अहं क्रतुः अहं ज्योतिष्टोमादिकः क्रतुः; अहम् एव महायज्ञः; अहम् एव पितृगणपुष्टिदा स्वधा; औषधं हविश् चाहम् एव; अहम् एव च मन्त्रः; अहम् एव च आज्यम् । प्रदर्शनार्थम् इदम् सोमादिकं च हविर् अहम् एवेत्यर्थः; अहम् आहवनीयादिको ऽग्निः; होमश् चाहम् एव
ahaṃ kratuḥ ahaṃ jyotiṣṭomādikaḥ kratuḥ; aham eva mahāyajñaḥ; aham eva pitṛgaṇapuṣṭidā svadhā; auṣadhaṃ haviś cāham eva; aham eva ca mantraḥ; aham eva ca ājyam / pradarśanārtham idam somādikaṃ ca havir aham evetyarthaḥ; aham āhavanīyādiko 'gniḥ; homaś cāham eva
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.