यस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि चोत्तमः । अतो ऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः यस्माद् एवम् उक्तैः स्वभावैः क्षरं पुरुषम् अतीतो ऽहम्, अक्षरान् मुक्ताद् अप्य् उक्तैर् हेतुभिर् उत्कृष्टतमः, अतो ऽहं लोके वेदे च पुरुषोत्तम इति प्रथितो ऽस्मि । वेदार्थावलोकनाल् लोक इति स्मृतिर् इहोच्यते । श्रुतौ स्मृतौ चेत्य् अर्थः । श्रुतौ तावत्, "परं ज्योतिर् उपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः" इत्यादौ । स्मृतव् अपि, "अंशावतारं पुरुषोत्तमस्य ह्य् अनादिमध्यान्तम् अजस्य विष्णोः" इत्यादौ
yasmāt kṣaram atīto 'ham akṣarād api cottamaḥ / ato 'smi loke vede ca prathitaḥ puruṣottamaḥ yasmād evam uktaiḥ svabhāvaiḥ kṣaraṃ puruṣam atīto 'ham, akṣarān muktād apy uktair hetubhir utkṛṣṭatamaḥ, ato 'haṃ loke vede ca puruṣottama iti prathito 'smi / vedārthāvalokanāl loka iti smṛtir ihocyate / śrutau smṛtau cety arthaḥ / śrutau tāvat, "paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate, sa uttamaḥ puruṣaḥ" ityādau / smṛtav api, "aṃśāvatāraṃ puruṣottamasya hy anādimadhyāntam ajasya viṣṇoḥ" ityādau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.