केचित् कर्मयोगिनो द्रव्ययज्ञाः न्यायतो द्रव्याण्य् उपादाय देवतार्चने प्रयतन्ते, केचिच् च दानेषु, केचिच् च यागेषु, केचिच् च होमेषु । एते सर्वे द्रव्ययज्ञाः । केचित् तपोयज्ञाः कृच्छ्रचान्द्रायणोपवासादिषु निष्ठां कुर्वन्ति । योगयज्ञाश् चापरे पुण्यतीर्थपुण्यस्थानप्राप्तिषु निष्ठां कुर्वन्ति । इह योगशब्दः कर्मनिष्ठाभेदप्रकरणात् तद्विषयः । केचित् स्वाध्यायाभ्यासपराः । केचित् तदर्थज्ञानाभ्यासपराः । यतयः यतनशीलाः, संशितव्रताः दृढसङ्कल्पाः
kecit karmayogino dravyayajñāḥ nyāyato dravyāṇy upādāya devatārcane prayatante, kecic ca dāneṣu, kecic ca yāgeṣu, kecic ca homeṣu / ete sarve dravyayajñāḥ / kecit tapoyajñāḥ kṛcchracāndrāyaṇopavāsādiṣu niṣṭhāṃ kurvanti / yogayajñāś cāpare puṇyatīrthapuṇyasthānaprāptiṣu niṣṭhāṃ kurvanti / iha yogaśabdaḥ karmaniṣṭhābhedaprakaraṇāt tadviṣayaḥ / kecit svādhyāyābhyāsaparāḥ / kecit tadarthajñānābhyāsaparāḥ / yatayaḥ yatanaśīlāḥ, saṃśitavratāḥ dṛḍhasaṅkalpāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.