पित्तविकारांश्चत्वारिंशतम् अत ऊर्ध्वमनुव्याख्यास्यामः ओषश्च प्लोषश्च दाहश्च दवथुश्च धूमकश्च अम्लकश्च विदाहश्च अन्तर्दाहश्च अंसदाहश्च ऊष्माधिक्यं च अतिस्वेदश्च अङ्गस्वेदश्च अङ्गगन्धश्च अङ्गावदरणं च शोणितक्लेदश्च मांसक्लेदश्च त्वग्दाहश्च मांसदाहश्च त्वगवदरणं च चर्मदलनं च रक्तकोठश्च रक्तविस्फोटश्च रक्तपित्तं च रक्तमण्डलानि च हरितत्वं च हारिद्रत्वं च नीलिका च कक्षा च कामला च तिक्तास्यता च लोहितगन्धास्यता च पूतिमुखता च तृष्णाधिक्यं च अतृप्तिश्च आस्यविपाकश्च गलपाकश्च अक्षिपाकश्च गुदपाकश्च मेढ्रपाकश्च जीवादानं च तमःप्रवेशश्च हरितहारिद्रनेत्रमूत्रवर्चस्त्वं च इति चत्वारिंशत्पित्तविकाराः पित्तविकाराणाम् अपरिसंख्येयानामाविष्कृततमा व्याख्याताः
pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.