स त्वं प्रसीद परमेश्वर पाहि विश्वम् ब्र्प् १९३।८८अ अंशावतारकरणैर् न ममासि पुत्रः ब्र्प् १९३।८८ब् आब्रह्मपादपमयं जगद् ईश सर्वं ब्र्प् १९३।८८च् चित्ते विमोहयसि किं परमेश्वरात्मन् ब्र्प् १९३।८८द् मायाविमोहितदृशा तनयो ममेति ब्र्प् १९३।८९अ कंसाद् भयं कृतवता तु मयातितीव्रम् ब्र्प् १९३।८९ब् नीतो ऽसि गोकुलम् अरातिभयाकुलस्य ब्र्प् १९३।८९च् वृद्धिं गतो ऽसि मम चैव गवाम् अधीश ब्र्प् १९३।८९द् कर्माणि रुद्रमरुदश्विशतक्रतूनां ब्र्प् १९३।९०अ साध्यानि यानि न भवन्ति निरीक्षितानि ब्र्प् १९३।९०ब् त्वं विष्णुर् ईशजगताम् उपकारहेतोः ब्र्प् १९३।९०च् प्राप्तो ऽसि नः परिगतः परमो विमोहः ब्र्प् १९३।९०द् व्यास उवाच: तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् । देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर् हरिः
sa tvaṃ prasīda parameśvara pāhi viśvam BrP 193.88a aṃśāvatārakaraṇair na mamāsi putraḥ BrP 193.88b ābrahmapādapamayaṃ jagad īśa sarvaṃ BrP 193.88c citte vimohayasi kiṃ parameśvarātman BrP 193.88d māyāvimohitadṛśā tanayo mameti BrP 193.89a kaṃsād bhayaṃ kṛtavatā tu mayātitīvram BrP 193.89b nīto 'si gokulam arātibhayākulasya BrP 193.89c vṛddhiṃ gato 'si mama caiva gavām adhīśa BrP 193.89d karmāṇi rudramarudaśviśatakratūnāṃ BrP 193.90a sādhyāni yāni na bhavanti nirīkṣitāni BrP 193.90b tvaṃ viṣṇur īśajagatām upakārahetoḥ BrP 193.90c prāpto 'si naḥ parigataḥ paramo vimohaḥ BrP 193.90d vyāsa uvāca: tau samutpannavijñānau bhagavatkarmadarśanāt / devakīvasudevau tu dṛṣṭvā māyāṃ punar hariḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.