सर्वरोमविवरेभ्यश्च एकैकस्माद्रोमविवरात् सर्वजगच्चित्तसमान् कायनिर्माणमेघान्निश्चरित्वा सर्वसत्त्वाभिमुखस्थितानपर्यन्तं सर्वज्ञतासंभारबलं संदर्शयमानान्, अभेद्यापर्यादत्ताविनाशधर्मसर्वज्ञताचित्तबलं संदर्शयमानान्, अविवर्त्याप्रत्युदावर्त्याधिष्ठानाप्रतिप्रस्रब्धमनुत्तरसर्वबोधिसत्त्वचर्यासमुदागमबलं संदर्शयमानान्, सर्वसंसारदोषाननुलेपबलतां बोधिसत्त्वानां संवर्णयमानान्, सर्वमारमण्डलविकिरणबलं बोधिसत्त्वानां संदर्शयमानान्, सर्वक्लेशमलाननुलेपक्लेशबलतां बोधिसत्त्वानां संदर्शयमानान्, सर्वकर्मावरणपर्वतविकिरणबलं बोधिसत्त्वानां संदर्शयमानान्, सर्वकल्पसंवासबोधिसत्त्वचर्यापरिखेदमहाकरुणाबलं बोधिसत्त्वानां संदर्शयमानान्, सर्वबुद्धक्षेत्रसंप्रकम्पनसंक्षोभणसर्वसत्त्वसंप्रहर्षणबलं बोधिसत्त्वानां संदर्शयमानान्, सर्वमारपरप्रवादिगणप्रमर्दनबलं बोधिसत्त्वानां संदर्शयमानान्, महाधर्मचक्रप्रवर्तनज्ञानबलं लोके प्रभावयमानान्, सर्वसत्त्वान् सर्वज्ञतायां परिदीपयमानानपश्यत् ॥ सर्वरोमविवरेभ्यश्च एकैकस्माद्रोमविवरात् सर्वजगच्चित्तसमादानानन्तवर्णकायनिर्माणसमुद्रेमेघान्निश्चरित्वा दशदिगनन्तसत्त्वधातुस्फरणान् यथाशयाधिमुक्तानां सत्त्वानां बोधिसत्त्वचर्याज्ञानविक्रमं संदर्शयमानान्, सर्वसत्त्वधातुसमुद्रावतरणज्ञानं संदर्शयमानान्, सर्वसत्त्वचित्तसमुद्रावतरणज्ञानं संदर्शयमानान्, सर्वसत्त्वेन्द्रियसागरपरिज्ञाज्ञानं संदर्शयमानान्, सर्वसत्त्वचर्यासमुद्रावतरणज्ञानं संदर्शयमानान्, सर्वसत्त्वपरिपाकविनयकालानतिक्रमणज्ञानं संदर्शयमानान्, सर्वधर्मधात्वानुरवणज्ञानं संदर्शयमानान्, प्रतिचित्तक्षणं सर्वधर्मधातुज्ञाननयसागरस्फरणज्ञानं संदर्शयमानान्, सर्वलोकधातुसमुद्रसंवर्तविवर्तज्ञानं संदर्शयमानान्, सर्वलोकधातुप्रतिष्ठानसंस्थानव्यूहविकल्पज्ञानं संदर्शयमानान्, सर्वतथागतपूजाविकुर्वितोपसंक्रमणपूजोपस्थानधर्मचक्रमेघसंप्रतीच्छनज्ञानं संदर्शयमानान्, एवं ज्ञानपारमिताचर्यासंदर्शनेन सत्त्वानां प्रीतिं संजनयमानानपश्यत् । चित्तं प्रसादयमानान् प्रामोद्यमुत्पादयमानान् हर्षं संजनयमानान् दौर्मनस्यं विनिवर्तयमानान् चित्तं विशोधयमानान् चित्तकल्यतामावर्तयमानान्, इन्द्रियाण्युत्तापयमानान् अधिमुक्तिबलं संजनयमानान् सर्वज्ञतायामवैवर्त्यान् कुर्वाणानपश्यत् ॥ यथा च पारमिताचर्यासंदर्शनेन लोके सत्त्वान् परिपाकं व्रजतो ऽपश्यत्, तथा सर्वबोधिसत्त्वधर्मनिगर्जनेन ये च प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः प्रथमचित्तोत्पादसंभाराः (ग्व् १९२) कल्याणमित्रारागणप्रयोगाः तथागतपादमूलोपसंक्रमणपूजोपस्थानप्रयोगाः कुशलधर्मचर्याभियोगप्रयोगाः, ये च दानपारमिताचर्यादुष्करपरित्यागाः, शीलपारमितापरिशोधनप्रयोगाः, महाराज्यैश्वर्यपरिवारभोगाधिपत्यपरित्यागाभिनिष्क्रमणप्रयोगाः, ये लोके दुष्करचर्यामहाव्रततपोमण्डलक्षान्तिनिर्हाराः, या बोधिसत्त्वव्रतसमादानप्रयोगाकम्प्यता, ये बोधिसत्त्वदृढसमादानधर्मसमुद्राः सर्वसत्त्वधातुदुष्कृतदुर्भाषितदुश्चिन्तिताधिवासनप्रयोगाः, कायिकचैतसिकपीडाधिवाअसनप्रयोगाः, या सर्वकर्माविप्रणाशधर्मताक्षान्तिः सर्वधर्माधिमुक्तिक्षान्तिः सर्वधर्मस्वभावनिध्यानक्षान्तिः, यत् सर्वज्ञतारम्भप्रयोगवीर्यम्, यत् सर्वबुद्धधर्मपरिनिष्पादनवीर्यम्, याः सर्ववीर्यपारमिताचर्याः ये ध्यानपारमितासंभाराः ध्यानपारमिताभियोगाः ध्यानपारमितापरिनिष्पत्तिविशुद्धिचर्याः, यानि बोधिसत्त्वसमाधिप्रतिलाभविकुर्वितानि, ये समाधिमुखसमुद्रावताराः, यानि ध्यानपारमिताचरितानि, ये प्रज्ञापारमितासंभाराः, ये बोधिसत्त्वमहाप्रज्ञादित्यमण्डलविशोधननयाः, ये महाप्रज्ञामेघसंभवाः, ये प्रज्ञानिधानसंभाराः, ये महाप्रज्ञामहासागरव्यवचारणनयप्रयोगाः, ये महोपायकौशल्यनयप्रयोगाः, ये महोपायकौशल्यपरिशुद्धिसंप्रयुक्ताः पूर्वयोगाः, यानि बोधिसत्त्वमहाप्रणिधिपारमिताशरीराणि, या महाप्रणिधिपारमितापरिनिष्पत्तयः, यानि महाप्रणिधानपारमिताचरितानि, ये महाप्रणिधानपारमितासंप्रयुक्ताः पूर्वयोगाः, ये बलपारमिताप्रतिलाभमहासंभाराः, ये बलपारमिताप्रत्ययाः , ये बलपारमितानयमहासागराः, ये बलपारमितानिर्देशाः, ये बलपारमितासंप्रयुक्ताः पूर्वयोगाः, ये ज्ञानपारमितानयाः, ये ज्ञानपारमिताप्रयोगाः, ये ज्ञानपारमिताविशुद्धिनयाः, या ज्ञानपारमितादिशः, ये ज्ञानपारमितानुगमाः, ये ज्ञानपारमिताप्रसराः, यानि ज्ञानपारमितानयसमवसरणानि, ये ज्ञानपारमिताविज्ञप्तिनयाः, यानि ज्ञानपारमिताप्रसरानुसरणानि, यानि ज्ञानपारमितास्फरणानि, ये ज्ञानपारमिताप्रविस्तराः, ये ज्ञानपारमिताकायाः, ये ज्ञानपारमितासमुद्रनयाः, ये ज्ञानपारमितापरिनिष्पत्तिसंप्रयुक्ताः पूर्वयोगाः, ये ज्ञानपारमिताचर्याप्रकारप्रविचयप्रवेशसंभवसमुदागमाः, ये ज्ञानपारमितासमवसरणनयसंप्रयुक्ता धर्माधर्मसंग्रहधर्मज्ञानानुगमाः कर्मज्ञानानुगमाः क्षेत्रज्ञानानुगमाः कल्पज्ञानानुगमाः त्र्यध्वज्ञानानुगमाः बुद्धोत्पादज्ञानानुगमा बुद्धज्ञानानुगमा बोधिसत्त्वज्ञानानुगमा बोधिसत्त्वचित्तसंभवज्ञानानुगमा बोधिसत्त्वव्यवस्थानज्ञानानुगमा बोधिसत्त्वसंभवज्ञानानुगमाः, बोधिसत्त्वप्रस्थानज्ञानानुगमाः, बोधिसत्त्वप्रणिधिज्ञानानुगमाः, बोधिसत्त्वधर्मचक्रज्ञानानुगमाः, बोधिसत्त्वधर्मप्रविचयज्ञानानुगमाः, बोधिसत्त्वधर्मसागरनयज्ञानानुगमाः, बोधिसत्त्वधर्मसमुद्रज्ञानानुगमाः, बोधिसत्त्वधर्मपरिवर्तज्ञानानुगमाः, बोधिसत्त्वधर्मनिधानज्ञानानुगमाः, बोधिसत्त्वधर्मगतिज्ञानानुगमाः, ये प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया यावदनन्तमध्यारम्बणज्ञानपारमितासंप्रयुक्ता बोधिसत्त्वधर्माः, तानस्याः सर्वरोमविवरेभ्य एकैकरोमविवरविसृतनानावर्णसत्त्वकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । यदुत अकनिष्ठसुदर्शनसुदृशातपोबृहच्छुद्धावासदेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । (ग्व् १९३) एवं बृहत्फलपुण्यप्रसवानभ्रकदेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । शुभकृत्स्नाप्रमाणशुभपरीत्तशुभदेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानापश्यत् । आभास्वराप्रमाणाभपरीत्ताभदेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । महाब्रह्मब्रह्मपुरोहितब्रह्मपार्षददेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । साप्सरोगणसदेवपुत्रवशवर्तिदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । साप्सरोगणसदेवपुत्रसुनिर्मितदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । साप्सरोगणसदेवपुत्रसंतुषितदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । साप्सरोगणसदेवपुत्रसुयामदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । साप्सरोगणसदेवपुत्रशक्रदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । धृतराष्ट्रगन्धर्वराजगन्धर्वपुत्रगन्धर्वकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । विरूढककुम्भाण्डराजकुम्भाण्डपुत्रकुम्भाण्डकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । विरूपाक्षनागराजनागपुत्रनागकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । वैश्रवणमहायक्षराजयक्षपुत्रयक्षकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । द्रुमकिन्नरराजकिन्नरपुत्रकिन्नरकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । सुमतिमहोरगेन्द्रमहोरगपुत्रमहोरगकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । महाबलवेगस्थामगरुडेन्द्रगरुडपुत्रगरुडकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । राह्वसुरेन्द्रासुरपुत्रासुरकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । यमधर्मराजयमपुत्रयमकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । सर्वमनुष्येन्द्रनरनारीदारकदारिकासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । एवं सर्वगतिपर्यापन्नसर्वसत्त्वसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । सर्वश्रावकप्रत्येकबुद्धर्षिसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । वाय्वप्तेजःस्कन्धदेवतासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । सागरनदीपर्वतवनस्पत्यौषधिवृक्षपृथिवीदेवतासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । उद्याननगरबोधिमण्डरात्रिदिवसगगनदिक्पादगामिनीशरीरकायिकदेवतासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । एवं यावद्वज्रपाणिसादृशात्मभावमेघनिश्चरितान् दश दिशः स्फरित्वा धर्मधातुनयप्रसरेषु सर्वसत्त्वसंमुखीभावस्थितान् सत्त्वान् परिपाचयमानानपश्यत् ॥ ये च प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः प्रथमचित्तोत्पादसंभारमुखाः पूर्वजन्मसमुदागतकुशलचित्तपरंपराव्यवच्छेदनयाः, यानि च बोधिचित्तोत्पादप्रशंसापरंपरानन्तर्याणि (ग्व् १९४) च्युत्युपपत्तिपरिग्रहपरंपरानन्तर्याणि आत्मभावपरिग्रहपरंपरानन्तर्याणि नामचक्रपरंपरानन्तर्याणि कल्याणमित्रोपसंक्रमणपरंपरानन्तर्याणि बुद्धोत्पादारागणपरंपरानन्तर्याणि, धर्मपदव्यञ्जनोद्ग्रहपरंपरानन्तर्याणि बोधिसत्त्वमार्गप्रतिपत्तिचित्तपरंपरानन्तर्याणि समाधिप्रतिलाभपरंपरानन्तर्याणि समाधिप्रतिलाभाद्बुद्धदर्शनपरंपरानन्तर्याणि क्षेत्रदर्शनचक्षुस्फरणपरंपरानन्तर्याणि कल्पपरंपराज्ञानचक्रानन्तर्याणि धर्मधातुप्रतिवेधज्ञानपरंपरानन्तर्याणि सत्त्वधातुव्यवलोकनज्ञानपरंपरानन्तर्याणि धर्मधातुनयसागरावतरणपरंपराच्युत्युपपत्तिज्ञानपरंपरानन्तर्याणि दिव्यश्रोत्रपरिशुद्धिप्रत्यवेक्षणज्ञानपरंपरानन्तर्याणि सर्वसत्त्वधातुचित्तव्यवलोकनसरस्वत्यवक्रान्तिमुखपरंपरानन्तर्याणि प्रथमदिव्यचक्षुरवक्रान्तिमुखपरंपरानन्तर्याणि प्रथमदिव्यश्रोत्रविज्ञप्तिपरंपरानन्तर्याणि प्रथमपरसत्त्वचित्तज्ञानपरंपरानन्तर्याणि प्रथमात्मपरसत्त्वपूर्वनिवासानुस्मृतिज्ञानपरंपरानन्तर्याणि प्रथमाभावप्रतिष्ठानाभिसंस्कारर्द्धिप्रतिलाभप्रत्ययपरंपरानन्तर्याणि महर्द्धिविक्रमदिक्स्फरणपरंपरानन्तर्याणि बोधिसत्त्वविमोक्षप्रतिलाभपरंपरानन्तर्याणि बोधिसत्त्वविमोक्षसागराचिन्त्यनयावतारपरंपरानन्तर्याणि बोधिसत्त्वविकुर्वितपरंपरानन्तर्याणि बोधिसत्त्वविक्रमपरंपरानन्तर्याणि बोधिसत्त्वाक्रमपरंपरानन्तर्याणि बोधिसत्त्वसंज्ञागतपरंपरानन्तर्याणि बोधिसत्त्वमार्गावतारपरंपरानन्तर्याणि, यावद् यानि प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया बोधिसत्त्वसुसूक्ष्मज्ञानप्रवेशपरंपरानन्तर्याणि, तानि अस्याः सर्वरोमविवरेभ्यो निर्माणकायमेघान्निश्चरित्वा सत्त्वेभ्यो धर्मं देशयमानानपश्यत् । संप्रकाशयमानान् द्योतयमानान् संदर्शयमानान् उदीरयमानान् प्रविभजमानान् प्रविस्तरमानान् गणयतो निर्दिश्यमानान् विज्ञापयमानान् उपसंहरमाणानपश्यत् ॥ केषांचिद्वातमण्डलीसंक्षोभनिर्घोषरुतेन देशयमानानपश्यत् । केषांचिदप्स्कन्धसंकच्छननिर्नादरुतेन, केषांचिज्ज्वलनार्चिनिगर्जितरुतेन, केषांचित् सागरगर्जितनिर्घोषरुतेन, केषांचित् पृथिवीसंकम्पननिर्नादरुतेन, केषांचिन्महापर्वतराजसंघट्टनसंहर्षणनिर्घोषनिर्नादरुतेन, केषांचिद्देवनगरसंकम्पनमधुरनिर्नादनिर्घोषरुतेन, केषांचिद्दिव्यविमानसंघट्टनरुतेन, केषांचिद्देवेन्द्ररुतेन, केषांचिन्नागेन्द्ररुतेन, केषांचिद्यक्षेन्द्ररुतेन, केषांचिद्गन्धवेन्द्ररुतेन, केषांचिदसुरेन्द्ररुतेन, केषांचिद्गरुडेन्द्ररुतेन, केषांचिन्महोरगरुतेन, केषांचिद्देवरुतेन, केषांचित्किन्नरेन्द्ररुतेन, केषांचिन्मनुष्येन्द्ररुतेन, केषांचिद्ब्रह्मेन्द्ररुतेन, केषांचिदप्सरःसंगीतिरुतेन, केषांचिद्दिव्यतूर्यसंप्रवादनरुतेन, केषांचिन्मणिराजनिर्घोषरुतेन, केषांचित् सर्वसत्त्वकायनानारुतैः प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया विमोक्षविषयं सत्त्वानां प्रभावयमानानपश्यत् । एवं बोधिसत्त्वात्मभावमेघैर्नानाबोधिसत्त्वरुतैस्तथागतनिर्माणकायमेघैस्तथागतरुतविमात्रतास्वराङ्गनयैः प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया विमोक्षविषयं सप्रथमचित्तोत्पादसंभवनिष्पत्तिसमुदागमं सविमोक्षविक्रीडितं सर्वसत्त्वानां विज्ञप्यमानानपश्यत् ॥ तस्या एकैकेन निर्माणरूपमेघेन प्रतिचित्तक्षणमनभिलाप्यानभिलाप्यानि दशदिशि लोके बुद्धक्षेत्राणि विशोध्यमानानपश्यत् । अनन्तमध्यान् सत्त्वसमुद्रान् सर्वापायदुःखेभ्यो (ग्व् १९५) विमोच्यमानानपश्यत् । अनन्तमध्यं सत्त्वधातुं देवमनुष्यसंपत्तौ प्रतिष्ठाप्यमानानपश्यत् । अनन्तमध्यान् सत्त्वसमुद्रान् संसारसागरादुच्चाल्यमानानपश्यत् । अनन्तमध्यान् सत्त्वसमुद्रान् श्रावकप्रत्येकबुद्धभूमौ प्रतिष्ठाप्यमानानपश्यत् । प्रतिचित्तक्षणमनन्तमध्यान् सत्त्वसमुद्रान् दशभूमावावर्तमानान् सुधनः श्रेष्ठिदारकः पश्यति स्म, शृणोति व्यवचारयति अवचरति प्रतिविध्यति निध्यायति अनुगच्छति अनुसरति अनुप्रविशति समतयाधितिष्ठति यदुत प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया अचिन्त्यसमन्तभद्रप्रीतिविपुलध्वजबोधिसत्त्वविमोक्षविकुर्वितवृषभितानुभावेन पूर्वसभागचरितत्वात्तथागताधिष्ठानाधिष्ठितत्वादचिन्त्यकुशलमूलपरिपाकेन समन्तभद्रायाश्च बोधिसत्त्वचर्याया भाजनीभूतत्वात् ॥ अथ खलु सुधनः श्रेष्ठिदारको महाबोधिसत्त्वप्रीतिवेगसागरावभासप्रतिलब्धो दशदिक्तथागताधिष्ठितः प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः पुरतः प्राञ्जलिः स्थित्वा प्रमुदितनयनजगद्विरोचनां रात्रिदेवतामाभिः सारूप्याभिर्गाथाभिरभ्यष्टौषीत् - गम्भीरधर्मत जिनानां यत्र सुशिक्षितास्यमितकल्पान् । दशदिशि लोकि अनुपूर्वं रूप यथाशयं जगु फरित्वा
sarvaromavivarebhyaśca ekaikasmādromavivarāt sarvajagaccittasamān kāyanirmāṇameghānniścaritvā sarvasattvābhimukhasthitānaparyantaṃ sarvajñatāsaṃbhārabalaṃ saṃdarśayamānān, abhedyāparyādattāvināśadharmasarvajñatācittabalaṃ saṃdarśayamānān, avivartyāpratyudāvartyādhiṣṭhānāpratiprasrabdhamanuttarasarvabodhisattvacaryāsamudāgamabalaṃ saṃdarśayamānān, sarvasaṃsāradoṣānanulepabalatāṃ bodhisattvānāṃ saṃvarṇayamānān, sarvamāramaṇḍalavikiraṇabalaṃ bodhisattvānāṃ saṃdarśayamānān, sarvakleśamalānanulepakleśabalatāṃ bodhisattvānāṃ saṃdarśayamānān, sarvakarmāvaraṇaparvatavikiraṇabalaṃ bodhisattvānāṃ saṃdarśayamānān, sarvakalpasaṃvāsabodhisattvacaryāparikhedamahākaruṇābalaṃ bodhisattvānāṃ saṃdarśayamānān, sarvabuddhakṣetrasaṃprakampanasaṃkṣobhaṇasarvasattvasaṃpraharṣaṇabalaṃ bodhisattvānāṃ saṃdarśayamānān, sarvamāraparapravādigaṇapramardanabalaṃ bodhisattvānāṃ saṃdarśayamānān, mahādharmacakrapravartanajñānabalaṃ loke prabhāvayamānān, sarvasattvān sarvajñatāyāṃ paridīpayamānānapaśyat // sarvaromavivarebhyaśca ekaikasmādromavivarāt sarvajagaccittasamādānānantavarṇakāyanirmāṇasamudremeghānniścaritvā daśadiganantasattvadhātuspharaṇān yathāśayādhimuktānāṃ sattvānāṃ bodhisattvacaryājñānavikramaṃ saṃdarśayamānān, sarvasattvadhātusamudrāvataraṇajñānaṃ saṃdarśayamānān, sarvasattvacittasamudrāvataraṇajñānaṃ saṃdarśayamānān, sarvasattvendriyasāgaraparijñājñānaṃ saṃdarśayamānān, sarvasattvacaryāsamudrāvataraṇajñānaṃ saṃdarśayamānān, sarvasattvaparipākavinayakālānatikramaṇajñānaṃ saṃdarśayamānān, sarvadharmadhātvānuravaṇajñānaṃ saṃdarśayamānān, praticittakṣaṇaṃ sarvadharmadhātujñānanayasāgaraspharaṇajñānaṃ saṃdarśayamānān, sarvalokadhātusamudrasaṃvartavivartajñānaṃ saṃdarśayamānān, sarvalokadhātupratiṣṭhānasaṃsthānavyūhavikalpajñānaṃ saṃdarśayamānān, sarvatathāgatapūjāvikurvitopasaṃkramaṇapūjopasthānadharmacakrameghasaṃpratīcchanajñānaṃ saṃdarśayamānān, evaṃ jñānapāramitācaryāsaṃdarśanena sattvānāṃ prītiṃ saṃjanayamānānapaśyat / cittaṃ prasādayamānān prāmodyamutpādayamānān harṣaṃ saṃjanayamānān daurmanasyaṃ vinivartayamānān cittaṃ viśodhayamānān cittakalyatāmāvartayamānān, indriyāṇyuttāpayamānān adhimuktibalaṃ saṃjanayamānān sarvajñatāyāmavaivartyān kurvāṇānapaśyat // yathā ca pāramitācaryāsaṃdarśanena loke sattvān paripākaṃ vrajato 'paśyat, tathā sarvabodhisattvadharmanigarjanena ye ca pramuditanayanajagadvirocanāyā rātridevatāyāḥ prathamacittotpādasaṃbhārāḥ (Gv 192) kalyāṇamitrārāgaṇaprayogāḥ tathāgatapādamūlopasaṃkramaṇapūjopasthānaprayogāḥ kuśaladharmacaryābhiyogaprayogāḥ, ye ca dānapāramitācaryāduṣkaraparityāgāḥ, śīlapāramitāpariśodhanaprayogāḥ, mahārājyaiśvaryaparivārabhogādhipatyaparityāgābhiniṣkramaṇaprayogāḥ, ye loke duṣkaracaryāmahāvratatapomaṇḍalakṣāntinirhārāḥ, yā bodhisattvavratasamādānaprayogākampyatā, ye bodhisattvadṛḍhasamādānadharmasamudrāḥ sarvasattvadhātuduṣkṛtadurbhāṣitaduścintitādhivāsanaprayogāḥ, kāyikacaitasikapīḍādhivāasanaprayogāḥ, yā sarvakarmāvipraṇāśadharmatākṣāntiḥ sarvadharmādhimuktikṣāntiḥ sarvadharmasvabhāvanidhyānakṣāntiḥ, yat sarvajñatārambhaprayogavīryam, yat sarvabuddhadharmapariniṣpādanavīryam, yāḥ sarvavīryapāramitācaryāḥ ye dhyānapāramitāsaṃbhārāḥ dhyānapāramitābhiyogāḥ dhyānapāramitāpariniṣpattiviśuddhicaryāḥ, yāni bodhisattvasamādhipratilābhavikurvitāni, ye samādhimukhasamudrāvatārāḥ, yāni dhyānapāramitācaritāni, ye prajñāpāramitāsaṃbhārāḥ, ye bodhisattvamahāprajñādityamaṇḍalaviśodhananayāḥ, ye mahāprajñāmeghasaṃbhavāḥ, ye prajñānidhānasaṃbhārāḥ, ye mahāprajñāmahāsāgaravyavacāraṇanayaprayogāḥ, ye mahopāyakauśalyanayaprayogāḥ, ye mahopāyakauśalyapariśuddhisaṃprayuktāḥ pūrvayogāḥ, yāni bodhisattvamahāpraṇidhipāramitāśarīrāṇi, yā mahāpraṇidhipāramitāpariniṣpattayaḥ, yāni mahāpraṇidhānapāramitācaritāni, ye mahāpraṇidhānapāramitāsaṃprayuktāḥ pūrvayogāḥ, ye balapāramitāpratilābhamahāsaṃbhārāḥ, ye balapāramitāpratyayāḥ , ye balapāramitānayamahāsāgarāḥ, ye balapāramitānirdeśāḥ, ye balapāramitāsaṃprayuktāḥ pūrvayogāḥ, ye jñānapāramitānayāḥ, ye jñānapāramitāprayogāḥ, ye jñānapāramitāviśuddhinayāḥ, yā jñānapāramitādiśaḥ, ye jñānapāramitānugamāḥ, ye jñānapāramitāprasarāḥ, yāni jñānapāramitānayasamavasaraṇāni, ye jñānapāramitāvijñaptinayāḥ, yāni jñānapāramitāprasarānusaraṇāni, yāni jñānapāramitāspharaṇāni, ye jñānapāramitāpravistarāḥ, ye jñānapāramitākāyāḥ, ye jñānapāramitāsamudranayāḥ, ye jñānapāramitāpariniṣpattisaṃprayuktāḥ pūrvayogāḥ, ye jñānapāramitācaryāprakārapravicayapraveśasaṃbhavasamudāgamāḥ, ye jñānapāramitāsamavasaraṇanayasaṃprayuktā dharmādharmasaṃgrahadharmajñānānugamāḥ karmajñānānugamāḥ kṣetrajñānānugamāḥ kalpajñānānugamāḥ tryadhvajñānānugamāḥ buddhotpādajñānānugamā buddhajñānānugamā bodhisattvajñānānugamā bodhisattvacittasaṃbhavajñānānugamā bodhisattvavyavasthānajñānānugamā bodhisattvasaṃbhavajñānānugamāḥ, bodhisattvaprasthānajñānānugamāḥ, bodhisattvapraṇidhijñānānugamāḥ, bodhisattvadharmacakrajñānānugamāḥ, bodhisattvadharmapravicayajñānānugamāḥ, bodhisattvadharmasāgaranayajñānānugamāḥ, bodhisattvadharmasamudrajñānānugamāḥ, bodhisattvadharmaparivartajñānānugamāḥ, bodhisattvadharmanidhānajñānānugamāḥ, bodhisattvadharmagatijñānānugamāḥ, ye pramuditanayanajagadvirocanāyā rātridevatāyā yāvadanantamadhyārambaṇajñānapāramitāsaṃprayuktā bodhisattvadharmāḥ, tānasyāḥ sarvaromavivarebhya ekaikaromavivaravisṛtanānāvarṇasattvakāyameghaniścaritān sattvān paripācayamānānapaśyat / yaduta akaniṣṭhasudarśanasudṛśātapobṛhacchuddhāvāsadevasadṛśakāyameghaniścaritān sattvān paripācayamānānapaśyat / (Gv 193) evaṃ bṛhatphalapuṇyaprasavānabhrakadevasadṛśakāyameghaniścaritān sattvān paripācayamānānapaśyat / śubhakṛtsnāpramāṇaśubhaparīttaśubhadevasadṛśakāyameghaniścaritān sattvān paripācayamānāpaśyat / ābhāsvarāpramāṇābhaparīttābhadevasadṛśakāyameghaniścaritān sattvān paripācayamānānapaśyat / mahābrahmabrahmapurohitabrahmapārṣadadevasadṛśakāyameghaniścaritān sattvān paripācayamānānapaśyat / sāpsarogaṇasadevaputravaśavartidevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / sāpsarogaṇasadevaputrasunirmitadevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / sāpsarogaṇasadevaputrasaṃtuṣitadevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / sāpsarogaṇasadevaputrasuyāmadevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / sāpsarogaṇasadevaputraśakradevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / dhṛtarāṣṭragandharvarājagandharvaputragandharvakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / virūḍhakakumbhāṇḍarājakumbhāṇḍaputrakumbhāṇḍakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / virūpākṣanāgarājanāgaputranāgakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / vaiśravaṇamahāyakṣarājayakṣaputrayakṣakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / drumakinnararājakinnaraputrakinnarakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / sumatimahoragendramahoragaputramahoragakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / mahābalavegasthāmagaruḍendragaruḍaputragaruḍakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / rāhvasurendrāsuraputrāsurakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / yamadharmarājayamaputrayamakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / sarvamanuṣyendranaranārīdārakadārikāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / evaṃ sarvagatiparyāpannasarvasattvasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / sarvaśrāvakapratyekabuddharṣisadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / vāyvaptejaḥskandhadevatāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / sāgaranadīparvatavanaspatyauṣadhivṛkṣapṛthivīdevatāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / udyānanagarabodhimaṇḍarātridivasagaganadikpādagāminīśarīrakāyikadevatāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / evaṃ yāvadvajrapāṇisādṛśātmabhāvameghaniścaritān daśa diśaḥ spharitvā dharmadhātunayaprasareṣu sarvasattvasaṃmukhībhāvasthitān sattvān paripācayamānānapaśyat // ye ca pramuditanayanajagadvirocanāyā rātridevatāyāḥ prathamacittotpādasaṃbhāramukhāḥ pūrvajanmasamudāgatakuśalacittaparaṃparāvyavacchedanayāḥ, yāni ca bodhicittotpādapraśaṃsāparaṃparānantaryāṇi (Gv 194) cyutyupapattiparigrahaparaṃparānantaryāṇi ātmabhāvaparigrahaparaṃparānantaryāṇi nāmacakraparaṃparānantaryāṇi kalyāṇamitropasaṃkramaṇaparaṃparānantaryāṇi buddhotpādārāgaṇaparaṃparānantaryāṇi, dharmapadavyañjanodgrahaparaṃparānantaryāṇi bodhisattvamārgapratipatticittaparaṃparānantaryāṇi samādhipratilābhaparaṃparānantaryāṇi samādhipratilābhādbuddhadarśanaparaṃparānantaryāṇi kṣetradarśanacakṣuspharaṇaparaṃparānantaryāṇi kalpaparaṃparājñānacakrānantaryāṇi dharmadhātuprativedhajñānaparaṃparānantaryāṇi sattvadhātuvyavalokanajñānaparaṃparānantaryāṇi dharmadhātunayasāgarāvataraṇaparaṃparācyutyupapattijñānaparaṃparānantaryāṇi divyaśrotrapariśuddhipratyavekṣaṇajñānaparaṃparānantaryāṇi sarvasattvadhātucittavyavalokanasarasvatyavakrāntimukhaparaṃparānantaryāṇi prathamadivyacakṣuravakrāntimukhaparaṃparānantaryāṇi prathamadivyaśrotravijñaptiparaṃparānantaryāṇi prathamaparasattvacittajñānaparaṃparānantaryāṇi prathamātmaparasattvapūrvanivāsānusmṛtijñānaparaṃparānantaryāṇi prathamābhāvapratiṣṭhānābhisaṃskārarddhipratilābhapratyayaparaṃparānantaryāṇi maharddhivikramadikspharaṇaparaṃparānantaryāṇi bodhisattvavimokṣapratilābhaparaṃparānantaryāṇi bodhisattvavimokṣasāgarācintyanayāvatāraparaṃparānantaryāṇi bodhisattvavikurvitaparaṃparānantaryāṇi bodhisattvavikramaparaṃparānantaryāṇi bodhisattvākramaparaṃparānantaryāṇi bodhisattvasaṃjñāgataparaṃparānantaryāṇi bodhisattvamārgāvatāraparaṃparānantaryāṇi, yāvad yāni pramuditanayanajagadvirocanāyā rātridevatāyā bodhisattvasusūkṣmajñānapraveśaparaṃparānantaryāṇi, tāni asyāḥ sarvaromavivarebhyo nirmāṇakāyameghānniścaritvā sattvebhyo dharmaṃ deśayamānānapaśyat / saṃprakāśayamānān dyotayamānān saṃdarśayamānān udīrayamānān pravibhajamānān pravistaramānān gaṇayato nirdiśyamānān vijñāpayamānān upasaṃharamāṇānapaśyat // keṣāṃcidvātamaṇḍalīsaṃkṣobhanirghoṣarutena deśayamānānapaśyat / keṣāṃcidapskandhasaṃkacchananirnādarutena, keṣāṃcijjvalanārcinigarjitarutena, keṣāṃcit sāgaragarjitanirghoṣarutena, keṣāṃcit pṛthivīsaṃkampananirnādarutena, keṣāṃcinmahāparvatarājasaṃghaṭṭanasaṃharṣaṇanirghoṣanirnādarutena, keṣāṃciddevanagarasaṃkampanamadhuranirnādanirghoṣarutena, keṣāṃciddivyavimānasaṃghaṭṭanarutena, keṣāṃciddevendrarutena, keṣāṃcinnāgendrarutena, keṣāṃcidyakṣendrarutena, keṣāṃcidgandhavendrarutena, keṣāṃcidasurendrarutena, keṣāṃcidgaruḍendrarutena, keṣāṃcinmahoragarutena, keṣāṃciddevarutena, keṣāṃcitkinnarendrarutena, keṣāṃcinmanuṣyendrarutena, keṣāṃcidbrahmendrarutena, keṣāṃcidapsaraḥsaṃgītirutena, keṣāṃciddivyatūryasaṃpravādanarutena, keṣāṃcinmaṇirājanirghoṣarutena, keṣāṃcit sarvasattvakāyanānārutaiḥ pramuditanayanajagadvirocanāyā rātridevatāyā vimokṣaviṣayaṃ sattvānāṃ prabhāvayamānānapaśyat / evaṃ bodhisattvātmabhāvameghairnānābodhisattvarutaistathāgatanirmāṇakāyameghaistathāgatarutavimātratāsvarāṅganayaiḥ pramuditanayanajagadvirocanāyā rātridevatāyā vimokṣaviṣayaṃ saprathamacittotpādasaṃbhavaniṣpattisamudāgamaṃ savimokṣavikrīḍitaṃ sarvasattvānāṃ vijñapyamānānapaśyat // tasyā ekaikena nirmāṇarūpameghena praticittakṣaṇamanabhilāpyānabhilāpyāni daśadiśi loke buddhakṣetrāṇi viśodhyamānānapaśyat / anantamadhyān sattvasamudrān sarvāpāyaduḥkhebhyo (Gv 195) vimocyamānānapaśyat / anantamadhyaṃ sattvadhātuṃ devamanuṣyasaṃpattau pratiṣṭhāpyamānānapaśyat / anantamadhyān sattvasamudrān saṃsārasāgarāduccālyamānānapaśyat / anantamadhyān sattvasamudrān śrāvakapratyekabuddhabhūmau pratiṣṭhāpyamānānapaśyat / praticittakṣaṇamanantamadhyān sattvasamudrān daśabhūmāvāvartamānān sudhanaḥ śreṣṭhidārakaḥ paśyati sma, śṛṇoti vyavacārayati avacarati pratividhyati nidhyāyati anugacchati anusarati anupraviśati samatayādhitiṣṭhati yaduta pramuditanayanajagadvirocanāyā rātridevatāyā acintyasamantabhadraprītivipuladhvajabodhisattvavimokṣavikurvitavṛṣabhitānubhāvena pūrvasabhāgacaritatvāttathāgatādhiṣṭhānādhiṣṭhitatvādacintyakuśalamūlaparipākena samantabhadrāyāśca bodhisattvacaryāyā bhājanībhūtatvāt // atha khalu sudhanaḥ śreṣṭhidārako mahābodhisattvaprītivegasāgarāvabhāsapratilabdho daśadiktathāgatādhiṣṭhitaḥ pramuditanayanajagadvirocanāyā rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā pramuditanayanajagadvirocanāṃ rātridevatāmābhiḥ sārūpyābhirgāthābhirabhyaṣṭauṣīt - gambhīradharmata jinānāṃ yatra suśikṣitāsyamitakalpān / daśadiśi loki anupūrvaṃ rūpa yathāśayaṃ jagu pharitvā
Sanskrit only: no published translation is held for this verse.