शास्त्रविधिम् उत्सृज्य श्रद्धयान्विता ये यजन्ते, तेषां निष्ठा का ? किं सत्त्वम् ? आहोस्विद् रजः ? अथ तमः ? निष्ठा स्थितिः; स्थीयते ऽस्मिन्न् इति स्थितिः सत्त्वादिर् एव निष्ठेत्य् उच्यते । तेषां किं सत्त्वे स्थितिः ? किं वा रजसि ? किं वा तमसीत्यर्थः
śāstravidhim utsṛjya śraddhayānvitā ye yajante, teṣāṃ niṣṭhā kā ? kiṃ sattvam ? āhosvid rajaḥ ? atha tamaḥ ? niṣṭhā sthitiḥ; sthīyate 'sminn iti sthitiḥ sattvādir eva niṣṭhety ucyate / teṣāṃ kiṃ sattve sthitiḥ ? kiṃ vā rajasi ? kiṃ vā tamasītyarthaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.