तत्र तस्मिन्न् आसन उपविश्य योगं युञ्ज्यात् । कथम् ? सर्व-विषयेभ्य उपसंहृत्य एकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियश् चित्तं चेन्द्रियाणि च चित्तेन्द्रियाणि तेषां क्रियाः संयता यस्य स यत-चित्तेन्द्रिय-क्रियः । स किम्-अर्थं योगं युञ्ज्याद् इत्य् आह - आत्म-विशुद्धये ऽन्तः-करणस्य विशुद्ध्य्-अर्थम् इत्य् एतत्
tatra tasminn āsana upaviśya yogaṃ yuñjyāt | katham ? sarva-viṣayebhya upasaṃhṛtya ekāgraṃ manaḥ kṛtvā yata-cittendriya-kriyaś cittaṃ cendriyāṇi ca cittendriyāṇi teṣāṃ kriyāḥ saṃyatā yasya sa yata-cittendriya-kriyaḥ | sa kim-arthaṃ yogaṃ yuñjyād ity āha - ātma-viśuddhaye 'ntaḥ-karaṇasya viśuddhy-artham ity etat
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.