अन्योन्यरेतोव्यतिषङ्गदोषाद् ब्र्प् १२८।२९अ अग्नेर् अपत्यम् उभयं तथैव ब्र्प् १२८।२९ब् पुत्रः सुवर्णो बहुरूपरूपी ब्र्प् १२८।२९च् रूपाणि कृत्वा सुरसत्तमानाम् ब्र्प् १२८।२९द् इन्द्रस्य वायोर् धनदस्य भार्यां ब्र्प् १२८।३०अ जलेश्वरस्यापि मुनीश्वराणाम् ब्र्प् १२८।३०ब् भार्यास् तु गच्छत्य् अनिशं सुवर्णो ब्र्प् १२८।३०च् यस्याः प्रियं यच् च वपुः स कृत्वा ब्र्प् १२८।३०द् याति क्वचिच् चापि कवेस् तनूजस् ब्र्प् १२८।३१अ तद्भर्तृरूपं च पतिव्रतासु ब्र्प् १२८।३१ब् कृत्वानिशं ताभिर् उदारभावः ब्र्प् १२८।३१च् कुर्वन् कृतार्थं मदनं स रेमे ब्र्प् १२८।३१द् कृत्वा गता क्वापि चैवं सुवर्णा ब्र्प् १२८।३२अ धर्मस्य भार्यापि सुवर्णनाम्नी ब्र्प् १२८।३२ब् स्वाहासुता स्वैरिणी सा बभूव ब्र्प् १२८।३२च् यस्यापि यस्यापि मनोगता या ब्र्प् १२८।३२द् भार्यास्वरूपा सैव भूत्वा सुवर्णा ब्र्प् १२८।३३अ रेमे पतीन् मानुषान् आसुरांश् च ब्र्प् १२८।३३ब् देवान् ऋषीन् पितृरूपांस् तथान्यान् ब्र्प् १२८।३३च् रूपौदार्यस्थैर्यगाम्भीर्ययुक्तान् ब्र्प् १२८।३३द् याभिप्रेता यस्य देवस्य भार्या ब्र्प् १२८।३४अ तद्रूपा सा रमते तेन सार्धम् ब्र्प् १२८।३४ब् नानाभेदैः करणैश् चाप्य् अनेकैर् ब्र्प् १२८।३४च् आकर्षन्ती तन्मनः कामसिद्धिम् ब्र्प् १२८।३४द् एवं सुवर्णस्य निरीक्ष्य चेष्टाम् ब्र्प् १२८।३५अ अग्नेः सूनोः पुत्रिकायास् तथाग्नेः ब्र्प् १२८।३५ब् सर्वे च शेपुः कुपितास् तदाग्नेः ब्र्प् १२८।३५च् पुत्रं च पुत्रीं च सुरासुरास् ते ब्र्प् १२८।३५द् सुरासुरा ऊचुः: कृतं यद् एतद् व्यभिचाररूपं ब्र्प् १२८।३६अ यच् छद्मना वर्तनं पापरूपम् ब्र्प् १२८।३६ब् तस्मात् सुतस् ते व्यभिचारवांश् च ब्र्प् १२८।३६च् सर्वत्र गामी जायतां हव्यवाह ब्र्प् १२८।३६द् तथा सुवर्णापि न चैकनिष्ठा ब्र्प् १२८।३७अ भूयाद् अग्ने नैकतृप्ता बहूंश् च ब्र्प् १२८।३७ब् नानाजातीन् निन्दितान् देहभाजो ब्र्प् १२८।३७च् भजित्री स्याद् एष दोषश् च पुत्र्याः ब्र्प् १२८।३७द् ब्रह्मोवाच: इत्य् एतच् छापवचनं श्रुत्वाग्निर् अतिभीतवत् । माम् अभ्येत्य तदोवाच निष्कृतिं वद पुत्रयोः
anyonyaretovyatiṣaṅgadoṣād BrP 128.29a agner apatyam ubhayaṃ tathaiva BrP 128.29b putraḥ suvarṇo bahurūparūpī BrP 128.29c rūpāṇi kṛtvā surasattamānām BrP 128.29d indrasya vāyor dhanadasya bhāryāṃ BrP 128.30a jaleśvarasyāpi munīśvarāṇām BrP 128.30b bhāryās tu gacchaty aniśaṃ suvarṇo BrP 128.30c yasyāḥ priyaṃ yac ca vapuḥ sa kṛtvā BrP 128.30d yāti kvacic cāpi kaves tanūjas BrP 128.31a tadbhartṛrūpaṃ ca pativratāsu BrP 128.31b kṛtvāniśaṃ tābhir udārabhāvaḥ BrP 128.31c kurvan kṛtārthaṃ madanaṃ sa reme BrP 128.31d kṛtvā gatā kvāpi caivaṃ suvarṇā BrP 128.32a dharmasya bhāryāpi suvarṇanāmnī BrP 128.32b svāhāsutā svairiṇī sā babhūva BrP 128.32c yasyāpi yasyāpi manogatā yā BrP 128.32d bhāryāsvarūpā saiva bhūtvā suvarṇā BrP 128.33a reme patīn mānuṣān āsurāṃś ca BrP 128.33b devān ṛṣīn pitṛrūpāṃs tathānyān BrP 128.33c rūpaudāryasthairyagāmbhīryayuktān BrP 128.33d yābhipretā yasya devasya bhāryā BrP 128.34a tadrūpā sā ramate tena sārdham BrP 128.34b nānābhedaiḥ karaṇaiś cāpy anekair BrP 128.34c ākarṣantī tanmanaḥ kāmasiddhim BrP 128.34d evaṃ suvarṇasya nirīkṣya ceṣṭām BrP 128.35a agneḥ sūnoḥ putrikāyās tathāgneḥ BrP 128.35b sarve ca śepuḥ kupitās tadāgneḥ BrP 128.35c putraṃ ca putrīṃ ca surāsurās te BrP 128.35d surāsurā ūcuḥ: kṛtaṃ yad etad vyabhicārarūpaṃ BrP 128.36a yac chadmanā vartanaṃ pāparūpam BrP 128.36b tasmāt sutas te vyabhicāravāṃś ca BrP 128.36c sarvatra gāmī jāyatāṃ havyavāha BrP 128.36d tathā suvarṇāpi na caikaniṣṭhā BrP 128.37a bhūyād agne naikatṛptā bahūṃś ca BrP 128.37b nānājātīn ninditān dehabhājo BrP 128.37c bhajitrī syād eṣa doṣaś ca putryāḥ BrP 128.37d brahmovāca: ity etac chāpavacanaṃ śrutvāgnir atibhītavat / mām abhyetya tadovāca niṣkṛtiṃ vada putrayoḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.