पपौ स्तनं मातुर् अथापि तृप्तो ब्र्प् ११४।११अ यो भ्रातृमात्सर्यकषायबुद्धिः ब्र्प् ११४।११ब् लम्बोदरस् त्वं भव विघ्नराजो ब्र्प् ११४।११च् लम्बोदरं नाम चकार शंभुः ब्र्प् ११४।११द् संवेष्टितो देवगणैर् महेशः ब्र्प् ११४।१२अ प्रवर्ततां नृत्यम् इतीत्य् उवाच ब्र्प् ११४।१२ब् संतोषितो नूपुररावमात्राद् ब्र्प् ११४।१२च् गणेश्वरत्वे ऽभिषिषेच पुत्रम् ब्र्प् ११४।१२द् यो विघ्नपाशं च करेण बिभ्रत् ब्र्प् ११४।१३अ स्कन्धे कुठारं च तथा परेण ब्र्प् ११४।१३ब् अपूजितो विघ्नम् अथो ऽपि मातुः ब्र्प् ११४।१३च् करोति को विघ्नपतेः समो ऽन्यः ब्र्प् ११४।१३द् धर्मार्थकामादिषु पूर्वपूज्यो ब्र्प् ११४।१४अ देवासुरैः पूज्यत एव नित्यम् ब्र्प् ११४।१४ब् यस्यार्चनं नैव विनाशम् अस्ति ब्र्प् ११४।१४च् तं पूर्वपूज्यं प्रथमं नमामि ब्र्प् ११४।१४द् यस्यार्चनात् प्रार्थनयानुरूपां ब्र्प् ११४।१५अ दृष्ट्वा तु सर्वस्य फलस्य सिद्धिम् ब्र्प् ११४।१५ब् स्वतन्त्रसामर्थ्यकृतातिगर्वं ब्र्प् ११४।१५च् भ्रातृप्रियं त्व् आखुरथं तम् ईडे ब्र्प् ११४।१५द् यो मातरं सरसैर् नृत्यगीतैस् ब्र्प् ११४।१६अ तथाभिलाषैर् अखिलैर् विनोदैः ब्र्प् ११४।१६ब् संतोषयाम् आस तदातितुष्टं ब्र्प् ११४।१६च् तं श्रीगणेशं शरणं प्रपद्ये ब्र्प् ११४।१६द् सुरोपकारैर् असुरैश् च युद्धैः ब्र्प् ११४।१७अ स्तोत्रैर् नमस्कारपरैश् च मन्त्रैः ब्र्प् ११४।१७ब् पितृप्रसादेन सदा समृद्धं ब्र्प् ११४।१७च् तं श्रीगणेशं शरणं प्रपद्ये ब्र्प् ११४।१७द् जये पुराणाम् अकरोत् प्रतीपं ब्र्प् ११४।१८अ पित्रापि हर्षात् प्रतिपूजितो यः ब्र्प् ११४।१८ब् निर्विघ्नतां चापि पुनश् चकार ब्र्प् ११४।१८च् तस्मै गणेशाय नमस्करोमि ब्र्प् ११४।१८द् ब्रह्मोवाच: इति स्तुतः सुरगणैर् विघ्नेशः प्राह तान् पुनः ॥* ब्र्प् ११४।१९ ॥ गणेश उवाच: इतो निर्विघ्नता सत्त्रे मत्तः स्याद् असुरारिणः ॥* ब्र्प् ११४।२० ॥ ब्रह्मोवाच: देवसत्त्रे निवृत्ते तु गणेशः प्राह तान् सुरान् ॥* ब्र्प् ११४।२१ ॥ गणेश उवाच: स्तोत्रेणानेन ये भक्त्या मां स्तोष्यन्ति यतव्रताः । तेषां दारिद्र्यदुःखानि न भवेयुः कदाचन
papau stanaṃ mātur athāpi tṛpto BrP 114.11a yo bhrātṛmātsaryakaṣāyabuddhiḥ BrP 114.11b lambodaras tvaṃ bhava vighnarājo BrP 114.11c lambodaraṃ nāma cakāra śaṃbhuḥ BrP 114.11d saṃveṣṭito devagaṇair maheśaḥ BrP 114.12a pravartatāṃ nṛtyam itīty uvāca BrP 114.12b saṃtoṣito nūpurarāvamātrād BrP 114.12c gaṇeśvaratve 'bhiṣiṣeca putram BrP 114.12d yo vighnapāśaṃ ca kareṇa bibhrat BrP 114.13a skandhe kuṭhāraṃ ca tathā pareṇa BrP 114.13b apūjito vighnam atho 'pi mātuḥ BrP 114.13c karoti ko vighnapateḥ samo 'nyaḥ BrP 114.13d dharmārthakāmādiṣu pūrvapūjyo BrP 114.14a devāsuraiḥ pūjyata eva nityam BrP 114.14b yasyārcanaṃ naiva vināśam asti BrP 114.14c taṃ pūrvapūjyaṃ prathamaṃ namāmi BrP 114.14d yasyārcanāt prārthanayānurūpāṃ BrP 114.15a dṛṣṭvā tu sarvasya phalasya siddhim BrP 114.15b svatantrasāmarthyakṛtātigarvaṃ BrP 114.15c bhrātṛpriyaṃ tv ākhurathaṃ tam īḍe BrP 114.15d yo mātaraṃ sarasair nṛtyagītais BrP 114.16a tathābhilāṣair akhilair vinodaiḥ BrP 114.16b saṃtoṣayām āsa tadātituṣṭaṃ BrP 114.16c taṃ śrīgaṇeśaṃ śaraṇaṃ prapadye BrP 114.16d suropakārair asuraiś ca yuddhaiḥ BrP 114.17a stotrair namaskāraparaiś ca mantraiḥ BrP 114.17b pitṛprasādena sadā samṛddhaṃ BrP 114.17c taṃ śrīgaṇeśaṃ śaraṇaṃ prapadye BrP 114.17d jaye purāṇām akarot pratīpaṃ BrP 114.18a pitrāpi harṣāt pratipūjito yaḥ BrP 114.18b nirvighnatāṃ cāpi punaś cakāra BrP 114.18c tasmai gaṇeśāya namaskaromi BrP 114.18d brahmovāca: iti stutaḥ suragaṇair vighneśaḥ prāha tān punaḥ //* BrP 114.19 // gaṇeśa uvāca: ito nirvighnatā sattre mattaḥ syād asurāriṇaḥ //* BrP 114.20 // brahmovāca: devasattre nivṛtte tu gaṇeśaḥ prāha tān surān //* BrP 114.21 // gaṇeśa uvāca: stotreṇānena ye bhaktyā māṃ stoṣyanti yatavratāḥ / teṣāṃ dāridryaduḥkhāni na bhaveyuḥ kadācana
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.