तेषाम् अल्पमेधसाम् अल्पबुद्धीनाम् इन्द्रादिमात्रयाजिनां तदाराधनफलम् अल्पम्, अन्तवच् च भवति । कुतः? देवान् देवयजो यान्ति यत इन्द्रादीन् देवान् तद्याजिनो यान्ति । इन्द्रादयो ऽपि हि परिच्छिन्नभोगाः परिमितकालवर्तिनश् च । ततस् तत्सायुज्यं प्राप्ताः तैस् सह प्रच्यवन्ते । मद्भक्ता अपि तेषाम् एव कर्मणां मदाराधनरूपतां ज्ञात्वा परिच्छिन्नफलसङ्गं त्यक्त्वा मत्प्रीणनैकप्रयोजनाः मां प्राप्नुवन्ति; न च पुनर् निवर्तन्ते । "माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते" इति हि वक्ष्यते
teṣām alpamedhasām alpabuddhīnām indrādimātrayājināṃ tadārādhanaphalam alpam, antavac ca bhavati / kutaḥ? devān devayajo yānti yata indrādīn devān tadyājino yānti / indrādayo 'pi hi paricchinnabhogāḥ parimitakālavartinaś ca / tatas tatsāyujyaṃ prāptāḥ tais saha pracyavante / madbhaktā api teṣām eva karmaṇāṃ madārādhanarūpatāṃ jñātvā paricchinnaphalasaṅgaṃ tyaktvā matprīṇanaikaprayojanāḥ māṃ prāpnuvanti; na ca punar nivartante / "mām upetya tu kaunteya punar janma na vidyate" iti hi vakṣyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.