प्रवृत्तिं च निवृत्तिं च अभ्युदयसाधनं मोक्षसाधनं च वैदिकं धर्मम् आसुरा न विदुः न जानन्ति । शौचम् वैदिककर्मयोग्यत्वं शास्त्रसिद्धम्; तद् बाह्यम् आन्तरं चासुरेषु न विद्यते । नापि चाचारः तद् बाह्यान्तरशौचं येन सन्ध्यावन्दनादिना आचारेण जायते, सो ऽप्य् आचारस् तेषु न विद्यते । यथोक्तम्, "संध्याहीनो ऽशुचिर् नित्यम् अनर्हस् सर्वकर्मसु" इति । तथा सत्यं च तेषु न विद्यते यथाज्ञातभूतहितरूपभाषणं तेषु न विद्यते
pravṛttiṃ ca nivṛttiṃ ca abhyudayasādhanaṃ mokṣasādhanaṃ ca vaidikaṃ dharmam āsurā na viduḥ na jānanti / śaucam vaidikakarmayogyatvaṃ śāstrasiddham; tad bāhyam āntaraṃ cāsureṣu na vidyate / nāpi cācāraḥ tad bāhyāntaraśaucaṃ yena sandhyāvandanādinā ācāreṇa jāyate, so 'py ācāras teṣu na vidyate / yathoktam, "saṃdhyāhīno 'śucir nityam anarhas sarvakarmasu" iti / tathā satyaṃ ca teṣu na vidyate yathājñātabhūtahitarūpabhāṣaṇaṃ teṣu na vidyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.