द्वादशसंख्यासंख्यातानाम् आदित्यानां द्वादशो य उत्कृष्टो विष्णुर् नामादित्यः, सो ऽहम् । ज्योतिषां जगति प्रकाशकानां यः अंशुमान् रविः आदित्यगणः, सो ऽहम् । मरुताम् उत्कृष्टो मरीचिर् यः, सो ऽहम् अस्मि । नक्षत्राणाम् अहं शशी । नेयं निर्धारणे षष्ठी, "भूतानाम् अस्मि चेतना" इतिवत् । नक्षत्राणां पतिर् यश् चन्द्रः, सो ऽहम् अस्मि
dvādaśasaṃkhyāsaṃkhyātānām ādityānāṃ dvādaśo ya utkṛṣṭo viṣṇur nāmādityaḥ, so 'ham / jyotiṣāṃ jagati prakāśakānāṃ yaḥ aṃśumān raviḥ ādityagaṇaḥ, so 'ham / marutām utkṛṣṭo marīcir yaḥ, so 'ham asmi / nakṣatrāṇām ahaṃ śaśī / neyaṃ nirdhāraṇe ṣaṣṭhī, "bhūtānām asmi cetanā" itivat / nakṣatrāṇāṃ patir yaś candraḥ, so 'ham asmi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.