अज्ञश् चानात्मज्ञश् चाश्रद्दधानश् च गुरु-वाक्य-शास्त्रेष्व् अविश्वासवांश् च संशयात्मा च संशय-चित्तश् च विनश्यति । अज्ञाश्रद्दधानौ यद्यपि विनश्यतः, न तथा यथा संशयात्मा । संशयात्मा तु पापिष्ठः सर्वेषाम् । कथम् ? नायं साधारणो ऽपि लोको ऽस्ति । तथा न परो लोकः । न सुखम्, तत्रापि संशयोत्पत्तेः संशयात्मनः संशय-चित्तस्य । तस्मात् संशयो न कर्तव्यः
ajñaś cānātmajñaś cāśraddadhānaś ca guru-vākya-śāstreṣv aviśvāsavāṃś ca saṃśayātmā ca saṃśaya-cittaś ca vinaśyati | ajñāśraddadhānau yadyapi vinaśyataḥ, na tathā yathā saṃśayātmā | saṃśayātmā tu pāpiṣṭhaḥ sarveṣām | katham ? nāyaṃ sādhāraṇo 'pi loko 'sti | tathā na paro lokaḥ | na sukham, tatrāpi saṃśayotpatteḥ saṃśayātmanaḥ saṃśaya-cittasya | tasmāt saṃśayo na kartavyaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.