काङ्क्षन्तो ऽभीप्सन्तः कर्मणां सिद्धिं फल-निष्पत्तिं प्रार्थयन्तो यजन्त इहास्मिन् लोके देवता इन्द्राद्ग्न्य्-आद्याः । अथ यो ऽन्यां देवताम् उपास्ते ऽन्यो ऽसाव् अन्यो ऽहम् अस्मीति न स वेद, यथा पशुः । एवं स देवानाम् [ब्अउ १।४।१०] इति श्रुतेः । तेषां हि भिन्न-देवतायाजिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्मान् मानुषे लोके । मनुष्य-लोके हि शास्त्राधिकारः । क्षिप्रं हि मानुषे लोके इति विशेषणात् । अन्येष्व् अपि कर्म-फल-सिद्धिं दर्शयति भगवान् । मानुषे लोके वर्णाश्रमादि-कर्माधिकार इति विशेषः । तेषां च वर्णाश्रमाधिकारिणां कर्मिणां फल-सिद्धिः क्षिप्रं भवति कर्मजा कर्मणो जाता
kāṅkṣanto 'bhīpsantaḥ karmaṇāṃ siddhiṃ phala-niṣpattiṃ prārthayanto yajanta ihāsmin loke devatā indrādgny-ādyāḥ | atha yo 'nyāṃ devatām upāste 'nyo 'sāv anyo 'ham asmīti na sa veda, yathā paśuḥ | evaṃ sa devānām [BAU 1.4.10] iti śruteḥ | teṣāṃ hi bhinna-devatāyājināṃ phalākāṅkṣiṇāṃ kṣipraṃ śīghraṃ hi yasmān mānuṣe loke | manuṣya-loke hi śāstrādhikāraḥ | kṣipraṃ hi mānuṣe loke iti viśeṣaṇāt | anyeṣv api karma-phala-siddhiṃ darśayati bhagavān | mānuṣe loke varṇāśramādi-karmādhikāra iti viśeṣaḥ | teṣāṃ ca varṇāśramādhikāriṇāṃ karmiṇāṃ phala-siddhiḥ kṣipraṃ bhavati karmajā karmaṇo jātā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.