चञ्चलं हि मनः । कृष्णेति कृषतेर् विलेखनार्थस्य रूपम् । भक्त-जन-पापादि-दोषाकर्षाणात् कृष्णः, तस्य संबुद्धिः हे कृष्ण । हि यस्मात् मनश् चञ्चलं न केवलम् अत्यर्थं चञ्चलम्, प्रमाथि च प्रमथन-शीलम्, प्रमथ्नाति शरीरम् इन्द्रियाणि च विक्षिपत् सत् पर-वशीकरोति । किं च - बलवत् प्रबलम्, न केनचित् नियन्तुं शक्यम्, दुर्निवारत्वात् । किं च - दृढं तन्तु-नाग-वद् अच्छेद्यम् । तस्य एवंभूतस्य मनसो ऽहं निग्रहं निरोधं मन्ये वायोर् इव यथा वायोर् दुष्करो निग्रहस् ततो ऽपि दुष्करं मन्ये इत्य् अभिप्रायः
cañcalaṃ hi manaḥ | kṛṣṇeti kṛṣater vilekhanārthasya rūpam | bhakta-jana-pāpādi-doṣākarṣāṇāt kṛṣṇaḥ, tasya saṃbuddhiḥ he kṛṣṇa | hi yasmāt manaś cañcalaṃ na kevalam atyarthaṃ cañcalam, pramāthi ca pramathana-śīlam, pramathnāti śarīram indriyāṇi ca vikṣipat sat para-vaśīkaroti | kiṃ ca - balavat prabalam, na kenacit niyantuṃ śakyam, durnivāratvāt | kiṃ ca - dṛḍhaṃ tantu-nāga-vad acchedyam | tasya evaṃbhūtasya manaso 'haṃ nigrahaṃ nirodhaṃ manye vāyor iva yathā vāyor duṣkaro nigrahas tato 'pi duṣkaraṃ manye ity abhiprāyaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.