अशास्त्र-विहितं न शास्त्र-विहितम् अशास्त्र-विहितं घोरं पीडा-करं प्राणिनाम् आत्मनश् च तपस् तप्यन्ते निर्वर्तयन्ति ये जनास् ते च दम्भाहंकार-संयुक्ताः । दम्भश् चाहंकारश् च दम्भाहंकारौ, ताभ्यां संयुक्ताः दम्भाहंकार-संयुक्ताः, काम-राग-बलान्विताः कामश् च रागश् च काम-रागौ तत्-कृतं बलं काम-राग-बलं तेनान्विताः काम-राग-बलान्विताः
aśāstra-vihitaṃ na śāstra-vihitam aśāstra-vihitaṃ ghoraṃ pīḍā-karaṃ prāṇinām ātmanaś ca tapas tapyante nirvartayanti ye janās te ca dambhāhaṃkāra-saṃyuktāḥ | dambhaś cāhaṃkāraś ca dambhāhaṃkārau, tābhyāṃ saṃyuktāḥ dambhāhaṃkāra-saṃyuktāḥ, kāma-rāga-balānvitāḥ kāmaś ca rāgaś ca kāma-rāgau tat-kṛtaṃ balaṃ kāma-rāga-balaṃ tenānvitāḥ kāma-rāga-balānvitāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.