उदासीनानाम् अपि चैवं सिद्धिः यदि चाभावाद्भावोत्पत्तिरभ्युपगम्येत, एवंसत्युदासीनानामनीहमानानांपि जनानामभिमतसिद्धिः स्यात् । अभावस्य सुलभत्वात् । कृषीवलस्य क्षेत्रकर्मण्यप्रयतमानस्यापि सस्यनिष्पत्तिः स्यात् । कुलालस्य च मृत्संस्क्रियायामप्रयतमानस्याप्यमत्रोत्पत्तिः । तन्तुवायस्यापि तन्तूनतन्वानस्यापि तन्वानस्येव वस्त्रलाभः । स्वर्गापवर्गयोश्च न कश्चित्कथञ्चित्समीहेत । नचैतद्युज्यते ऽभ्युपगम्यते वा केनचित् । तस्मादप्यनुपपन्नो ऽयमभावाद्भावोत्पत्त्यभ्युपगमः ॥ २७ ॥ ---------------------- फ़्न्: अनीहमानानां प्रयत्नशून्यानाम् । अमत्रं घटादिपात्रम् । ५ अभावाधिकरणम् । सू। २८-३२
udāsīnānām api caivaṃ siddhiḥ yadi cābhāvādbhāvotpattirabhyupagamyeta, evaṃsatyudāsīnānāmanīhamānānāṃpi janānāmabhimatasiddhiḥ syāt / abhāvasya sulabhatvāt / kṛṣīvalasya kṣetrakarmaṇyaprayatamānasyāpi sasyaniṣpattiḥ syāt / kulālasya ca mṛtsaṃskriyāyāmaprayatamānasyāpyamatrotpattiḥ / tantuvāyasyāpi tantūnatanvānasyāpi tanvānasyeva vastralābhaḥ / svargāpavargayośca na kaścitkathañcitsamīheta / nacaitadyujyate 'bhyupagamyate vā kenacit / tasmādapyanupapanno 'yamabhāvādbhāvotpattyabhyupagamaḥ // 27 // ---------------------- FN: anīhamānānāṃ prayatnaśūnyānām / amatraṃ ghaṭādipātram / 5 abhāvādhikaraṇam / sū. 28-32
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.