देवा ऊचुः: शक्रादयो ऽपि त्रिदशाः कटाक्षम् ब्र्प् १०९।४१अ अवेक्ष्य यस्यास् तप आचरन्ति ब्र्प् १०९।४१ब् सा चापि यत्पादरता च लक्ष्मीस् ब्र्प् १०९।४१च् तं ब्रह्मभूतं शरणं प्रपद्ये ब्र्प् १०९।४१द् यस्मात् त्रिलोक्यां न परः समानो ब्र्प् १०९।४२अ न चाधिकस् तार्क्ष्यरथान् नृसिंहात् ब्र्प् १०९।४२ब् स देवदेवो ऽवतु नः समस्तान् ब्र्प् १०९।४२च् महाभयेभ्यः कृपया प्रपन्नान् ब्र्प् १०९।४२द् ब्रह्मोवाच: ततः प्रसन्नो भगवाञ् शङ्खचक्रगदाधरः । किमर्थम् आगताः सर्वे तत्कर्तास्मीत्य् उवाच तान्
devā ūcuḥ: śakrādayo 'pi tridaśāḥ kaṭākṣam BrP 109.41a avekṣya yasyās tapa ācaranti BrP 109.41b sā cāpi yatpādaratā ca lakṣmīs BrP 109.41c taṃ brahmabhūtaṃ śaraṇaṃ prapadye BrP 109.41d yasmāt trilokyāṃ na paraḥ samāno BrP 109.42a na cādhikas tārkṣyarathān nṛsiṃhāt BrP 109.42b sa devadevo 'vatu naḥ samastān BrP 109.42c mahābhayebhyaḥ kṛpayā prapannān BrP 109.42d brahmovāca: tataḥ prasanno bhagavāñ śaṅkhacakragadādharaḥ / kimartham āgatāḥ sarve tatkartāsmīty uvāca tān
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.