथोक्तं चन्द्रिकायाम् - ये जीवाभिमन्यमानानन्दमयादिकोशावयवाः प्रियादयस्ते प्रतिशरीरं भिन्नाः, न ते आनन्दमयाद्याख्यस्य विष्णोरवयवाः । ये च भगवतो ऽवयवाः प्रियादयो न ते प्रतिशरीरं भिन्ना किन्त्वभिन्ना इति जीवस्वरूपस्यानन्दस्य हृदयाख्यमध्यगतत्वात्कोशमध्यदेहत्वं स्वरूपदेहस्य जडावयवत्वं चामुख्यं युज्यते । यद्यपि भाष्ये ऽशिरो नारायणःऽ; इत्युदाहरिष्यमाणवचनपर्यालोचनयाद्मनन्दमयाख्यो नारायणः पुनर्नारायणादिरूपेण पञ्चधा भिन्नः शिरःप्रभृत्यवयवात्मना तिष्ठतीति प्रतीयते । तैत्तिरीयभाष्ये तु - प्रियादीनामनन्दमयावयवत्वम् । तथापि प्रियादिसुखविशेषदेहस्थितब्रह्माख्यप्रधानवायुगतानां नारायणादिरूपाणामेव आनन्दमयाख्यविष्ण्ववयवत्वसम्भवात्तेषामेव । परेयं प्रियनामकम् । मोदप्रमोदनामानौ मोदनाच्च प्रमोदनात् । देहस्थवायुसंस्थं च ब्रह्म सृष्ट्या तु बृंहयेत् ॥ इति । तैत्तिरीयभाष्योक्तरीत्या प्रियादिशब्दवाच्यत्वस्यापि सम्भवान्न विरोधः । तत्त्वप्रदीपे तु - प्रियशिरस्त्वादिनये "श्रवणोत्थं प्रियं, दर्शनोत्थो मोदः, भोगोत्थः प्रमोदः"इति पदत्रयस्यार्थान्तरमुक्तम् । तथा तत्रैव "ऽअभावं बादरिःऽ; इति सूत्रेण ऽप्रियाप्रियेऽ; (छां। ८-१२-१।) इति श्रुतिस्थप्रियशब्देन ऽपरेयं प्रियनामकम्ऽ; इति तैत्तिरीयछान्दोग्यभाष्ययोरुक्तत्वात्परप्राप्यसुखसामान्यवाचकेन प्राकृतं सुखं ग्राह्यमिति सूचितम्"इति चोक्तम् । इदं त्ववधयम् - परिदृश्यमानमन्नमयं शरीरम् । तदन्तः प्राणमयो देहः तदन्तर्मनोमयो देहः । तदन्तर्विज्ञानमयो देहः । तदन्तरानन्दमयो ऽस्ति । एतेषु पञ्चसु देहाख्यकोशेषु तत्तच्छब्दवाच्यानि पुरुषाकाराणि अनिरुद्धप्रद्युम्नसङ्कर्षणवासुदेवनारायणरूपाणि देहदेहिभावेन वर्तन्त इति । इत्यानन्दमयावयवरूपं प्रतीयते । न ह्यवयविनं विना अवयवमात्रस्य ज्ञेयतेत्यत आह ॥ - आनन्दमयो ऽभ्यासात्
nanvānandamayādhikaraṇamārabhya sarveṣāmadhikaraṇānāmavaśyavaktavye saṅgatipañcake asminnadhikaraṇe lokato 'nyatraprasiddhānandamayaśabdopalakṣitaguṇivāciśabdānāmānandādiguṇavāciśabdānāṃ ca brahmaṇi samanvayakaraṇāt asyāstu śāstre 'dhyāye pāde cāntarbhāvarūpā saṅgatiḥ / tathāpi ānandamayasya viṣṇutvasamarthane kā pūrvasaṅgatirityato 'vyavahitapūrvādhikaraṇenaiva saṅgatirvaktavyeti niyamābhāvāt vyavahitapūrveṇa jijñāsādhikaraṇena tadviṣayeṇa ca asyānantaryalakṣaṇalakṣitāmākṣepikīṃ saṅgatiṃ tāvaddarśayati - brahmeti // uktaṃ jijñāsādhikaraṇe iti śeṣaḥ / 'tacceti'; / yajjijñāsyatayā pratijñātaṃ brahma tadevetyarthaḥ / yadvā - prakṛtānusandhānārthaścaśabdaḥ / itītyanantaraṃ 'śrutau'; iti śeṣaḥ / 'ānandamayāvayavarūpamiti'; ānandamayākhyasya kasyacitpucchākhyāvayavabhūtaṃ pratīyata ityarthaḥ/ nanu brahmaṇo 'vayavatvoktāvapi kimarthamānandamayasya viṣṇutvasamarthanamityata āha - na hīti/ hiśabdo hetau/ 'ata'; ityāvartate / 'tacca'; ityādi 'ityata āha'; ityantaṃ saṅgatiprayojanobhayaparatayā vyākhyeyam / na hītyetattadupapādakam / yojanā tu - yato 'brahma pucchaṃ pratiṣṭhā'; iti śrutau jijñāsyatayoktaṃ brahma ānandamayākhyasya kasyacidavayavarūpaṃ 'pratīyate'; ucyate yataśca anyāṅgatayā jijñāsyatve 'pi 'avayavinam'; ānandamayaṃ vinā 'avayavamātrasya'; avayavasyaiva kevalasya brahmaṇo na pṛthak 'jñeyatā'; jijñāsyatā sambhavati / amukhyatvāt / nāpi jijñāsāyā eva tyāgo yujyate / "tadvijijñāsasva"(tai. u. 3-1.) iti śrutivihitatvādityevaṃ śaṅkā prāptā / ataḥ śaṅkārūpasaṅgatisadbhāvāt atrānandamayasya viṣṇvanyatvapakṣe brahmajijñāsākṣepāt viṣṇutvapakṣe ca tatsamādhānāt evaṃ ca pūrvapakṣasiddhāntayoḥ phalasadbhāvācca 'ato'; brahmajijñāsāsiddhyartham 'ānandamayo 'bhyāsāt'; ityānandamayasya viṣṇutvam 'āha'; samarthayati sūtrakāra iti / "tasmādvā etasmādvijñānamayāt / anyo 'ntara ātmānandamayaḥ / tenaiṣa pūrṇaḥ / sa vā eṣa puruṣavidha eva / tasya puruṣavidhatām / anvayaṃ puruṣavidhaḥ / tasya priyameva śiraḥ / modo dakṣiṇaḥ pakṣaḥ / pramoda uttaraḥ pakṣaḥ / ānanda ātmā / brahma pucchaṃ pratiṣṭhā"(tai.u. 2-5-2.) iti taittirīyavākyasyāyamarthaḥ / 'tasmāt'; ātmapadoditāt 'etasmāt'; jīvaśarīragatāt vijñānapūrṇatvāt vijñānamayaśabdavācyāt viṣṇoḥ ananyo 'pyanyaśabdoktaḥ 'ānandamayaḥ'; ānandapūrṇatvādānandamayaśabdavācyaḥ 'ātmā'; nārāyaṇaḥ 'antaro'; vijñānamayasyāntaḥsthitaḥ 'tena'; ānandamayena 'eṣaḥ'; vijñānamayaśabdavācyo vāsudevaḥ 'pūrṇaḥ'; niśchidratvena pūritaḥ / vaiśabdaḥ prasiddhau / 'sa eṣa'; ānandamayaḥ 'puruṣavidha eva'; puruṣākāra eva / 'tasya'; ānandamayasya śarīrasthānīyasya puruṣākāratām 'anu'; anusṛtya 'ayaṃ'; vijñānamayaḥ śarīrasthānīyaḥ 'puruṣavidhaḥ'; tasmātprādurbhūtaḥ, uttaraiḥ pūritāḥ pūrve niśchidratvena sarvaśaḥ / sarve 'pi puruṣākārā uttarātpūrvasambhavaḥ // iti taittirīyabhāṣyokteḥ / 'tasya'; ānandamayasya viṣṇoḥ avayavabhūtaṃ 'pareyaṃ priyanāmakam'; iti bhāṣyokteḥ / parairuttamaiḥ devaiḥ prāpyatvātpriyaśabdavācyaṃ yatsukhaṃ tattasya 'śiraḥ'; tadevānandamayākhyasya jīvaśarīrasya parairanyairupakartṛbhiḥ prāpyatvāt priyanāmakamupakārajanyavaiṣayikasukhākhyaṃ yacchiraḥ tatsthaṃ ca / evamānandamayākhyasya viṣṇoḥ ye dakṣiṇottarabāhumadhyadehāḥ modapramodakāritvānandatvanimittairmoda- pramodānandanāmānaḥ te ānandamayākhyajīvaśarīrasya dakṣiṇottarapakṣātmanāmāno dakṣiṇasavyabāhumadhyadehāḥ/ 'modo'; bhoganimittakaḥ 'pramodaḥ'; "tadviśeṣotthaḥ"ityaitareyabhāṣyokteḥ / munnāma viṣayotthaṃ yatprakṛṣṭaviṣayātpramut / sukhaṃ svarūpabhūtaṃ yadānanda iti kathyate // iti bṛhadbhāṣyokteśca / apakṛṣṭaviṣayodbhūtatvaprakṛṣṭaviṣayotthatvajīvasvarūpānandatvanimittairmodapramodānandanāmānasteṣu sthitāśca / evamānandamayākhyasya viṣṇoḥ 'pucchaṃ'; pratiṣṭhati gacchati loka ābhyāmiti vyutpattyā pratiṣṭhāpadokto yaḥ pādākhyo 'vayavaḥ tadbrahma 'brahmasṛṣṭyā tu bṛṃhayet'; iti taittirīyabhāṣyoktarītyā sṛṣṭyādikriyayā viśvaguṇavṛddhikaratvādbrahmaśabdavācyaḥ sa evānandamayākhyajīvaśarīrasya yat pucchaṃ yaḥ pādākhyo 'vayavaḥ tatsthite brahmākhye pradhānavāyau sthitaḥ / anena kośāvayavasya brahmaśabdavācyatvaṃ brahmaśabdavācyapradhānavāyvadhiṣṭhānatvanimittaṃ, pradhānavāyorbrahmaśabdavācyatvaṃ tu parabrahmādhiṣṭhānatvādityuktaṃ bhavati / anenānandamayādiśabdavācyasya viṣṇoravayava- bhūtāḥ ye priyādayaḥ te viṣṇvabhinnāḥ ye cānandamayādijīvakośāvayavāḥ priyādayaste pratiśarīraṃ bhinnā iti dvividhāḥ priyādaya ityuktaṃ bhavati / yathoktaṃ candrikāyām - ye jīvābhimanyamānānandamayādikośāvayavāḥ priyādayaste pratiśarīraṃ bhinnāḥ, na te ānandamayādyākhyasya viṣṇoravayavāḥ / ye ca bhagavato 'vayavāḥ priyādayo na te pratiśarīraṃ bhinnā kintvabhinnā iti jīvasvarūpasyānandasya hṛdayākhyamadhyagatatvātkośamadhyadehatvaṃ svarūpadehasya jaḍāvayavatvaṃ cāmukhyaṃ yujyate / yadyapi bhāṣye 'śiro nārāyaṇaḥ'; ityudāhariṣyamāṇavacanaparyālocanayādmanandamayākhyo nārāyaṇaḥ punarnārāyaṇādirūpeṇa pañcadhā bhinnaḥ śiraḥprabhṛtyavayavātmanā tiṣṭhatīti pratīyate / taittirīyabhāṣye tu - priyādīnāmanandamayāvayavatvam / tathāpi priyādisukhaviśeṣadehasthitabrahmākhyapradhānavāyugatānāṃ nārāyaṇādirūpāṇāmeva ānandamayākhyaviṣṇvavayavatvasambhavātteṣāmeva / pareyaṃ priyanāmakam / modapramodanāmānau modanācca pramodanāt / dehasthavāyusaṃsthaṃ ca brahma sṛṣṭyā tu bṛṃhayet // iti / taittirīyabhāṣyoktarītyā priyādiśabdavācyatvasyāpi sambhavānna virodhaḥ / tattvapradīpe tu - priyaśirastvādinaye "śravaṇotthaṃ priyaṃ, darśanottho modaḥ, bhogotthaḥ pramodaḥ"iti padatrayasyārthāntaramuktam / tathā tatraiva "'abhāvaṃ bādariḥ'; iti sūtreṇa 'priyāpriye'; (chāṃ. 8-12-1.) iti śrutisthapriyaśabdena 'pareyaṃ priyanāmakam'; iti taittirīyachāndogyabhāṣyayoruktatvātparaprāpyasukhasāmānyavācakena prākṛtaṃ sukhaṃ grāhyamiti sūcitam"iti coktam / idaṃ tvavadhayam - paridṛśyamānamannamayaṃ śarīram / tadantaḥ prāṇamayo dehaḥ tadantarmanomayo dehaḥ / tadantarvijñānamayo dehaḥ / tadantarānandamayo 'sti / eteṣu pañcasu dehākhyakośeṣu tattacchabdavācyāni puruṣākārāṇi aniruddhapradyumnasaṅkarṣaṇavāsudevanārāyaṇarūpāṇi dehadehibhāvena vartanta iti / ityānandamayāvayavarūpaṃ pratīyate / na hyavayavinaṃ vinā avayavamātrasya jñeyatetyata āha // - ānandamayo 'bhyāsāt
Sanskrit only: no published translation is held for this verse.
विकारशब्दान् नेति चेन् न प्राचुर्यात्
vikāraśabdān neti cen na prācuryāt
Sanskrit only: no published translation is held for this verse.
तद्धेतुव्यपदेशाच् च
taddhetuvyapadeśāc ca
Sanskrit only: no published translation is held for this verse.
मान्त्रवर्णिकमेव च गीयते
māntravarṇikameva ca gīyate
Sanskrit only: no published translation is held for this verse.
न चोक्तप्राप्त्या विरिञ्चादिरुच्यते । नेतरो ऽनुपपत्तेः
na coktaprāptyā viriñcādirucyate / netaro 'nupapatteḥ
Sanskrit only: no published translation is held for this verse.
भेदव्यपदेशाच् च
bhedavyapadeśāc ca
Sanskrit only: no published translation is held for this verse.
कामाच् च नानुमानापेक्षा
kāmāc ca nānumānāpekṣā
Sanskrit only: no published translation is held for this verse.
अस्मिन्न् अस्य च तद्योगं शास्ति
asminn asya ca tadyogaṃ śāsti
Sanskrit only: no published translation is held for this verse.
अन्तस् तद्धर्मोपदेशात्
antas taddharmopadeśāt
Sanskrit only: no published translation is held for this verse.
भेदव्यपदेशाच् चान्यः
bhedavyapadeśāc cānyaḥ
Sanskrit only: no published translation is held for this verse.
इति न मन्तव्यम् । यतः - आकाशस् तल्लिङ्गात्
iti na mantavyam / yataḥ - ākāśas talliṅgāt
Sanskrit only: no published translation is held for this verse.
अत एव प्राणः
ata eva prāṇaḥ
Sanskrit only: no published translation is held for this verse.
अत आह - ज्योतिश् चरणाभिधानात्
ata āha - jyotiś caraṇābhidhānāt
Sanskrit only: no published translation is held for this verse.
छन्दो ऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम्
chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam
Sanskrit only: no published translation is held for this verse.
भूतादिपादव्यपदेशोपपत्तेश् चैवम्
bhūtādipādavyapadeśopapatteś caivam
Sanskrit only: no published translation is held for this verse.
उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात्
upadeśabhedān neti cen nobhayasminn apy avirodhāt
Sanskrit only: no published translation is held for this verse.
प्राणस् तथानुगमात्
prāṇas tathānugamāt
Sanskrit only: no published translation is held for this verse.
न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन्
na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin
Sanskrit only: no published translation is held for this verse.
शास्त्रदृष्ट्या तूपदेशो वामदेववत्
śāstradṛṣṭyā tūpadeśo vāmadevavat
Sanskrit only: no published translation is held for this verse.
जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात्
jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt
Sanskrit only: no published translation is held for this verse.
जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात्
jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt
Sanskrit only: no published translation is held for this verse.