ब्रह्मोवाच: आत्मतीर्थम् इति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् । तस्य प्रभावं वक्ष्यामि यत्र ज्ञानेश्वरः शिवः
brahmovāca: ātmatīrtham iti khyātaṃ bhuktimuktipradaṃ nṛṇām / tasya prabhāvaṃ vakṣyāmi yatra jñāneśvaraḥ śivaḥ
Sanskrit only: no published translation is held for this verse.
दत्त इत्य् अपि विख्यातः सो ऽत्रिपुत्रो हरप्रियः । दुर्वाससः प्रियो भ्राता सर्वज्ञानविशारदः । स गत्वा पितरं प्राह विनयेन प्रणम्य च
datta ity api vikhyātaḥ so 'triputro harapriyaḥ / durvāsasaḥ priyo bhrātā sarvajñānaviśāradaḥ / sa gatvā pitaraṃ prāha vinayena praṇamya ca
Sanskrit only: no published translation is held for this verse.
दत्त उवाच: ब्रह्मज्ञानं कथं मे स्यात् कं पृच्छामि क्व यामि च ॥* ब्र्प् ११७।३ ॥ ब्रह्मोवाच: तच् छ्रुत्वात्रिः पुत्रवाक्यं ध्यात्वा वचनम् अब्रवीत् ॥* ब्र्प् ११७।४ ॥ अत्रिर् उवाच: गौतमीं पुत्र गच्छ त्वं तत्र स्तुहि महेश्वरम् । स तु प्रीतो यदैव स्यात् तदा ज्ञानम् अवाप्स्यसि
datta uvāca: brahmajñānaṃ kathaṃ me syāt kaṃ pṛcchāmi kva yāmi ca //* BrP 117.3 // brahmovāca: tac chrutvātriḥ putravākyaṃ dhyātvā vacanam abravīt //* BrP 117.4 // atrir uvāca: gautamīṃ putra gaccha tvaṃ tatra stuhi maheśvaram / sa tu prīto yadaiva syāt tadā jñānam avāpsyasi
Sanskrit only: no published translation is held for this verse.
ब्रह्मोवाच: तथेत्य् उक्त्वा तदात्रेयो गङ्गां गत्वा शुचिर् यतः । कृताञ्जलिपुटो भूत्वा भक्त्या तुष्टाव शंकरम्
brahmovāca: tathety uktvā tadātreyo gaṅgāṃ gatvā śucir yataḥ / kṛtāñjalipuṭo bhūtvā bhaktyā tuṣṭāva śaṃkaram
Sanskrit only: no published translation is held for this verse.
तप्तो ऽस्मि पञ्चेन्द्रियतीव्रतापैः ब्र्प् ११७।८च् श्रान्तो ऽस्मि संतारय सोमनाथ ब्र्प् ११७।८द् बद्धो ऽस्मि दारिद्र्यमयैश् च बन्धैर् ब्र्प् ११७।९अ हतो ऽस्मि रोगानलतीव्रतापैः ब्र्प् ११७।९ब् क्रान्तो ऽस्म्य् अहं मृत्युभुजंगमेन ब्र्प् ११७।९च् भीतो भृशं किं करवाणि शंभो ब्र्प् ११७।९द् भवाभवाभ्याम् अतिपीडितो ऽहं ब्र्प् ११७।१०अ तृष्णाक्षुधाभ्यां च रजस्तमोभ्याम् ब्र्प् ११७।१०ब् ईदृक्षया जरया चाभिभूतः ब्र्प् ११७।१०च् पश्यावस्थां कृपया मे ऽद्य नाथ ब्र्प् ११७।१०द् कामेन कोपेन च मत्सरेण ब्र्प् ११७।११अ दम्भेन दर्पादिभिर् अप्य् अनेकैः ब्र्प् ११७।११ब् एकैकशः कष्टगतो ऽस्मि विद्धस् ब्र्प् ११७।११च् त्वं नाथवद् वारय नाथ शत्रून् ब्र्प् ११७।११द् कस्यापि कश्चित् पतितस्य पुंसो ब्र्प् ११७।१२अ दुःखप्रणोदी भवतीति सत्यम् ब्र्प् ११७।१२ब् विना भवन्तं मम सोमनाथ ब्र्प् ११७।१२च् कुत्रापि कारुण्यवचो ऽपि नास्ति ब्र्प् ११७।१२द् तावत् स कोपो भयमोहदुःखान्य् ब्र्प् ११७।१३अ अज्ञानदारिद्र्यरुजस् तथैव ब्र्प् ११७।१३ब् कामादयो मृत्युर् अपीह यावन् ब्र्प् ११७।१३च् नमः शिवायेति न वच्मि वाक्यम् ब्र्प् ११७।१३द् न मे ऽस्ति धर्मो न च मे ऽस्ति भक्तिर् ब्र्प् ११७।१४अ नाहं विवेकी करुणा कुतो मे ब्र्प् ११७।१४ब् दातासि तेनाशु शरण्य चित्ते ब्र्प् ११७।१४च् निधेहि सोमेति पदं मदीये ब्र्प् ११७।१४द् याचे न चाहं सुरभूपतित्वं ब्र्प् ११७।१५अ हृत्पद्ममध्ये मम सोमनाथ ब्र्प् ११७।१५ब् श्रीसोमपादाम्बुजसंनिधानं ब्र्प् ११७।१५च् याचे विचार्यैव च तत् कुरुष्व ब्र्प् ११७।१५द् यथा तवाहं विदितो ऽस्मि पापस् ब्र्प् ११७।१६अ तथापि विज्ञापनम् आशृणुष्व ब्र्प् ११७।१६ब् संश्रूयते यत्र वचः शिवेति ब्र्प् ११७।१६च् तत्र स्थितिः स्यान् मम सोमनाथ ब्र्प् ११७।१६द् गौरीपते शंकर सोमनाथ ब्र्प् ११७।१७अ विश्वेश कारुण्यनिधे ऽखिलात्मन् ब्र्प् ११७।१७ब् संस्तूयते यत्र सदेति तत्र ब्र्प् ११७।१७च् केषाम् अपि स्यात् कृतिनां निवासः ब्र्प् ११७।१७द् ब्रह्मोवाच: इत्य् आत्रेयस्तुतिं श्रुत्वा तुतोष भगवान् हरः । वरदो ऽस्मीति तं प्राह योगिनं विश्वकृद् भवः
tapto 'smi pañcendriyatīvratāpaiḥ BrP 117.8c śrānto 'smi saṃtāraya somanātha BrP 117.8d baddho 'smi dāridryamayaiś ca bandhair BrP 117.9a hato 'smi rogānalatīvratāpaiḥ BrP 117.9b krānto 'smy ahaṃ mṛtyubhujaṃgamena BrP 117.9c bhīto bhṛśaṃ kiṃ karavāṇi śaṃbho BrP 117.9d bhavābhavābhyām atipīḍito 'haṃ BrP 117.10a tṛṣṇākṣudhābhyāṃ ca rajastamobhyām BrP 117.10b īdṛkṣayā jarayā cābhibhūtaḥ BrP 117.10c paśyāvasthāṃ kṛpayā me 'dya nātha BrP 117.10d kāmena kopena ca matsareṇa BrP 117.11a dambhena darpādibhir apy anekaiḥ BrP 117.11b ekaikaśaḥ kaṣṭagato 'smi viddhas BrP 117.11c tvaṃ nāthavad vāraya nātha śatrūn BrP 117.11d kasyāpi kaścit patitasya puṃso BrP 117.12a duḥkhapraṇodī bhavatīti satyam BrP 117.12b vinā bhavantaṃ mama somanātha BrP 117.12c kutrāpi kāruṇyavaco 'pi nāsti BrP 117.12d tāvat sa kopo bhayamohaduḥkhāny BrP 117.13a ajñānadāridryarujas tathaiva BrP 117.13b kāmādayo mṛtyur apīha yāvan BrP 117.13c namaḥ śivāyeti na vacmi vākyam BrP 117.13d na me 'sti dharmo na ca me 'sti bhaktir BrP 117.14a nāhaṃ vivekī karuṇā kuto me BrP 117.14b dātāsi tenāśu śaraṇya citte BrP 117.14c nidhehi someti padaṃ madīye BrP 117.14d yāce na cāhaṃ surabhūpatitvaṃ BrP 117.15a hṛtpadmamadhye mama somanātha BrP 117.15b śrīsomapādāmbujasaṃnidhānaṃ BrP 117.15c yāce vicāryaiva ca tat kuruṣva BrP 117.15d yathā tavāhaṃ vidito 'smi pāpas BrP 117.16a tathāpi vijñāpanam āśṛṇuṣva BrP 117.16b saṃśrūyate yatra vacaḥ śiveti BrP 117.16c tatra sthitiḥ syān mama somanātha BrP 117.16d gaurīpate śaṃkara somanātha BrP 117.17a viśveśa kāruṇyanidhe 'khilātman BrP 117.17b saṃstūyate yatra sadeti tatra BrP 117.17c keṣām api syāt kṛtināṃ nivāsaḥ BrP 117.17d brahmovāca: ity ātreyastutiṃ śrutvā tutoṣa bhagavān haraḥ / varado 'smīti taṃ prāha yoginaṃ viśvakṛd bhavaḥ
Sanskrit only: no published translation is held for this verse.
आत्रेय उवाच: आत्मज्ञानं च मुक्तिं च भुक्तिं च विपुलां त्वयि । तीर्थस्यापि च माहात्म्यं वरो ऽयं त्रिदशार्चित
ātreya uvāca: ātmajñānaṃ ca muktiṃ ca bhuktiṃ ca vipulāṃ tvayi / tīrthasyāpi ca māhātmyaṃ varo 'yaṃ tridaśārcita
Sanskrit only: no published translation is held for this verse.
ब्रह्मोवाच: एवम् अस्त्व् इति तं शंभुर् उक्त्वा चान्तरधीयत । ततः प्रभृति तत् तीर्थम् आत्मतीर्थं विदुर् बुधाः । तत्र स्नानेन दानेन मुक्तिः स्याद् इह नारद
brahmovāca: evam astv iti taṃ śaṃbhur uktvā cāntaradhīyata / tataḥ prabhṛti tat tīrtham ātmatīrthaṃ vidur budhāḥ / tatra snānena dānena muktiḥ syād iha nārada
Sanskrit only: no published translation is held for this verse.