Library·Brahma-Purana·150

Brahma-Purana 150

ब्रह्मोवाच: पैशाचं तीर्थम् आख्यातं गङ्गाया उत्तरे तटे । पिशाचत्वात् पुरा विप्रो मुक्तिम् आप महामते

brahmovāca: paiśācaṃ tīrtham ākhyātaṃ gaṅgāyā uttare taṭe / piśācatvāt purā vipro muktim āpa mahāmate

Sanskrit only: no published translation is held for this verse.

सुयवस्यात्मजो लोके जीगर्तिर् इति विश्रुतः । कुटुम्बभारदुःखार्तो दुर्भिक्षेण तु पीडितः

suyavasyātmajo loke jīgartir iti viśrutaḥ / kuṭumbabhāraduḥkhārto durbhikṣeṇa tu pīḍitaḥ

Sanskrit only: no published translation is held for this verse.

मध्यमं तु शुनःशेपं पुत्रं ब्रह्मविदां वरम् । विक्रीतवान् क्षत्रियाय वधाय बहुलैर् धनैः

madhyamaṃ tu śunaḥśepaṃ putraṃ brahmavidāṃ varam / vikrītavān kṣatriyāya vadhāya bahulair dhanaiḥ

Sanskrit only: no published translation is held for this verse.

किं नामापद्गतः पापं नाचरत्य् अपि पण्डितः । शमितृत्वे धनं चापि जगृहे बहुलं मुनिः

kiṃ nāmāpadgataḥ pāpaṃ nācaraty api paṇḍitaḥ / śamitṛtve dhanaṃ cāpi jagṛhe bahulaṃ muniḥ

Sanskrit only: no published translation is held for this verse.

विदारणार्थं च धनं जगृहे ब्राह्मणाधमः । ततो ऽप्रतिसमाधेय- महारोगनिपीडितः

vidāraṇārthaṃ ca dhanaṃ jagṛhe brāhmaṇādhamaḥ / tato 'pratisamādheya- mahāroganipīḍitaḥ

Sanskrit only: no published translation is held for this verse.

स मृतः कालपर्याये नरकेष्व् अथ पातितः । भोगाद् ऋते न क्षयो ऽस्ति प्राक्तनानाम् इहांहसाम्

sa mṛtaḥ kālaparyāye narakeṣv atha pātitaḥ / bhogād ṛte na kṣayo 'sti prāktanānām ihāṃhasām

Sanskrit only: no published translation is held for this verse.

किंकरैर् यमवाक्येन बहुयोन्यन्तरं गतः । ततः पिशाचो ह्य् अभवद् दारुणो दारुणाकृतिः

kiṃkarair yamavākyena bahuyonyantaraṃ gataḥ / tataḥ piśāco hy abhavad dāruṇo dāruṇākṛtiḥ

Sanskrit only: no published translation is held for this verse.

शुष्ककाष्ठेष्व् अथारण्ये निर्जले निर्जने तथा । ग्रीष्मे ग्रीष्मदवव्याप्ते क्षिप्यते यमकिंकरैः

śuṣkakāṣṭheṣv athāraṇye nirjale nirjane tathā / grīṣme grīṣmadavavyāpte kṣipyate yamakiṃkaraiḥ

Sanskrit only: no published translation is held for this verse.

कन्यापुत्रमहीवाजि- गवां विक्रयकारिणः । नरकान् न निवर्तन्ते यावद् आभूतसंप्लवम्

kanyāputramahīvāji- gavāṃ vikrayakāriṇaḥ / narakān na nivartante yāvad ābhūtasaṃplavam

Sanskrit only: no published translation is held for this verse.

स्वकृताघविपाकेन दारुणैर् यमकिंकरैः । संघाते पच्यमानो ऽसौ रुरोदोच्चैः कृतं स्मरन्

svakṛtāghavipākena dāruṇair yamakiṃkaraiḥ / saṃghāte pacyamāno 'sau rurodoccaiḥ kṛtaṃ smaran

Sanskrit only: no published translation is held for this verse.

पथि गच्छन् कदाचित् स जीगर्तेर् मध्यमः सुतः । शुश्राव रुदतो वाणीं पिशाचस्य मुहुर् मुहुः

pathi gacchan kadācit sa jīgarter madhyamaḥ sutaḥ / śuśrāva rudato vāṇīṃ piśācasya muhur muhuḥ

Sanskrit only: no published translation is held for this verse.

पुत्रक्रेतुर् ब्रह्महन्तुर् जीगर्तेस् तु पितुस् तदा । पापिनः पुत्रविक्रेतुर् ब्रह्महन्तुः पितुश् च ताम्

putrakretur brahmahantur jīgartes tu pitus tadā / pāpinaḥ putravikretur brahmahantuḥ pituś ca tām

Sanskrit only: no published translation is held for this verse.

शुनःशेपस् तदोवाच को भवान् अतिदुःखितः । जीगर्तिर् अब्रवीद् दुःखाच् छुनःशेपपिता ह्य् अहम्

śunaḥśepas tadovāca ko bhavān atiduḥkhitaḥ / jīgartir abravīd duḥkhāc chunaḥśepapitā hy aham

Sanskrit only: no published translation is held for this verse.

पापीयसीं क्रियां कृत्वा योनिं प्राप्तो ऽस्मि दारुणाम् । नरकेष्व् अथ पक्वश् च पुनः प्राप्तो ऽन्तरालकम् । ये ये दुष्कृतकर्माणस् तेषां तेषाम् इयं गतिः

pāpīyasīṃ kriyāṃ kṛtvā yoniṃ prāpto 'smi dāruṇām / narakeṣv atha pakvaś ca punaḥ prāpto 'ntarālakam / ye ye duṣkṛtakarmāṇas teṣāṃ teṣām iyaṃ gatiḥ

Sanskrit only: no published translation is held for this verse.

जीगर्तिपुत्रस् तम् उवाच दुःखात् ब्र्प् १५०।१५अ सो ऽहं सुतस् ते मम दोषेण तात ब्र्प् १५०।१५ब् विक्रीत्वा मां नरकान् एवम् आप्तस् ब्र्प् १५०।१५च् ततः करिष्ये स्वर्गतं त्वाम् इदानीम् ब्र्प् १५०।१५द् एवं प्रतिज्ञाय स गाधिपुत्र ब्र्प् १५०।१६अ पुत्रत्वम् आप्तो ऽथ मुनिप्रवीरः ब्र्प् १५०।१६ब् गङ्गाम् अभिध्याय पितुश् च लोकान् ब्र्प् १५०।१६च् अनुत्तमान् ईहमानो जगाम ब्र्प् १५०।१६द् अशेषदुःखानलधूपितानां ब्र्प् १५०।१७अ निमज्जतां मोहमहासमुद्रे ब्र्प् १५०।१७ब् शरीरिणां नान्यद् अहो त्रिलोक्याम् ब्र्प् १५०।१७च् आलम्बनं विष्णुपदीं विहाय ब्र्प् १५०।१७द् एवं विनिश्चित्य मुनिर् महात्मा ब्र्प् १५०।१८अ समुद्दिधीर्षुः पितरं स दुर्गतेः ब्र्प् १५०।१८ब् शुचिस् ततो गौतमीम् आशु गत्वा ब्र्प् १५०।१८च् तत्र स्नात्वा संस्मरञ् छंभुविष्णू ब्र्प् १५०।१८द् ददौ जलं प्रेतरूपाय पित्रे ब्र्प् १५०।१९अ पिशाचरूपाय सुदुःखिताय ब्र्प् १५०।१९ब् तद्दानमात्रेण तदैव पूतो ब्र्प् १५०।१९च् जीगर्तिर् आवाप वपुः सुपुण्यम् ब्र्प् १५०।१९द् विमानयुक्तः सुरसंघजुष्टं ब्र्प् १५०।२०अ विष्णोः पदं प्राप सुतप्रभावात् ब्र्प् १५०।२०ब् गङ्गाप्रभावाच् च हरेश् च शंभोर् ब्र्प् १५०।२०च् विधातुर् अर्कायुततुल्यतेजाः ब्र्प् १५०।२०द् ततः प्रभृत्य् एतद् अतिप्रसिद्धं ब्र्प् १५०।२१अ पैशाचनाशं च महागदं च ब्र्प् १५०।२१ब् महान्ति पापानि च नाशम् आशु ब्र्प् १५०।२१च् प्रयान्ति यस्य स्मरणेन पुंसाम् ब्र्प् १५०।२१द् तीर्थस्य चेदं गदितं तवाद्य ब्र्प् १५०।२२अ माहात्म्यम् एतत् त्रिशतानि यत्र ब्र्प् १५०।२२ब् तीर्थान्य् अथान्यानि भवन्ति भुक्ति ब्र्प् १५०।२२च् मुक्तिप्रदायीनि किम् अन्यद् अत्र ब्र्प् १५०।२२द् सर्वसिद्धिदम् आख्यातम् इत्याद्य् अत्र शतत्रयम् । तीर्थानां मुनिजुष्टानां स्मरणाद् अप्य् अभीष्टदम्

jīgartiputras tam uvāca duḥkhāt BrP 150.15a so 'haṃ sutas te mama doṣeṇa tāta BrP 150.15b vikrītvā māṃ narakān evam āptas BrP 150.15c tataḥ kariṣye svargataṃ tvām idānīm BrP 150.15d evaṃ pratijñāya sa gādhiputra BrP 150.16a putratvam āpto 'tha munipravīraḥ BrP 150.16b gaṅgām abhidhyāya pituś ca lokān BrP 150.16c anuttamān īhamāno jagāma BrP 150.16d aśeṣaduḥkhānaladhūpitānāṃ BrP 150.17a nimajjatāṃ mohamahāsamudre BrP 150.17b śarīriṇāṃ nānyad aho trilokyām BrP 150.17c ālambanaṃ viṣṇupadīṃ vihāya BrP 150.17d evaṃ viniścitya munir mahātmā BrP 150.18a samuddidhīrṣuḥ pitaraṃ sa durgateḥ BrP 150.18b śucis tato gautamīm āśu gatvā BrP 150.18c tatra snātvā saṃsmarañ chaṃbhuviṣṇū BrP 150.18d dadau jalaṃ pretarūpāya pitre BrP 150.19a piśācarūpāya suduḥkhitāya BrP 150.19b taddānamātreṇa tadaiva pūto BrP 150.19c jīgartir āvāpa vapuḥ supuṇyam BrP 150.19d vimānayuktaḥ surasaṃghajuṣṭaṃ BrP 150.20a viṣṇoḥ padaṃ prāpa sutaprabhāvāt BrP 150.20b gaṅgāprabhāvāc ca hareś ca śaṃbhor BrP 150.20c vidhātur arkāyutatulyatejāḥ BrP 150.20d tataḥ prabhṛty etad atiprasiddhaṃ BrP 150.21a paiśācanāśaṃ ca mahāgadaṃ ca BrP 150.21b mahānti pāpāni ca nāśam āśu BrP 150.21c prayānti yasya smaraṇena puṃsām BrP 150.21d tīrthasya cedaṃ gaditaṃ tavādya BrP 150.22a māhātmyam etat triśatāni yatra BrP 150.22b tīrthāny athānyāni bhavanti bhukti BrP 150.22c muktipradāyīni kim anyad atra BrP 150.22d sarvasiddhidam ākhyātam ityādy atra śatatrayam / tīrthānāṃ munijuṣṭānāṃ smaraṇād apy abhīṣṭadam

Sanskrit only: no published translation is held for this verse.