Library·Bhagavadgita with Samkara's commentary·5

Bhagavadgita with Samkara's commentary 5

संन्यासं परित्यागं कर्मणां आस्त्रीयाणाम् अनुष्ठेय-विशेषाणाम् शंससि प्रशंससि कथयसीत्य् एतत् । पुनर् योगं च तेषाम् एव अनुष्ठानम् अवश्य-कर्तव्यम् शंससि । अतो मे कतरत् श्रेयः इति संशयः - किं कर्मानुष्ठानं श्रेयः, किं वा तद्-धानम् इति । प्रशस्यतरं चानुष्ठेयम् । अतश् च यत् श्रेयः प्रशस्यतरम् एतयोः कर्म-संन्यास-कर्म-योगयोर् यद्-अनुष्ठानात् श्रेयो ऽवाप्तिर् मम स्याद् इति मन्यसे, तद् एकम् अन्यतरत् सह एक-पुरुषानुष्ठेयत्वासंभवात् मे ब्रूहि सुनिश्चितम् अभिप्रेतं तवेति

saṃnyāsaṃ parityāgaṃ karmaṇāṃ āstrīyāṇām anuṣṭheya-viśeṣāṇām śaṃsasi praśaṃsasi kathayasīty etat | punar yogaṃ ca teṣām eva anuṣṭhānam avaśya-kartavyam śaṃsasi | ato me katarat śreyaḥ iti saṃśayaḥ - kiṃ karmānuṣṭhānaṃ śreyaḥ, kiṃ vā tad-dhānam iti | praśasyataraṃ cānuṣṭheyam | ataś ca yat śreyaḥ praśasyataram etayoḥ karma-saṃnyāsa-karma-yogayor yad-anuṣṭhānāt śreyo 'vāptir mama syād iti manyase, tad ekam anyatarat saha eka-puruṣānuṣṭheyatvāsaṃbhavāt me brūhi suniścitam abhipretaṃ taveti

Sanskrit only: no published translation is held for this verse.

संन्यासः कर्मणां परित्यागः कर्म-योगश् च तेषाम् अनुष्ठानं ताव् उभाव् अपि निःश्रेयस-करौ मोक्षं कुर्वाते ज्ञानोत्पत्ति-हेतुत्वेन । उभौ यद्यपि निःश्रेयस-करौ, तथापि तयोस् तु निःश्रेयस-हेत्वोः कर्म-संन्यासात् केवलात् कर्म-योगो विशिष्यत इति कर्म-योगं स्तौति

saṃnyāsaḥ karmaṇāṃ parityāgaḥ karma-yogaś ca teṣām anuṣṭhānaṃ tāv ubhāv api niḥśreyasa-karau mokṣaṃ kurvāte jñānotpatti-hetutvena | ubhau yadyapi niḥśreyasa-karau, tathāpi tayos tu niḥśreyasa-hetvoḥ karma-saṃnyāsāt kevalāt karma-yogo viśiṣyata iti karma-yogaṃ stauti

Sanskrit only: no published translation is held for this verse.

ज्ञेयो ज्ञातव्यः स कर्म-योगी नित्य-संन्यासी इति यो न द्वेष्टि किंचित् न काङ्क्षति दुःख-सुखे तत्-साधने च । एवंविधो यः, कर्मणि वर्तमानो ऽपि स नित्य-संन्यासी इति ज्ञातव्य इत्य् अर्थः । निर्द्वन्द्वो द्वन्द्व-वर्जितो हि यस्मात् महाबाहो सुखं बन्धाद् अनायासेन प्रमुच्यते

jñeyo jñātavyaḥ sa karma-yogī nitya-saṃnyāsī iti yo na dveṣṭi kiṃcit na kāṅkṣati duḥkha-sukhe tat-sādhane ca | evaṃvidho yaḥ, karmaṇi vartamāno 'pi sa nitya-saṃnyāsī iti jñātavya ity arthaḥ | nirdvandvo dvandva-varjito hi yasmāt mahābāho sukhaṃ bandhād anāyāsena pramucyate

Sanskrit only: no published translation is held for this verse.

सांख्य-योगौ पृथग् विरुद्ध-भिन्न-फलौ बालाः प्रवदन्ति न पण्डिताः । पण्डितास् तु ज्ञानिन एकं फलम् अविरुद्धम् इच्छन्ति । कथम् ? एकम् अपि सांख्य-योगयोः सम्यग् आस्थितः सम्यग् अनुष्ठितवान् इत्य् अर्थः, उभयोर् विन्दते फलम् । उभयोस् तद् एव हि निःश्रेयसं फलम् । अतो न फले विरोधो ऽस्ति । ननु संन्यास-कर्म-योग-शब्देन प्रस्तुत्य सांख्य-योगयोः फलैकत्वं कथम् इहाप्रकृतं ब्रवीति ? नैष दोषः - यद्यप्य् अर्जुनेन संन्यासं कर्म-योगं च केवलम् अभिप्रेत्य प्रश्नः कृतः । भगवांस् तु तद्-अपरित्यागेनैव स्वाभिप्रेतं च विशेषं संयोज्य शब्दान्तर-वाच्यतया प्रतिवचनं ददौ सांख्य-योगाव् इति । ताव् एव संन्यास-कर्म-योगौ ज्ञान-तद्-उपाय-सम-बुद्धित्वादि-संयुक्तौ सांख्य-योग-शब्द-वाच्याव् इति भगवतो मतम् । अतो न अप्रकृत-प्रक्रियेति

sāṃkhya-yogau pṛthag viruddha-bhinna-phalau bālāḥ pravadanti na paṇḍitāḥ | paṇḍitās tu jñānina ekaṃ phalam aviruddham icchanti | katham ? ekam api sāṃkhya-yogayoḥ samyag āsthitaḥ samyag anuṣṭhitavān ity arthaḥ, ubhayor vindate phalam | ubhayos tad eva hi niḥśreyasaṃ phalam | ato na phale virodho 'sti | nanu saṃnyāsa-karma-yoga-śabdena prastutya sāṃkhya-yogayoḥ phalaikatvaṃ katham ihāprakṛtaṃ bravīti ? naiṣa doṣaḥ - yadyapy arjunena saṃnyāsaṃ karma-yogaṃ ca kevalam abhipretya praśnaḥ kṛtaḥ | bhagavāṃs tu tad-aparityāgenaiva svābhipretaṃ ca viśeṣaṃ saṃyojya śabdāntara-vācyatayā prativacanaṃ dadau sāṃkhya-yogāv iti | tāv eva saṃnyāsa-karma-yogau jñāna-tad-upāya-sama-buddhitvādi-saṃyuktau sāṃkhya-yoga-śabda-vācyāv iti bhagavato matam | ato na aprakṛta-prakriyeti

Sanskrit only: no published translation is held for this verse.

यत् सांख्यैर् ज्ञान-निष्ठैः संन्यासिभिः प्राप्यते स्थानं मोक्षाख्यम् तद् योगैर् अपि ज्ञान-प्राप्त्य्-उपायत्वेनेश्वरे समर्प्य कर्माण्य् आत्मनः फलम् अनभिसंधायानुतिष्ठन्ति ये ते योगा योगिनः । तैर् अपि परमार्थ-ज्ञान-संन्यास-प्राप्ति-द्वारेण गम्यत इत्य् अभिप्रायः । अत एकं साङ्ख्यं च योगं च यः पश्यति फलैकत्वात् स पश्यति सम्यक् पश्यतीत्य् अर्थः

yat sāṃkhyair jñāna-niṣṭhaiḥ saṃnyāsibhiḥ prāpyate sthānaṃ mokṣākhyam tad yogair api jñāna-prāpty-upāyatveneśvare samarpya karmāṇy ātmanaḥ phalam anabhisaṃdhāyānutiṣṭhanti ye te yogā yoginaḥ | tair api paramārtha-jñāna-saṃnyāsa-prāpti-dvāreṇa gamyata ity abhiprāyaḥ | ata ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati phalaikatvāt sa paśyati samyak paśyatīty arthaḥ

Sanskrit only: no published translation is held for this verse.

संन्यासस् तु पारमार्थिको दुःखम् आप्तुं प्राप्तुम् अयोगतो योगेन विना । योग-युक्तो वैदिकेन कर्म-योगेन वैदिकेन कर्म-योगेनेश्वर-समर्पित-रूपेण फल-निरपेक्षेण युक्तो मुनिः । मननाद् ईश्वर-स्वरूपस्य मुनिः । ब्रह्म परमात्म-ज्ञान-निष्ठा-लक्षणत्वात् प्रकृतः संन्यासो ब्रह्मोच्यते । न्यास इति ब्रह्मा ब्रह्मा हि परः [महानारु ७८] इति श्रुतेः । ब्रह्म परमार्थ-संन्यासं परमार्थ-ज्ञान-निष्ठा-लक्षणं न चिरेण क्षिप्रम् एवाधिगच्छति प्राप्नोति । अतो मयोक्तम् कर्म-योगो विशिष्यत इति

saṃnyāsas tu pāramārthiko duḥkham āptuṃ prāptum ayogato yogena vinā | yoga-yukto vaidikena karma-yogena vaidikena karma-yogeneśvara-samarpita-rūpeṇa phala-nirapekṣeṇa yukto muniḥ | mananād īśvara-svarūpasya muniḥ | brahma paramātma-jñāna-niṣṭhā-lakṣaṇatvāt prakṛtaḥ saṃnyāso brahmocyate | nyāsa iti brahmā brahmā hi paraḥ [MahānārU 78] iti śruteḥ | brahma paramārtha-saṃnyāsaṃ paramārtha-jñāna-niṣṭhā-lakṣaṇaṃ na cireṇa kṣipram evādhigacchati prāpnoti | ato mayoktam karma-yogo viśiṣyata iti

Sanskrit only: no published translation is held for this verse.

योगेन युक्तो योग-युक्तो विशुद्धात्मा विशुद्ध-सत्त्वो विजितात्मा विजित-देहो जितेन्द्रियश् च सर्व-भूतात्म-भूतात्मा सर्वेषां ब्रह्मादीनां स्तम्ब-पर्यन्तानां भूतानाम् आत्म-भूत आत्मा प्रत्यक्-चेतनो यस्य स सर्व-भूतात्म-भूतात्मा सम्यग्-दर्शीत्य् अर्थः । स तत्रैवं वर्तमानो लोक-संग्रहाय कर्म कुर्वन्न् अपि न लिप्यते न कर्मभिर् बध्यते इत्य् अर्थः

yogena yukto yoga-yukto viśuddhātmā viśuddha-sattvo vijitātmā vijita-deho jitendriyaś ca sarva-bhūtātma-bhūtātmā sarveṣāṃ brahmādīnāṃ stamba-paryantānāṃ bhūtānām ātma-bhūta ātmā pratyak-cetano yasya sa sarva-bhūtātma-bhūtātmā samyag-darśīty arthaḥ | sa tatraivaṃ vartamāno loka-saṃgrahāya karma kurvann api na lipyate na karmabhir badhyate ity arthaḥ

Sanskrit only: no published translation is held for this verse.

युक्तः समाहितः सन् मन्येत चिन्तयेत् । तत्त्वविद् आत्मनो याथात्म्यं तत्त्वं वेत्तीति तत्त्व-वित् परमार्थ-दर्शीत्य् अर्थः । कदा कथं वा तत्त्वम् अवधारयन् मन्येत ? इत्य् उच्यते । मन्येतेति पूर्वेण संबन्धः । यस्यैवं तत्त्व-विदः सर्व-कार्य-करण-चेष्टासु कर्मस्व् अकर्मैव पश्यतः सम्यग्-दर्शिनस् तस्य सर्व-कर्म-संन्यास एवाधिकारः कर्मणो ऽभाव-दर्शनात् । न हि मृग-तृष्णिकायाम् उदक-बुद्ध्या पानाय प्रवृत्त उदकाभाव-ज्ञाने ऽपि तत्रैव पान-प्रयोजनाय प्रवर्तते

yuktaḥ samāhitaḥ san manyeta cintayet | tattvavid ātmano yāthātmyaṃ tattvaṃ vettīti tattva-vit paramārtha-darśīty arthaḥ | kadā kathaṃ vā tattvam avadhārayan manyeta ? ity ucyate | manyeteti pūrveṇa saṃbandhaḥ | yasyaivaṃ tattva-vidaḥ sarva-kārya-karaṇa-ceṣṭāsu karmasv akarmaiva paśyataḥ samyag-darśinas tasya sarva-karma-saṃnyāsa evādhikāraḥ karmaṇo 'bhāva-darśanāt | na hi mṛga-tṛṣṇikāyām udaka-buddhyā pānāya pravṛtta udakābhāva-jñāne 'pi tatraiva pāna-prayojanāya pravartate

Sanskrit only: no published translation is held for this verse.

ब्रह्मणीश्वर आधाय निक्षिप्य तद्-अर्थं कर्म करोमीति भृत्य इव स्वाम्य्-अर्थं सर्वाणि कर्माणि । मोक्षे ऽपि फले सङ्गं त्यक्त्वा करोति यः सर्व-कर्माणि, लिप्यते न स पापेन न संबध्यते पद्म-पत्रम् इवाम्भसोदकेन

brahmaṇīśvara ādhāya nikṣipya tad-arthaṃ karma karomīti bhṛtya iva svāmy-arthaṃ sarvāṇi karmāṇi | mokṣe 'pi phale saṅgaṃ tyaktvā karoti yaḥ sarva-karmāṇi, lipyate na sa pāpena na saṃbadhyate padma-patram ivāmbhasodakena

Sanskrit only: no published translation is held for this verse.

कायेन देहेन मनसा बुद्ध्या च केवलैर् ममत्व-वर्जितैः ईश्वरायैव कर्म करोमि, न मम फलाय इति ममत्व-बुद्धि-शून्यैर् इन्द्रियैर् अपि - केवल-शब्दः कायादिभिर् अपि प्रत्येकं संबध्यते, सर्व-व्यापारेषु ममता-वर्जनाय । योगिनः कर्मिणः कर्म कुर्वन्ति सङ्गं त्यक्त्वा फल-विषयम् आत्म-शुद्धये सत्त्व-शुद्धय इत्य् अर्थः । तस्मात् तत्रैव तवाधिकार इति कुरु कर्मैव

kāyena dehena manasā buddhyā ca kevalair mamatva-varjitaiḥ īśvarāyaiva karma karomi, na mama phalāya iti mamatva-buddhi-śūnyair indriyair api - kevala-śabdaḥ kāyādibhir api pratyekaṃ saṃbadhyate, sarva-vyāpāreṣu mamatā-varjanāya | yoginaḥ karmiṇaḥ karma kurvanti saṅgaṃ tyaktvā phala-viṣayam ātma-śuddhaye sattva-śuddhaya ity arthaḥ | tasmāt tatraiva tavādhikāra iti kuru karmaiva

Sanskrit only: no published translation is held for this verse.

युक्त ईश्वराय कर्मणि करोमि न मम फलाय इत्य् एवं समाहितः सन् कर्म-फलं त्यक्त्वा परित्यज्य शान्तिं मोक्षाख्याम् आप्नोति नैष्ठिकीं निष्ठायां भवां सत्त्व-शुद्धि-ज्ञान-प्राप्ति-सर्व-कर्म-संन्यास-ज्ञान-निष्ठा-क्रमेणेति वाक्य-शेषः । यस् तु पुनर् अयुक्तो ऽसमाहितः काम-कारेण । करणं कारः कामस्य कारः काम-कारः । तेन काम-कारेण काम-प्रेरिततयेत्य् अर्थः । मम फलाय इदं करोमि कर्म इत्य् एवं फले सक्तो निबध्यते । अतस् त्वं युक्तो भव इत्य् अर्थः

yukta īśvarāya karmaṇi karomi na mama phalāya ity evaṃ samāhitaḥ san karma-phalaṃ tyaktvā parityajya śāntiṃ mokṣākhyām āpnoti naiṣṭhikīṃ niṣṭhāyāṃ bhavāṃ sattva-śuddhi-jñāna-prāpti-sarva-karma-saṃnyāsa-jñāna-niṣṭhā-krameṇeti vākya-śeṣaḥ | yas tu punar ayukto 'samāhitaḥ kāma-kāreṇa | karaṇaṃ kāraḥ kāmasya kāraḥ kāma-kāraḥ | tena kāma-kāreṇa kāma-preritatayety arthaḥ | mama phalāya idaṃ karomi karma ity evaṃ phale sakto nibadhyate | atas tvaṃ yukto bhava ity arthaḥ

Sanskrit only: no published translation is held for this verse.

सर्वाणि कर्माणि सर्व-कर्माणि संन्यस्य परित्यज्य नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं च । तानि सर्वाणि कर्माणि मनसा विवेक-बुद्ध्या, कर्मादाव् अकर्म-सन्दर्शनेन संत्यज्येत्य् अर्थः । आस्ते तिष्ठति सुखम् । त्यक्त-वाङ्-मनः-काय-चेष्टो निरायासः प्रसन्न-चित्त आत्मनो ऽन्यत्र निवृत्त-सर्व-बाह्य-प्रयोजन इति सुखम् आस्ते इत्य् उच्यते । वशी जितेन्द्रिय इत्य् अर्थः । क्व कथम् आस्ते ? इत्य् आह - नव-द्वारे पुरे । सप्त शीर्षाण्यान्य् आत्मन उपलब्धि-द्वाराणि, अर्वाक् द्वे मूत्र-पुरीष-विसर्गार्थे, तैर् द्वारैर् नव-द्वारं पुरम् उच्यते शरीरम् पुरम् इव पुरम् । आत्मैक-स्वामिकम्, तद्-अर्थ-प्रयोजनैश् च इन्द्रिय-मनो-बुद्धि-विषयैर् अनेक-फल-विज्ञानस्योत्पादकैः पौरैर् इवाधिष्ठितम् । तस्मिन् नव-द्वारे पुरे देही सर्वं कर्म संन्यस्यास्ते । किं विशेषणेन ? सर्वो हि देही संन्यास्य् असंन्यासी वा देहे एवास्ते । तत्रानर्थकं विशेषणम् इति । उच्यते - यस् त्व् अज्ञो देही देहेन्द्रिय-संघात-मात्रात्म-दर्शी स सर्वो ऽपि गेहे भूमाव् आसने वा ऽ ऽस इति मन्यते । न हि देह-मात्रात्म-दर्शिनो गेह इव देहे आस इति प्रत्ययः संभवति । देहादि-संघात-व्यतिरिक्तात्म-दर्शिनस् तु देहे आसे इति प्रत्यय उपपद्यते । पर-कर्मणां च परस्मिन्न् आत्मन्य् अविद्यययाध्यारोपितानां विद्यया विवेक-ज्ञानेन मनसा संन्यास उपपद्यते । उत्पन्न-विवेक-ज्ञानस्य सर्व-कर्म-संन्यासिनो ऽपि गेह इव देह एव नव-द्वारे पुर आसनम् । प्रारब्ध-फल-कर्म-संस्कार-शेषानुवृत्त्या देह एव विशेष-विज्ञानोत्पत्तेः । देहे एवास्त इत्य् अस्त्य् एव विशेषण-फलम् विद्वद्-अविद्वत्-प्रत्यय-भेदापेक्षत्वात् । यद्यपि कार्य-करण-कर्माण्य् अविद्ययात्मन्य् अध्यारोपितानि संन्यस्यास्ते इत्य् उक्तम्, तथापि आत्मसमवायि तु कर्तृत्वं कारयितृत्वं च स्यात् इत्य् आशङ्क्याह - नैव कुर्वन् स्वयम् न कार्य-करणानि कारयन् क्रियासु प्रवर्तयन् । किं ? यत् तत् कर्तृत्वं कारयितृत्वं च देहिनः स्वात्म-समवायि सत् संन्यासान् न संभवति ? यथा गच्छतो गतिर् गमन-व्यापार-परित्यागे न स्यात् तद्वत् ? किं वा स्वत एव आत्मनो नास्ति इति ? अत्रोच्यते - नास्त्य् आत्मनः स्वतः कर्तृत्वं कारयितृत्वं च । उक्तं हि -- अविकार्यो ऽयम् उच्यते [गीता २।५५], शरीर-स्थो ऽपि कौन्तेय न करोति न लिप्यते [गीता ३।२६] इति । ध्यायतीव लेलायतीव [ब्अउ ४।३।७] इति च श्रुतेः

sarvāṇi karmāṇi sarva-karmāṇi saṃnyasya parityajya nityaṃ naimittikaṃ kāmyaṃ pratiṣiddhaṃ ca | tāni sarvāṇi karmāṇi manasā viveka-buddhyā, karmādāv akarma-sandarśanena saṃtyajyety arthaḥ | āste tiṣṭhati sukham | tyakta-vāṅ-manaḥ-kāya-ceṣṭo nirāyāsaḥ prasanna-citta ātmano 'nyatra nivṛtta-sarva-bāhya-prayojana iti sukham āste ity ucyate | vaśī jitendriya ity arthaḥ | kva katham āste ? ity āha - nava-dvāre pure | sapta śīrṣāṇyāny ātmana upalabdhi-dvārāṇi, arvāk dve mūtra-purīṣa-visargārthe, tair dvārair nava-dvāraṃ puram ucyate śarīram puram iva puram | ātmaika-svāmikam, tad-artha-prayojanaiś ca indriya-mano-buddhi-viṣayair aneka-phala-vijñānasyotpādakaiḥ paurair ivādhiṣṭhitam | tasmin nava-dvāre pure dehī sarvaṃ karma saṃnyasyāste | kiṃ viśeṣaṇena ? sarvo hi dehī saṃnyāsy asaṃnyāsī vā dehe evāste | tatrānarthakaṃ viśeṣaṇam iti | ucyate - yas tv ajño dehī dehendriya-saṃghāta-mātrātma-darśī sa sarvo 'pi gehe bhūmāv āsane vā ' 'sa iti manyate | na hi deha-mātrātma-darśino geha iva dehe āsa iti pratyayaḥ saṃbhavati | dehādi-saṃghāta-vyatiriktātma-darśinas tu dehe āse iti pratyaya upapadyate | para-karmaṇāṃ ca parasminn ātmany avidyayayādhyāropitānāṃ vidyayā viveka-jñānena manasā saṃnyāsa upapadyate | utpanna-viveka-jñānasya sarva-karma-saṃnyāsino 'pi geha iva deha eva nava-dvāre pura āsanam | prārabdha-phala-karma-saṃskāra-śeṣānuvṛttyā deha eva viśeṣa-vijñānotpatteḥ | dehe evāsta ity asty eva viśeṣaṇa-phalam vidvad-avidvat-pratyaya-bhedāpekṣatvāt | yadyapi kārya-karaṇa-karmāṇy avidyayātmany adhyāropitāni saṃnyasyāste ity uktam, tathāpi ātmasamavāyi tu kartṛtvaṃ kārayitṛtvaṃ ca syāt ity āśaṅkyāha - naiva kurvan svayam na kārya-karaṇāni kārayan kriyāsu pravartayan | kiṃ ? yat tat kartṛtvaṃ kārayitṛtvaṃ ca dehinaḥ svātma-samavāyi sat saṃnyāsān na saṃbhavati ? yathā gacchato gatir gamana-vyāpāra-parityāge na syāt tadvat ? kiṃ vā svata eva ātmano nāsti iti ? atrocyate - nāsty ātmanaḥ svataḥ kartṛtvaṃ kārayitṛtvaṃ ca | uktaṃ hi -- avikāryo 'yam ucyate [Gītā 2.55], śarīra-stho 'pi kaunteya na karoti na lipyate [Gītā 3.26] iti | dhyāyatīva lelāyatīva [BAU 4.3.7] iti ca śruteḥ

Sanskrit only: no published translation is held for this verse.

न कर्तृत्वं स्वतः कुर्व् इति नापि कर्माणि रथ-घट-प्रासादादीनीप्सिततमानि लोकस्य सृजत्य् उत्पादयति प्रभुर् आत्मा । नापि रथादि कृतवतस् तत्-फलेन संयोगं न कर्म-फल-संयोगम् । यदि किंचिद् अपि स्वतो न करोति न कारयति च देही, कस् तर्हि कुर्वन् कारयन् च प्रवर्तत इति, उच्यते - स्वभावस् तु स्वो भावः स्वभावो ऽविद्या-लक्षणा प्रकृतिर् माया प्रवर्तते दैवी हि [गीता ७।१४] इत्य् आदिना वक्ष्यमाणा

na kartṛtvaṃ svataḥ kurv iti nāpi karmāṇi ratha-ghaṭa-prāsādādīnīpsitatamāni lokasya sṛjaty utpādayati prabhur ātmā | nāpi rathādi kṛtavatas tat-phalena saṃyogaṃ na karma-phala-saṃyogam | yadi kiṃcid api svato na karoti na kārayati ca dehī, kas tarhi kurvan kārayan ca pravartata iti, ucyate - svabhāvas tu svo bhāvaḥ svabhāvo 'vidyā-lakṣaṇā prakṛtir māyā pravartate daivī hi [Gītā 7.14] ity ādinā vakṣyamāṇā

Sanskrit only: no published translation is held for this verse.

नादत्ते न च गृह्णाति भक्तस्यापि कस्यचित् पापम् । न चैवादत्ते सुकृतं भक्तैः प्रयुक्तं विभुः । किम्-अर्थं तर्हि भक्तैः पूजादि-लक्षणं याग-दान-होमादिकं च सुकृतं प्रयुज्यते इत्य् आह - अज्ञानेनावृतं ज्ञानं विवेक-विज्ञानम्, तेन मुह्यन्ति करोमि कारयामि भोक्ष्ये भोजयामीत्य् एवं मोहं गच्छन्त्य् अविवेकिनः संसारिणो जन्तवः

nādatte na ca gṛhṇāti bhaktasyāpi kasyacit pāpam | na caivādatte sukṛtaṃ bhaktaiḥ prayuktaṃ vibhuḥ | kim-arthaṃ tarhi bhaktaiḥ pūjādi-lakṣaṇaṃ yāga-dāna-homādikaṃ ca sukṛtaṃ prayujyate ity āha - ajñānenāvṛtaṃ jñānaṃ viveka-vijñānam, tena muhyanti karomi kārayāmi bhokṣye bhojayāmīty evaṃ mohaṃ gacchanty avivekinaḥ saṃsāriṇo jantavaḥ

Sanskrit only: no published translation is held for this verse.

ज्ञानेन तु येन अज्ञानेन आवृताः मुह्यन्ति जन्तवस् तत् अज्ञानं येषां जन्तूनां विवेक-ज्ञानेन आत्म-विषयेण नाशितम् आत्मनो भवति, तेषां जन्तूनाम् आदित्यवत् यथादित्यः समस्तं रूप-जातम् अवभासयति तद्वत् ज्ञानं ज्ञेयं वस्तु सर्वं प्रकाशयति तत् परं परमार्थ-तत्त्वम्

jñānena tu yena ajñānena āvṛtāḥ muhyanti jantavas tat ajñānaṃ yeṣāṃ jantūnāṃ viveka-jñānena ātma-viṣayeṇa nāśitam ātmano bhavati, teṣāṃ jantūnām ādityavat yathādityaḥ samastaṃ rūpa-jātam avabhāsayati tadvat jñānaṃ jñeyaṃ vastu sarvaṃ prakāśayati tat paraṃ paramārtha-tattvam

Sanskrit only: no published translation is held for this verse.

तस्मिन् ब्रह्मणि गता बुद्धिर् येषां ते तद्-बुद्धयः, तद्-आत्मानस् तद् एव परं ब्रह्म आत्मा येषां ते तद्-आत्मनाः, तन्-निष्ठाः निष्ठा अभिनिवेशस् तात्पर्यं सर्वाणि कर्माणि संन्यस्य तस्मिन् ब्रह्मण्य् एव अवस्थानं येषां ते तन्-निष्ठाः, तत्-परायणा च तद् एव परम् अयनं परा गतिर् येषां भवति ते तत्-परायणाः केवलात्म-रतय इत्य् अर्थः । येषां ज्ञानेन नाशितम् आत्मनो ऽज्ञानं ते गच्छन्ति एवं-विद्याः अपुनर्-आवृत्तिम् अपुनर्-देह-संबन्धं ज्ञान-निर्धूत-कल्मषा यथोक्तेन ज्ञानेन निर्धूतो नाशितः कल्मषः पापादि-संसार-कारण-दोषो येषां ते ज्ञान-निर्धूत-कल्मषा यतयः इत्य् अर्थः

tasmin brahmaṇi gatā buddhir yeṣāṃ te tad-buddhayaḥ, tad-ātmānas tad eva paraṃ brahma ātmā yeṣāṃ te tad-ātmanāḥ, tan-niṣṭhāḥ niṣṭhā abhiniveśas tātparyaṃ sarvāṇi karmāṇi saṃnyasya tasmin brahmaṇy eva avasthānaṃ yeṣāṃ te tan-niṣṭhāḥ, tat-parāyaṇā ca tad eva param ayanaṃ parā gatir yeṣāṃ bhavati te tat-parāyaṇāḥ kevalātma-rataya ity arthaḥ | yeṣāṃ jñānena nāśitam ātmano 'jñānaṃ te gacchanti evaṃ-vidyāḥ apunar-āvṛttim apunar-deha-saṃbandhaṃ jñāna-nirdhūta-kalmaṣā yathoktena jñānena nirdhūto nāśitaḥ kalmaṣaḥ pāpādi-saṃsāra-kāraṇa-doṣo yeṣāṃ te jñāna-nirdhūta-kalmaṣā yatayaḥ ity arthaḥ

Sanskrit only: no published translation is held for this verse.

विद्या-विनय-संपन्ने विद्या च विनयश् च विद्या-विनयौ, विनय उपामः, ताभ्यां विद्या-विनयाभ्यां संपन्नो विद्या-विनय-संपन्नो विद्वान् विनीतश् च यो ब्राह्मणस् तस्मिन् ब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः । विद्या-विनय-संपन्ने उत्तम-संस्कारवति ब्राह्मणे सात्त्विके, मध्यमायां च राजस्यां गवि, संस्कार-हीनायाम् अत्यन्तम् एव केवल-तामसे हस्त्य्-आदौ च, सत्त्वादि-गुणैस् तज्-जैश् च संस्कारैस् तथा राजसैस् तथा तामसैश् च संस्कारैर् अत्यन्तम् एवास्पृष्टां समम् एकम् अविक्रियं तद् ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः सम-दर्शिनः

vidyā-vinaya-saṃpanne vidyā ca vinayaś ca vidyā-vinayau, vinaya upāmaḥ, tābhyāṃ vidyā-vinayābhyāṃ saṃpanno vidyā-vinaya-saṃpanno vidvān vinītaś ca yo brāhmaṇas tasmin brāhmaṇe gavi hastini śuni caiva śvapāke ca paṇḍitāḥ sama-darśinaḥ | vidyā-vinaya-saṃpanne uttama-saṃskāravati brāhmaṇe sāttvike, madhyamāyāṃ ca rājasyāṃ gavi, saṃskāra-hīnāyām atyantam eva kevala-tāmase hasty-ādau ca, sattvādi-guṇais taj-jaiś ca saṃskārais tathā rājasais tathā tāmasaiś ca saṃskārair atyantam evāspṛṣṭāṃ samam ekam avikriyaṃ tad brahma draṣṭuṃ śīlaṃ yeṣāṃ te paṇḍitāḥ sama-darśinaḥ

Sanskrit only: no published translation is held for this verse.

इहैव जीवद्भिरेव तैः समदर्शिभिः पण्डितैर् जितो वईकृतः सर्गो जन्म, येषां साम्ये सर्व-भूतेषु ब्रह्मणि समभावे स्थितं नि चलीभूतं मनो ऽन्तःकरणम् । निर्दोषं यद्यपि दोषवत्सु वपाकादिषु मूढैस् तद्दोषैर् दोषवत् इव विभाव्यते, तथापि तद्दोषैर् अस्पृष्टाम् इति निर्दोषं दोषवर्जितं हि यस्मात् । नापि स्वगुणभेदभिन्नम्, निर्गुणत्वात् चैतन्यस्य । वक्ष्यति च भगवान् इच्छादीनां क्षेत्रधर्मत्वम्, अनादित्वान्निर्गुणत्वात् इति च । नाप्य् अन्त्या विशेषाः आत्मनो भेदकाः सन्ति, प्रतिशरीरं तेषां सत्त्वे प्रमाणानुपपत्तेः । अतः समं ब्रह्म एकं च । तस्मात् ब्रह्मणि एव ते स्थिताः । तस्मात् न दोषगन्धमात्रमपि तान् स्पृअति, देहादिसंघातात्म-दर्शनाभिमानाभावात् तेषाम् । देहादिसंघातात्म-दर्शनाभिमानवद्विषयं तु तत् सूत्रम् समासमाभ्यां विषमसमे पूजातः इति, पूजाविषयत्वेन विशेषणात् । दृश्यते हि ब्रह्मवित् षडाङ्गवित् चतुर्वेदवित् इति पूजादानादौ गुणविशेषसंबन्धः कारणम् । ब्रह्म तु सर्वगुणदोषसंबन्धवर्जितमित्यतर् ब्रह्मणि ते स्थिताः इति युक्तम् । कर्मविषयं च समासमाभ्याम् इत्य् आदि । इदं तु सर्व-कर्म-संन्यासविषयं प्रस्तुतम्, सर्व-कर्माणि मनसा इत्यारभ्य आध्यायपरिसमाप्तेः

ihaiva jīvadbhireva taiḥ samadarśibhiḥ paṇḍitair jito vaīkṛtaḥ sargo janma, yeṣāṃ sāmye sarva-bhūteṣu brahmaṇi samabhāve sthitaṃ ni calībhūtaṃ mano 'ntaḥkaraṇam | nirdoṣaṃ yadyapi doṣavatsu vapākādiṣu mūḍhais taddoṣair doṣavat iva vibhāvyate, tathāpi taddoṣair aspṛṣṭām iti nirdoṣaṃ doṣavarjitaṃ hi yasmāt | nāpi svaguṇabhedabhinnam, nirguṇatvāt caitanyasya | vakṣyati ca bhagavān icchādīnāṃ kṣetradharmatvam, anāditvānnirguṇatvāt iti ca | nāpy antyā viśeṣāḥ ātmano bhedakāḥ santi, pratiśarīraṃ teṣāṃ sattve pramāṇānupapatteḥ | ataḥ samaṃ brahma ekaṃ ca | tasmāt brahmaṇi eva te sthitāḥ | tasmāt na doṣagandhamātramapi tān spṛati, dehādisaṃghātātma-darśanābhimānābhāvāt teṣām | dehādisaṃghātātma-darśanābhimānavadviṣayaṃ tu tat sūtram samāsamābhyāṃ viṣamasame pūjātaḥ iti, pūjāviṣayatvena viśeṣaṇāt | dṛśyate hi brahmavit ṣaḍāṅgavit caturvedavit iti pūjādānādau guṇaviśeṣasaṃbandhaḥ kāraṇam | brahma tu sarvaguṇadoṣasaṃbandhavarjitamityatar brahmaṇi te sthitāḥ iti yuktam | karmaviṣayaṃ ca samāsamābhyām ity ādi | idaṃ tu sarva-karma-saṃnyāsaviṣayaṃ prastutam, sarva-karmāṇi manasā ityārabhya ādhyāyaparisamāpteḥ

Sanskrit only: no published translation is held for this verse.

न प्रहृषेयेत् प्रहर्षं न कुर्यात् प्रियम् इष्टां प्राप्य लब्ध्वा । नोद्विजेत् प्राप्य चाप्रियम् अनिष्टां लब्ध्वा । देह-मात्रात्म-दर्शिनां हि प्रियाप्रिय-प्राप्ती हर्ष-विषादौ कुर्वाते, न केवलात्म-दर्शिनः, तस्य प्रियाप्रिय-प्राप्त्य्-असंभवात् । किं च - सर्व-भूतेष्व् एकः समो निर्दोष आत्मेति स्थिरा निर्विचिकित्सा बुद्धिर् यस्य स स्थिर-बुद्धिर् असंमूढः संमोह-वर्जितश् च स्यात् यथोक्त-ब्रह्मविद् ब्रह्मणि स्थितो ऽकर्म-कृत् सर्व-कर्म-संन्यासीत्य् अर्थः

na prahṛṣeyet praharṣaṃ na kuryāt priyam iṣṭāṃ prāpya labdhvā | nodvijet prāpya cāpriyam aniṣṭāṃ labdhvā | deha-mātrātma-darśināṃ hi priyāpriya-prāptī harṣa-viṣādau kurvāte, na kevalātma-darśinaḥ, tasya priyāpriya-prāpty-asaṃbhavāt | kiṃ ca - sarva-bhūteṣv ekaḥ samo nirdoṣa ātmeti sthirā nirvicikitsā buddhir yasya sa sthira-buddhir asaṃmūḍhaḥ saṃmoha-varjitaś ca syāt yathokta-brahmavid brahmaṇi sthito 'karma-kṛt sarva-karma-saṃnyāsīty arthaḥ

Sanskrit only: no published translation is held for this verse.

बाह्य-स्पर्शेषु बाह्या च ते स्पर्शाश् च बाह्य-स्पर्शाः । स्पृश्यन्ते इति स्पर्शाः शब्दादयो विषयास् तेषु बाह्य-स्पर्शेषु । असक्त आत्मा अन्तः-करणं यस्य सो ऽयम् असक्तात्मा विषयेषु प्रीति-वर्जितः सन् विन्दति लभते । आत्मनि यत् सुखं तद् विन्दतीत्य् एतत् । स ब्रह्म-योग-युक्तात्मा ब्रह्मणि योगः समाधिर् ब्रह्म-योगस् तेन ब्रह्म-योगेन युक्तः समाहितस् तस्मिन् व्यापृत आत्मा अन्तः-करणं यस्य स ब्रह्म-योग-युक्तात्मा । सुखम् अक्षयम् अश्नुते व्याप्नोति । तस्माद् बाह्य-विषय-प्रीतेः क्षणिकाया इन्द्रियाणि निवर्तयेद् आत्मन्य् अक्षय-सुखार्थीत्य् अर्थः

bāhya-sparśeṣu bāhyā ca te sparśāś ca bāhya-sparśāḥ | spṛśyante iti sparśāḥ śabdādayo viṣayās teṣu bāhya-sparśeṣu | asakta ātmā antaḥ-karaṇaṃ yasya so 'yam asaktātmā viṣayeṣu prīti-varjitaḥ san vindati labhate | ātmani yat sukhaṃ tad vindatīty etat | sa brahma-yoga-yuktātmā brahmaṇi yogaḥ samādhir brahma-yogas tena brahma-yogena yuktaḥ samāhitas tasmin vyāpṛta ātmā antaḥ-karaṇaṃ yasya sa brahma-yoga-yuktātmā | sukham akṣayam aśnute vyāpnoti | tasmād bāhya-viṣaya-prīteḥ kṣaṇikāyā indriyāṇi nivartayed ātmany akṣaya-sukhārthīty arthaḥ

Sanskrit only: no published translation is held for this verse.

ये हि यस्मात् संस्स्पर्शजा विषयेन्द्रिय-संस्पर्शेभ्यो जाता भोगा भुक्तयो दुःख-योनय एव ते, अविद्या-कृतत्वात् । दृश्यन्ते ह्य् आध्यात्मिकादीनि दुःखानि तन्-निमित्तान्य् एव । यथा इह-लोके तथा पर-लोके ऽपीति गम्यते एव-शब्दात् । न संसारे सुखस्य गन्ध-मात्रम् अप्य् अस्तीति बुद्ध्वा विषय-मृग-तृष्णिकाया इन्द्रियाणि निवर्तयेत् । न केवलं दुःख-योनय एव, आद्य्-अन्त-वन्तश् च, आदिर् विषयेन्द्रिय-संयोगो भोगानाम् अन्तश् च तद्-वियोग एव । अतः आद्य्-अन्त-वन्तो ऽनित्याः, मध्य-क्षण-भावित्वात् इत्य् अर्थः । कौन्तेय, न तेषु भोगेषु रमते बुधो विवेक्य् अवगत-परमार्थ-तत्त्वः । अत्यन्त-मूढानाम् एव हि विषयेषु रतिर् दृश्यते, यथा पशु-प्रभृतीनाम्

ye hi yasmāt saṃssparśajā viṣayendriya-saṃsparśebhyo jātā bhogā bhuktayo duḥkha-yonaya eva te, avidyā-kṛtatvāt | dṛśyante hy ādhyātmikādīni duḥkhāni tan-nimittāny eva | yathā iha-loke tathā para-loke 'pīti gamyate eva-śabdāt | na saṃsāre sukhasya gandha-mātram apy astīti buddhvā viṣaya-mṛga-tṛṣṇikāyā indriyāṇi nivartayet | na kevalaṃ duḥkha-yonaya eva, ādy-anta-vantaś ca, ādir viṣayendriya-saṃyogo bhogānām antaś ca tad-viyoga eva | ataḥ ādy-anta-vanto 'nityāḥ, madhya-kṣaṇa-bhāvitvāt ity arthaḥ | kaunteya, na teṣu bhogeṣu ramate budho viveky avagata-paramārtha-tattvaḥ | atyanta-mūḍhānām eva hi viṣayeṣu ratir dṛśyate, yathā paśu-prabhṛtīnām

Sanskrit only: no published translation is held for this verse.

शक्नोत्य् उत्सहत इहैव जीवन्न् एव यः सोढुं प्रसहितुं प्राक् पूर्वम् शरीरविमोक्षणात् आ मरणात् इत्य् अर्थः । मरण-सीमा-करणं जीवतो ऽवयंभावि हि काम-क्रोधोद्भवो वेगः, अनन्तनिमित्तवान् हि सः इति यावत् मरणं तावत् न विस्राम्भणीय इत्य् अर्थः । कामः इन्द्रियगोचरप्राप्ते इष्टो विषये श्रूयमाणे स्मर्यमाणे वा अनुभूते सुखहेतौ या गङ्धस् तृष्णा स कामः । क्रोधश् चात्मनः प्रतिकूलेषु दुःख-हेतुषु दृयमानेषु श्रूयमाणेषु स्मर्यमाणेषु वा यो द्वेषः स क्रोधः । तौ काम-क्रोधाव् उद्भवो यस्य वेगस्य स काम-क्रोधोद्भवो वेगः । रोमाञ्चन-प्रहृष्ट-नेत्र-वदनादि-लिङ्गो ऽन्तः-करण-प्रक्षोभ-रूपः कामोद्भवो वेगः । गात्र-प्रकम्प-प्रस्वेद-संदष्टौष्ठ-पुट-रक्त-नेत्रादि-लिङ्गः क्रोधोद्भवो वेगः । तं काम-क्रोधोद्भवं वेगं य उत्सहते प्रसहते सोढुं प्रसहितुम्, सो युक्तो योगी सुखी चेह लोके नरः ॥

śaknoty utsahata ihaiva jīvann eva yaḥ soḍhuṃ prasahituṃ prāk pūrvam śarīravimokṣaṇāt ā maraṇāt ity arthaḥ | maraṇa-sīmā-karaṇaṃ jīvato 'vayaṃbhāvi hi kāma-krodhodbhavo vegaḥ, anantanimittavān hi saḥ iti yāvat maraṇaṃ tāvat na visrāmbhaṇīya ity arthaḥ | kāmaḥ indriyagocaraprāpte iṣṭo viṣaye śrūyamāṇe smaryamāṇe vā anubhūte sukhahetau yā gaṄdhas tṛṣṇā sa kāmaḥ | krodhaś cātmanaḥ pratikūleṣu duḥkha-hetuṣu dṛyamāneṣu śrūyamāṇeṣu smaryamāṇeṣu vā yo dveṣaḥ sa krodhaḥ | tau kāma-krodhāv udbhavo yasya vegasya sa kāma-krodhodbhavo vegaḥ | romāñcana-prahṛṣṭa-netra-vadanādi-liṅgo 'ntaḥ-karaṇa-prakṣobha-rūpaḥ kāmodbhavo vegaḥ | gātra-prakampa-prasveda-saṃdaṣṭauṣṭha-puṭa-rakta-netrādi-liṅgaḥ krodhodbhavo vegaḥ | taṃ kāma-krodhodbhavaṃ vegaṃ ya utsahate prasahate soḍhuṃ prasahitum, so yukto yogī sukhī ceha loke naraḥ ||

Sanskrit only: no published translation is held for this verse.

यो ऽन्तः-सुखो ऽन्तर् आत्मनि सुखं यस्य सो ऽन्तः-सुखः, तथान्तर् एवात्मन्य् आराम आरमणम् आक्रीडा यस्य सो ऽन्तर्-आरामः । तथैवान्तर् एव आत्मन्य् एव ज्योतिः प्रकाशो यस्य सो ऽन्तर्-ज्योतिर् एव, य ईदृशः सो योगी ब्रह्म-निर्वाणं ब्रह्मणि निर्वृतिं मोक्षम् इह जीवन्न् एव ब्रह्म-भूतः सन्न् अधिगच्छति प्राप्नोति

yo 'ntaḥ-sukho 'ntar ātmani sukhaṃ yasya so 'ntaḥ-sukhaḥ, tathāntar evātmany ārāma āramaṇam ākrīḍā yasya so 'ntar-ārāmaḥ | tathaivāntar eva ātmany eva jyotiḥ prakāśo yasya so 'ntar-jyotir eva, ya īdṛśaḥ so yogī brahma-nirvāṇaṃ brahmaṇi nirvṛtiṃ mokṣam iha jīvann eva brahma-bhūtaḥ sann adhigacchati prāpnoti

Sanskrit only: no published translation is held for this verse.

लभन्ते ब्रह्म-निर्वाणं मोक्षम् ऋषयः सम्यग्-दर्शिनः संन्यासिनः क्षीण-कल्मषाः क्षीण-पापा निर्दोषाश् छिन्न-द्वैधाः छिन्न-संशया यतात्मानः संयतेन्द्रियाः सर्व-भूत-हिते रताः सर्वेषां भूतानां हिते आनुकूल्ये रता अहिंसका इत्य् अर्थः

labhante brahma-nirvāṇaṃ mokṣam ṛṣayaḥ samyag-darśinaḥ saṃnyāsinaḥ kṣīṇa-kalmaṣāḥ kṣīṇa-pāpā nirdoṣāś chinna-dvaidhāḥ chinna-saṃśayā yatātmānaḥ saṃyatendriyāḥ sarva-bhūta-hite ratāḥ sarveṣāṃ bhūtānāṃ hite ānukūlye ratā ahiṃsakā ity arthaḥ

Sanskrit only: no published translation is held for this verse.

काम-क्रोध-वियुक्तानां कामश् च क्रोधश् च काम-क्रोधौ ताभ्यां वियुक्तानां यतीनां संन्यासिनां यत-चेतसां संयतान्तः-करणानाम् अभित उभयतो जीवतां मृतानां च ब्रह्म-निर्वाणं मोक्षो वर्तते विदितात्मनां विदितो ज्ञात आत्मा येषां ते विदितात्मनां तेषां विदितात्मनां सम्यग्-दर्शिनाम् इत्य् अर्थः

kāma-krodha-viyuktānāṃ kāmaś ca krodhaś ca kāma-krodhau tābhyāṃ viyuktānāṃ yatīnāṃ saṃnyāsināṃ yata-cetasāṃ saṃyatāntaḥ-karaṇānām abhita ubhayato jīvatāṃ mṛtānāṃ ca brahma-nirvāṇaṃ mokṣo vartate viditātmanāṃ vidito jñāta ātmā yeṣāṃ te viditātmanāṃ teṣāṃ viditātmanāṃ samyag-darśinām ity arthaḥ

Sanskrit only: no published translation is held for this verse.

एवं समाहित-चित्तेन किं विज्ञेयम् इत्य् उच्यते । भोक्तारं यज्ञ-तपसां यज्ञानां तपसां च कर्तृ-रूपेण देवता-रूपेण च, सर्व-लोक-महेश्वरं सर्वेषां लोकानां महान्तम् ईश्वरं सुहृदं सर्व-भूतानां सर्व-प्राणिनां प्रत्युपकार-निरपेक्षतया उपकारिणं सर्व-भूतानां हृदयेशयं सर्व-कर्म-फलाध्यक्षं सर्व-प्रत्यय-साक्षिणं मां नारायणं ज्ञात्वा शान्तिं सर्व-संसारोपरतिम् ऋच्छति प्राप्नोति

evaṃ samāhita-cittena kiṃ vijñeyam ity ucyate | bhoktāraṃ yajña-tapasāṃ yajñānāṃ tapasāṃ ca kartṛ-rūpeṇa devatā-rūpeṇa ca, sarva-loka-maheśvaraṃ sarveṣāṃ lokānāṃ mahāntam īśvaraṃ suhṛdaṃ sarva-bhūtānāṃ sarva-prāṇināṃ pratyupakāra-nirapekṣatayā upakāriṇaṃ sarva-bhūtānāṃ hṛdayeśayaṃ sarva-karma-phalādhyakṣaṃ sarva-pratyaya-sākṣiṇaṃ māṃ nārāyaṇaṃ jñātvā śāntiṃ sarva-saṃsāroparatim ṛcchati prāpnoti

Sanskrit only: no published translation is held for this verse.