Library·Bhagavadgita with Samkara's commentary·4·4.18

Bhagavadgita with Samkara's commentary 4.18

BhGS 4.18

कर्मणि । कर्म क्रियत इति कर्म व्यापार-मात्रं, तस्मिन् कर्मण्य् अकर्म कर्माभावं यः पश्येत् । अकर्मणि च कर्माभावे कर्तृ-तन्त्रत्वात् प्रवृत्ति-निवृत्त्योर् वस्त्व् अप्राप्यैव हि सर्व एव क्रियाकारकादि-व्यवहारो ऽविद्याभूमाव् एव कर्म यः पश्येत् पश्यति । स बुद्धिमान् मनुष्येषु, स युक्तो योगी च कृत्स्न-कर्म-कृत् समस्त-कर्म-कृच् च स इति स्तूयते कर्माकर्मणोर् इतरेतर-दर्शी । ननु किम् इदं विरुद्धम् उच्यते कर्मण्य् अकर्म यः पश्येद् इति । अकर्मणि च कर्म इति । न हि कर्माकर्म स्याद् अकर्म वा कर्म, तत्र विरुद्धं कथं पश्येद् द्रष्टा ? न । अकर्मैव परमार्थतः सत्-कर्मवद् अवभासते मूढ-दृष्टेर् लोकस्य, तथा कर्मैवाकर्मवत् । तत्र यथाभूत-दर्शनार्थम् आह भगवान् कर्मण्य् अकर्म यः पश्येद् इत्य् आदि । अतो न विरुद्धम् बुद्धिमत्त्वाद्य्-उपपत्तेश् च । बोद्धव्यम् इति च यथाभूत-दर्शनम् उच्यते । न च विपरीत-ज्ञानाद् अशुभान् मोक्षणं स्यात् यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् [गीता ४।१६] इति चोक्तम् । तस्मात् कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिस् तद्-विपर्यय-ग्रहण-निवृत्त्य्-अर्थं भगवतो वचनं कर्मण्य् अकर्म यः इत्य् आदि । न चात्र कर्माधिकरण-कर्मास्ति, कुण्डे बदराणीव । नाप्य् अकर्माधिकरणं कर्मास्ति कर्माभावत्वाद् अकर्मणः । अतो विपरीत-गृहीते एव कर्माकर्मणी लौकिकैः, यथा मृगतृष्णिकायाम् उदकं शुक्तिकायां वा रजतम् । ननु कर्म कर्मैव सर्वेषां न क्वचिद् व्यभिचरति । तन् न नौ-स्थस्य नावि गच्छन्त्यां तटस्थेस्व् अगतिषु नगेषु प्रतिकूल-गति-दर्शनात् । दूरेषु चक्षुषासन्निकृष्टेषु गच्छत्सु गत्य्-अभाव-दर्शनात् । एवम् इहाप्य् अकर्मण्य् अहं करोमीति कर्म-दर्शनं कर्मणि चाकर्म-दर्शनं विपरीत-दर्शनं येन, तन्-निराकरणार्थम् उच्यते कर्मण्य् अकर्म यः पश्येत् इत्य् आदि । तद् एतद् उक्त-प्रतिवचनम् अप्य् असकृद् अत्यन्त-विपरीत-दर्शन-भाविततया मोमुह्यमानो लोकः श्रुतम् अप्य् असकृत् तत्त्वं विस्मृत्य विस्मृत्य मिथ्या-प्रसङ्गम् अवतार्यावतार्य चोदयतीति पुनः पुनर् उत्तरम् आह भगवान् । दुर्विज्ञेयत्वं चालक्ष्य वस्तुनः । अव्यक्तो ऽयम् अचिन्त्यो ऽयं [गीता २।२५], न जायते म्रियते [गीता २।२७] इत्य् आदिनात्मनि कर्माभावः श्रुति-स्मृति-न्याय-प्रसिद्ध उक्तो वक्ष्यमाणश् च । तस्मिन्न् आत्मनि कर्माभावे ऽकर्मणि कर्म-विपरीत-दर्शनम् अत्यन्त-निरूढम् । यतः किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः [गीता ४।१६] देहाद्य्-आश्रयं कर्मात्मन्य् अध्यारोप्य । अहं कर्ता ममैतत् कर्म, मयास्य कर्मणः फलं भोक्तव्यम् इति च । तथा अहं तूष्णीं भवामि, येनाहं निरायासो ऽकर्मा सुखी स्याम् इति कार्य-करणाश्रय-व्यापारोपरमं तत्-कृतं चसुखित्वम् आत्मन्य् अध्यारोप्य न करोमि किंचित् तूष्णीं सुखम् आसम् इत्य् अभिमन्यते लोकः । तत्रेदं लोकस्य विपरीत-दर्शनापनयनायाह भगवान् कर्मण्य् अकर्म यः पश्येद् इत्य् आदि । अत्र च कर्म कर्मैव सत् कार्य-करणाश्रयं कर्म-रहितो ऽविक्रिय आत्मनि सर्वैर् अध्यस्तम् । यतः पण्डितो ऽप्य् अहं करोमीति मन्यते । अथ आत्म-समवेततया सर्व-लोक-प्रसिद्धे कर्मणि नदी-कुल-स्थेष्व् इव गतिः प्रतिलौम्येन । अतो ऽकर्म कर्माभावं यथा-भूतं गत्य्-अभावम् इव वृक्षेषु यः पश्येत् । अकर्मणि च कार्य-करण-व्यापारोपरमे कर्मवद् आत्मन्य् अध्यारोपिते तूष्णीम् अकुर्वन् सुखम् आसे इत्य् अहङ्काराभिसन्धि-हेतुत्वात् तस्मिन्न् अकर्मणि च कर्म यः पश्येत् । य एवं कर्माकर्म-विभागज्ञः स बुद्धिमान् पण्डितो मनुष्येषु । स युक्तो योगी कृत्स्न-कर्म-कृच् च । सो ऽशुभान् मोक्षितः कृत-कृत्यो भवतीत्य् अर्थः । अयं श्लोको ऽन्यथा व्याख्यातः कैश्चित् । कथम् ? नित्यानां किल कर्मणाम् ईश्वरार्थे ऽनुष्ठीयमानानां तत्-फलाभावाद् अकर्माणि तान्य् उच्यन्ते गौण्या वृत्त्या । तेषां चाकरणम् अकर्म । तच् च प्रत्यवाय-फलत्वात् कर्मोच्यते गौण्यैव वृत्त्या । तत्र नित्ये कर्मण्य् अकर्म यः पश्येत् फलाभावात् । यथा धेनुर् अपि गौर् अगौर् उच्यते क्षीराख्यं फलं न प्रयच्छतीति तद्वत् । तथा नित्याकरणे त्व् अकर्मणि कर्मः आश्येन् नरकादि-प्रत्यवाय-फलं प्रयच्छतीति । नैतद् युक्तं व्याख्यानम् । एवं-ज्ञानाद् अशुभान् मोक्षानुपपत्तेः । यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् [गीता ४।१६] इति भगवतोक्तं वचनं बोध्येत । कथम् ? नित्यानाम् अनुष्ठानाद् अशुभात् स्यान् नाम मोक्षणम् । न तु तेषां फलाभाव-ज्ञानात् । न हि नित्यानां फलाभाव-ज्ञानम् अशुभ-मुक्ति-फलत्वेन चोदितं नित्य-कर्म-ज्ञानं वा । न च भगवतिवेहोक्तम् । एतेनाकर्मणि कर्म-दर्शनं प्रत्युक्तम् । न ह्य् अकर्मणि कर्मेति दर्शनं कर्तव्यतयेह चोद्यते, नित्यस्य तु कर्तव्यता-मात्रम् । न चाकरणान् नित्यस्य प्रत्यवायो भवतीति विज्ञानात् किंचित् फलं स्यात् । नापि नित्याकरणं ज्ञेयत्वेन चोदितम् । नापि कर्माकर्मेति मिथा-दर्शनाद् अशुभान् मोक्षणम् । बुद्धिमत्त्वं, युक्तता, कृत्स्न-कर्म-कृत्त्वादि च फलम् उपपद्यते स्तुतिर् वा । मिथ्या-ज्ञानम् एव हि साक्षाद् अशुभ-रूपं कुतो ऽन्यस्माद् अशुभान् मोक्षणम् ? न हि तमस् तमसो निवर्तकं भवति । ननु कर्मणि यद् अकर्म-दर्शनम् अकर्मणि वा कर्म-दर्शनं, न तन्-मिथ्या-ज्ञानम् । किं तर्हि गौणं फल-भावाभाव-निमित्तम् ? न, कर्माकर्म-विज्ञानाद् अपि गौणात् फलस्याश्रवणात् । नापि श्रुत-हान्य-श्रुत-परिकल्पनया कश्चिद् विशेषो लभ्यते । स्व-शब्देनापि शक्यं वक्तुं नित्य-कर्मणां फलं नास्त्य् अकरणाच् च तेषां नरक-पातः स्याद् इति । तत्र व्याजेन पर-व्यामोह-रूपेण कर्मण्य् अकर्म यः पश्येद् इत्य् आदिना किम् ? तत्रैव व्याचक्षाणेन भगवतोक्तं वाक्यं लोक-व्यामोहार्थम् इति व्यक्तं कल्पितं स्यात् । न चैतच् छद्म-रूपेण वाक्येन रक्षणीयं वस्तु, नापि शब्दान्तरेण पुनः पुनर् उच्यमानं सुबोधं स्याद् इत्य् एवं वक्तुं युक्तम् । कर्मण्य् एवाधिकारस् ते [गीता २।४७] इत्य् अत्र हि स्फुटतर उक्तो ऽर्थो न पुनर् वक्तव्यो भवति । सर्वत्र च प्रशस्तं बोद्धव्यं च कर्तव्यम् एव, न निष्प्रयोजनं बोद्धव्यम् इत्य् उच्यते । न च मिथ्या-ज्ञानं बोद्धव्यं भवति तत्-प्रत्युपस्थापितं वा वस्त्व्-आभासम् । नापि नित्यानाम् अकरणाद् अभावात् प्रयवाय-भावोत्पत्तिः । नासतो विद्यते भावो [गीता २।१६] इति वचनात् । तत्-कथम् असतः सज् जायते [छाउ ६।२।२] इति च दर्शितम् । असतः सज्-जन्म-प्रतिषेधाद् असतः सद्-उत्पत्तिं ब्रुवता ऽसद् एव सद् भवेत् । सच् चासद् भवेद् इत्य् उक्तं स्यात् । तच् चायुक्तं, सर्व-प्रमाण-विरोधात् । न च निष्फलं विदध्यात् कर्म शास्त्रं दुःख-स्वरूपत्वात् । दुःखस्य च बुद्धि-पूर्वकतया कार्यत्वानुपपत्तेः । तद्-अकरणे च नरक-पाताभ्युपगमे ऽनर्थायैव । उभयथापि करणे ऽकरणे च शास्त्रं निष्फलं कल्पितं स्यात् । स्वाभ्युपगम-विरोधश् च नित्यं निष्फलं कर्मेत्य् अभ्युपगम्य मोक्ष-फलायेति ब्रुवतः । तस्माद् यथा-श्रुत एवार्थः कर्मण्य् अकर्म य इत्य् आदेः । तथा च व्याख्यातो ऽस्माभिः श्लोकः

karmaṇi | karma kriyata iti karma vyāpāra-mātraṃ, tasmin karmaṇy akarma karmābhāvaṃ yaḥ paśyet | akarmaṇi ca karmābhāve kartṛ-tantratvāt pravṛtti-nivṛttyor vastv aprāpyaiva hi sarva eva kriyākārakādi-vyavahāro 'vidyābhūmāv eva karma yaḥ paśyet paśyati | sa buddhimān manuṣyeṣu, sa yukto yogī ca kṛtsna-karma-kṛt samasta-karma-kṛc ca sa iti stūyate karmākarmaṇor itaretara-darśī | nanu kim idaṃ viruddham ucyate karmaṇy akarma yaḥ paśyed iti | akarmaṇi ca karma iti | na hi karmākarma syād akarma vā karma, tatra viruddhaṃ kathaṃ paśyed draṣṭā ? na | akarmaiva paramārthataḥ sat-karmavad avabhāsate mūḍha-dṛṣṭer lokasya, tathā karmaivākarmavat | tatra yathābhūta-darśanārtham āha bhagavān karmaṇy akarma yaḥ paśyed ity ādi | ato na viruddham buddhimattvādy-upapatteś ca | boddhavyam iti ca yathābhūta-darśanam ucyate | na ca viparīta-jñānād aśubhān mokṣaṇaṃ syāt yaj jñātvā mokṣyase 'śubhāt [Gītā 4.16] iti coktam | tasmāt karmākarmaṇī viparyayeṇa gṛhīte prāṇibhis tad-viparyaya-grahaṇa-nivṛtty-arthaṃ bhagavato vacanaṃ karmaṇy akarma yaḥ ity ādi | na cātra karmādhikaraṇa-karmāsti, kuṇḍe badarāṇīva | nāpy akarmādhikaraṇaṃ karmāsti karmābhāvatvād akarmaṇaḥ | ato viparīta-gṛhīte eva karmākarmaṇī laukikaiḥ, yathā mṛgatṛṣṇikāyām udakaṃ śuktikāyāṃ vā rajatam | nanu karma karmaiva sarveṣāṃ na kvacid vyabhicarati | tan na nau-sthasya nāvi gacchantyāṃ taṭasthesv agatiṣu nageṣu pratikūla-gati-darśanāt | dūreṣu cakṣuṣāsannikṛṣṭeṣu gacchatsu gaty-abhāva-darśanāt | evam ihāpy akarmaṇy ahaṃ karomīti karma-darśanaṃ karmaṇi cākarma-darśanaṃ viparīta-darśanaṃ yena, tan-nirākaraṇārtham ucyate karmaṇy akarma yaḥ paśyet ity ādi | tad etad ukta-prativacanam apy asakṛd atyanta-viparīta-darśana-bhāvitatayā momuhyamāno lokaḥ śrutam apy asakṛt tattvaṃ vismṛtya vismṛtya mithyā-prasaṅgam avatāryāvatārya codayatīti punaḥ punar uttaram āha bhagavān | durvijñeyatvaṃ cālakṣya vastunaḥ | avyakto 'yam acintyo 'yaṃ [Gītā 2.25], na jāyate mriyate [Gītā 2.27] ity ādinātmani karmābhāvaḥ śruti-smṛti-nyāya-prasiddha ukto vakṣyamāṇaś ca | tasminn ātmani karmābhāve 'karmaṇi karma-viparīta-darśanam atyanta-nirūḍham | yataḥ kiṃ karma kim akarmeti kavayo 'py atra mohitāḥ [Gītā 4.16] dehādy-āśrayaṃ karmātmany adhyāropya | ahaṃ kartā mamaitat karma, mayāsya karmaṇaḥ phalaṃ bhoktavyam iti ca | tathā ahaṃ tūṣṇīṃ bhavāmi, yenāhaṃ nirāyāso 'karmā sukhī syām iti kārya-karaṇāśraya-vyāpāroparamaṃ tat-kṛtaṃ casukhitvam ātmany adhyāropya na karomi kiṃcit tūṣṇīṃ sukham āsam ity abhimanyate lokaḥ | tatredaṃ lokasya viparīta-darśanāpanayanāyāha bhagavān karmaṇy akarma yaḥ paśyed ity ādi | atra ca karma karmaiva sat kārya-karaṇāśrayaṃ karma-rahito 'vikriya ātmani sarvair adhyastam | yataḥ paṇḍito 'py ahaṃ karomīti manyate | atha ātma-samavetatayā sarva-loka-prasiddhe karmaṇi nadī-kula-stheṣv iva gatiḥ pratilaumyena | ato 'karma karmābhāvaṃ yathā-bhūtaṃ gaty-abhāvam iva vṛkṣeṣu yaḥ paśyet | akarmaṇi ca kārya-karaṇa-vyāpāroparame karmavad ātmany adhyāropite tūṣṇīm akurvan sukham āse ity ahaṅkārābhisandhi-hetutvāt tasminn akarmaṇi ca karma yaḥ paśyet | ya evaṃ karmākarma-vibhāgajñaḥ sa buddhimān paṇḍito manuṣyeṣu | sa yukto yogī kṛtsna-karma-kṛc ca | so 'śubhān mokṣitaḥ kṛta-kṛtyo bhavatīty arthaḥ | ayaṃ śloko 'nyathā vyākhyātaḥ kaiścit | katham ? nityānāṃ kila karmaṇām īśvarārthe 'nuṣṭhīyamānānāṃ tat-phalābhāvād akarmāṇi tāny ucyante gauṇyā vṛttyā | teṣāṃ cākaraṇam akarma | tac ca pratyavāya-phalatvāt karmocyate gauṇyaiva vṛttyā | tatra nitye karmaṇy akarma yaḥ paśyet phalābhāvāt | yathā dhenur api gaur agaur ucyate kṣīrākhyaṃ phalaṃ na prayacchatīti tadvat | tathā nityākaraṇe tv akarmaṇi karmaḥ āśyen narakādi-pratyavāya-phalaṃ prayacchatīti | naitad yuktaṃ vyākhyānam | evaṃ-jñānād aśubhān mokṣānupapatteḥ | yaj jñātvā mokṣyase 'śubhāt [Gītā 4.16] iti bhagavatoktaṃ vacanaṃ bodhyeta | katham ? nityānām anuṣṭhānād aśubhāt syān nāma mokṣaṇam | na tu teṣāṃ phalābhāva-jñānāt | na hi nityānāṃ phalābhāva-jñānam aśubha-mukti-phalatvena coditaṃ nitya-karma-jñānaṃ vā | na ca bhagavativehoktam | etenākarmaṇi karma-darśanaṃ pratyuktam | na hy akarmaṇi karmeti darśanaṃ kartavyatayeha codyate, nityasya tu kartavyatā-mātram | na cākaraṇān nityasya pratyavāyo bhavatīti vijñānāt kiṃcit phalaṃ syāt | nāpi nityākaraṇaṃ jñeyatvena coditam | nāpi karmākarmeti mithā-darśanād aśubhān mokṣaṇam | buddhimattvaṃ, yuktatā, kṛtsna-karma-kṛttvādi ca phalam upapadyate stutir vā | mithyā-jñānam eva hi sākṣād aśubha-rūpaṃ kuto 'nyasmād aśubhān mokṣaṇam ? na hi tamas tamaso nivartakaṃ bhavati | nanu karmaṇi yad akarma-darśanam akarmaṇi vā karma-darśanaṃ, na tan-mithyā-jñānam | kiṃ tarhi gauṇaṃ phala-bhāvābhāva-nimittam ? na, karmākarma-vijñānād api gauṇāt phalasyāśravaṇāt | nāpi śruta-hānya-śruta-parikalpanayā kaścid viśeṣo labhyate | sva-śabdenāpi śakyaṃ vaktuṃ nitya-karmaṇāṃ phalaṃ nāsty akaraṇāc ca teṣāṃ naraka-pātaḥ syād iti | tatra vyājena para-vyāmoha-rūpeṇa karmaṇy akarma yaḥ paśyed ity ādinā kim ? tatraiva vyācakṣāṇena bhagavatoktaṃ vākyaṃ loka-vyāmohārtham iti vyaktaṃ kalpitaṃ syāt | na caitac chadma-rūpeṇa vākyena rakṣaṇīyaṃ vastu, nāpi śabdāntareṇa punaḥ punar ucyamānaṃ subodhaṃ syād ity evaṃ vaktuṃ yuktam | karmaṇy evādhikāras te [Gītā 2.47] ity atra hi sphuṭatara ukto 'rtho na punar vaktavyo bhavati | sarvatra ca praśastaṃ boddhavyaṃ ca kartavyam eva, na niṣprayojanaṃ boddhavyam ity ucyate | na ca mithyā-jñānaṃ boddhavyaṃ bhavati tat-pratyupasthāpitaṃ vā vastv-ābhāsam | nāpi nityānām akaraṇād abhāvāt prayavāya-bhāvotpattiḥ | nāsato vidyate bhāvo [Gītā 2.16] iti vacanāt | tat-katham asataḥ saj jāyate [ChāU 6.2.2] iti ca darśitam | asataḥ saj-janma-pratiṣedhād asataḥ sad-utpattiṃ bruvatā 'sad eva sad bhavet | sac cāsad bhaved ity uktaṃ syāt | tac cāyuktaṃ, sarva-pramāṇa-virodhāt | na ca niṣphalaṃ vidadhyāt karma śāstraṃ duḥkha-svarūpatvāt | duḥkhasya ca buddhi-pūrvakatayā kāryatvānupapatteḥ | tad-akaraṇe ca naraka-pātābhyupagame 'narthāyaiva | ubhayathāpi karaṇe 'karaṇe ca śāstraṃ niṣphalaṃ kalpitaṃ syāt | svābhyupagama-virodhaś ca nityaṃ niṣphalaṃ karmety abhyupagamya mokṣa-phalāyeti bruvataḥ | tasmād yathā-śruta evārthaḥ karmaṇy akarma ya ity ādeḥ | tathā ca vyākhyāto 'smābhiḥ ślokaḥ

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/BhGS/4.18

Cite as: Bhagavadgita with Samkara's commentary 4.18, in HREEM (hreem.cc/library/BhGS/4.18), after GRETIL, Bhagavadgita with the commentary ascribed to Samkara (Adhyayas 1-17) Input by ...

Edition, numbering and licence

GRETIL 6_sastra/3_phil/vedanta/bhgsbh_u.htm — Bhagavadgita with the commentary ascribed to Samkara (Adhyayas 1-17) Input by ... (Gaudiya Grantha Mandira) THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Unicode (UTF-8). (This file is

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text