Library·Gandavyuhasutra·13·13.20

Gandavyuhasutra 13.20

Gand 13.20

तत्र महापद्मे समन्तज्ञानार्चिश्रीगुणकेतुध्वजो नाम तथागतः प्रादुर्बभूव तेषां सुमेरुपरमाणुरजःसमानां तथागतानां प्रथमकल्पिकः, येन तस्मिन् कल्पे सर्वप्रथममनुत्तरा सम्यक्संबोधिरभिसंबुद्धा । सो ऽनेकवर्षसहस्राणि धर्मश्रवणेन सत्त्वान् परिपाच्य दशवर्षसहस्रं रश्म्यवभासविकुर्वितेन परिपाचयामास तत्र दशभिर्वर्षसहस्रैः स तथागतः प्रादुर्भविष्यतीति । यत्ततः सर्वत्र्यध्वतथागतविषयपत्रसंधिविद्योतितरश्मिमेघव्यूहमहारत्नराजपद्मात् सर्वसत्त्वविरजःप्रदीपा नाम रश्मिर्निश्चचार, यया रश्म्या ते सत्त्वाः स्पृष्टाः संजानन्ति स्म - दशभिर्वर्षसहस्रैस्तथागत उत्पत्स्यत इति, नवभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति । यत्ततो महाबोधिवृक्षाद्विरजोवतीश्रीगर्भा नाम रश्मिर्निश्चचार, यया रश्म्या ते सत्त्वाः स्पृष्टाः सर्वरूपाणि सूक्ष्माण्यपश्यन् - अष्टाभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति । यत्तत एव महाबोधिवृक्षात् सर्वसत्त्वकर्मविपाकनिर्घोषा नाम रश्मिर्निश्चचार, यया रश्म्या ते सत्त्वाः स्पृष्टाः स्वकस्वकान् कर्मसमुद्रानवतरन्ति स्म, कर्मस्मृतिज्ञानं च प्रत्यलभन्त - सप्तभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति । यत्तत एव महाबोधिवृक्षात् सर्वकुशलमूलसंभवनिर्घोषा नाम रश्मिर्निश्चचार, यया रश्म्या ते सत्त्वाः स्पृष्टाः परिपूर्णा अविकलसर्वेन्द्रियाः संतिष्ठन्ते स्म - षड्भिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति । यत्तत एव महाबोधिवृक्षादचिन्त्यबुद्धविषयनिदर्शननिर्घोषा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः उदारातिशयतया विकुर्वन्ति स्म - पञ्चभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति । यत्तत एव महाबोधिवृक्षात् सर्वबुद्धक्षेत्रपरिशुद्धिनिगर्जितप्रतिभासविज्ञापना नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः सर्वाकारां बुद्धक्षेत्रपरिशुद्धिमद्राक्षुः चतुर्भिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति । यत्तत एव महाबोधिवृक्षात् सर्वतथागतविषयासंभेदप्रदीपा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः तस्य तथागतस्य सर्वत्रानुगतविकुर्वितमवतरन्ति स्म - त्रिभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति । यत्तत एव महाबोधिवृक्षात्सर्वजगदभिमुखप्रदीपा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः तथागतमभिमुखमधिमुच्यापश्यन् - द्वाभ्यां वर्षसहस्राभ्यां स तथागत उत्पस्यत इति । यत्तत एव महाबोधिवृक्षात् त्र्यध्वज्ञानविद्युत्प्रदीपा नाम रश्मिर्निश्चचार सतथागतपूर्वयोगनिर्घोषा नाम, यया ते सत्त्वाः स्पृष्टाः तस्य तथागतस्य पूर्वयोगसमुद्रानवकल्पयामासुरवतरन्ति स्म - वर्षसहस्रेण स तथागत उत्पत्स्यत इति । यत्ततो महाबोधिवृक्षाद्वितिमिरज्ञानतथागतप्रदीपा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः समन्तचक्षुष्कतां प्रत्यलभन्त सर्वतथागतविकुर्वितबुद्धक्षेत्रसर्वसत्त्वदर्शनतायै - वर्षशतेन स तथागत उत्पत्स्यत इति । यत्तत एव महाबोधिवृक्षात् सर्वजगद्बुद्धदर्शनविपाककुशलमूलसंभवा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः तथागतोत्पादसंज्ञां प्रत्यलभन्त - सप्ताहेन स तथागत उत्पत्स्यत इति । यत्तत एव महाबोधिवृक्षात् सर्वसत्त्वप्रहर्षप्रीतिप्रामोद्यसमुदयनिर्घोषा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः बुद्धदर्शनमहाप्रीतिवेगसंजाता अभूवन् । इति हि कुलपुत्र एभिरेवंरूपैरप्रमाणैः रश्मिपरिपाचननयैर्दशवर्षसहस्राणि सत्त्वान् परिपाच्य सप्तमे दिवसे पूर्णे (ग्व् २१०) सर्वं तं लोकधातुमप्रमाणैः संकम्पननयैः संकम्प्य एकान्तपरिशुद्धामध्यतिष्ठत् यावद्दशसु दिक्षु सर्वतथागतानां बुद्धक्षेत्रपरिशुद्धिः । तामपि सर्वां प्रतिचित्तक्षणं तत्र बुद्धक्षेत्रनानाविधाचिन्त्यव्यूहान् संदर्शयामास । अथ पश्चिमे सप्ताहे ये तत्र लोकधातौ सत्त्वा बुद्धदर्शनपरिपक्वाः, ते सर्वे बोधिमण्डाभिमुखाः स्थिता अभूवन् ॥ अथ खलु तस्मिन् लोकधातौ सर्वचक्रवालेभ्य सर्वसुमेरुभ्यः सर्वपर्वतेभ्यः सर्वनदीभ्यः सर्वसागरेभ्यः सर्ववृक्षेभ्यः सर्वपृथिवीतलेभ्यः सर्वनगरेभ्यः सर्वप्राकारेभ्यः सर्वभवनेभ्यः सर्वविमानेभ्यः सर्ववस्त्राभरणपरिभोगेभ्यः सर्ववाद्यवृक्षेभ्यः सर्वतूर्यसंगीतिभ्यः सर्वनिर्माणव्यूहेभ्यः एकैकस्मादारम्बणात् सर्वतथागतविषयप्रभवं निगर्जमानाः सर्वगन्धधूपमेघान्निर्श्चार्य सर्वरत्नार्चिमेघान् सर्वगन्धधूपार्चिगर्भान् सर्वगन्धमणिविग्रहमेघान् सर्वमणिवस्त्ररत्नाभरणमेघान् सर्वरत्नपुष्पसुमेरुमेघान् सर्वचूर्णमेघान् सर्वतथागतरश्मिमेघान् विद्योतयमानाः सर्वतथागतप्रभामण्डलमेघान्निश्चारयमाणाः सर्ववाद्यतूर्यमेघान् संघट्टयमानाः सर्वतथागतप्रणिधाननिर्घोषमेघान् प्रमुञ्चयमानाः सर्वतथागतस्वराङ्गरुतसमुद्रमेघान् निगर्जयमानाः सर्वतथागतलक्षणानुव्यञ्जनविचित्रप्रतिभासमेघान् निदर्शयमानाः अचिन्त्यानि तथागतोत्पादपूर्वनिमित्तानि संदर्श्य तस्य सर्वत्र्यध्वतथागतविषयपत्रसंधिद्योतितरश्मिमेघव्यूहमहारत्नराजपद्मस्य बोधौ दशबुद्धक्षेत्रपरमाणुरजःसमा महारत्नराजपद्मपरिवाराः समवतिष्ठन्त । तेषां च महारत्नराजपद्मपरिवाराणां महारत्नपद्मानां केसरकर्णिकासु दशबुद्धक्षेत्रपरमाणुरजःसमानि महामणिरत्नगर्भाणि सिंहासनानि प्रादुरभूवन् । तेषु च मणिरत्नगर्भेष्वासनेषु दशबुद्धक्षेत्रशतसहस्रपरमाणुरजःसमा बोधिसत्त्वाः पर्यङ्कनिषण्णाः प्रादुर्बभूवुः ॥ समनन्तराभिसंबुद्धस्य तस्य भगवतः समन्तज्ञानरत्नार्चिश्रीगुणकेतुराज्ञः तथागतस्य अनुत्तरां सम्यक्संबोधिम्, अथ तावदेव दशसु दिक्षु सर्वलोकधातुतथागता अनुत्तरां सम्यक्संबोधिमभिसंबुध्य यथाशयानां सत्त्वानामभिमुखं धर्मचक्रं प्रवर्तयामासुः । तेन ततो लोकधातोरप्रमेयाः सत्त्वाः सर्वदुर्गतिविनिपातेभ्यो विनिवर्तिताः । अप्रमेयाः सत्त्वाः स्वर्गोपपत्तिप्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः श्रावकभूमौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः प्रत्येकबोधौ परिपाचिताः । अप्रमेयाः सत्त्वा वेगप्रभानिर्याणायां बोधौ परिपाचिताः । अप्रमेयाः सत्त्वा विमलपराक्रमध्वजायां बोधौ परिपाचिताः । अप्रमेयाः सत्त्वाः धर्मप्रभावनाभवननिर्याणायां बोधौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वा इन्द्रियपरिशुद्धिप्रभावनानिर्याणायां बोधौ परिपाचिताः । अप्रमेयाः सत्त्वाः बलसमतासमुदाचारानुगमनिर्याणायां बोधौ परिपाचिताः । अप्रमेयाः सत्त्वा धर्मनगराभिमुखविषययानसंभवनिर्याणायां बोधौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः सर्वत्रानुगतर्द्ध्यभिसंभिन्ननययानननिर्याणायां बोधौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः चर्याप्रयोगसमवसरणनयनिर्याणायां बोधौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः समाधिप्रस्थाननयनिर्याणायां बोधौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः सर्वारम्बणविषयपरिशुद्धिमण्डलनयनिर्याणायां बोधौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वा बोधिसत्त्वबोधौ चित्तमुत्पादिताः । अप्रमेयाः सत्त्वा बोधिसत्त्वमार्गे (ग्व् २११) प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः पारमितामार्गविशुद्धौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः प्रथमायां बोधिसत्त्वभूमौ प्रतिष्ठापिताः । एवं तस्य तथागतस्य अचिन्त्येन बुद्धवृषभिताविकुर्वितेन धर्मचक्रं प्रवर्तयतः प्रतिचित्तक्षणमनन्ताप्रमेयाः सत्त्वा द्वितीयायां तृतीयायां चतुर्थ्यां पञ्चभ्यां षष्ठ्यां सप्तम्यामष्टभ्यां नवम्याम्, अप्रमेयाः सत्त्वा दशभ्यां भूमौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः प्रणिधानवैशेषिकायां बोधिसत्त्वचर्यायामवतारिताः । अप्रमेयाः सत्त्वाः समन्तभद्रबोधिसत्त्वचर्याप्रणिधानविशुद्धौ प्रतिष्ठापिताः । एवं तस्य तथागतस्य अचिन्त्येन बुद्धवृषभिताविकुर्वितेन धर्मचक्रं प्रवर्तयतः प्रतिचित्तक्षणमनन्तमध्यसत्त्वधातुर्विनयमगमत् । तस्मिंश्च लोकधातौ सर्वसत्त्वा यथाशयास्तस्य तथागतस्य नानात्मभावोपायकौशल्यप्रमुक्तां धर्मदेशनामाजानन्ति स्म ॥ तस्यां खलु पुना रत्नकुसुमप्रदीपायां राजधान्यां रूपवर्णविषयपरिभोगमदमत्तानां सत्त्वानामन्योन्यमवमन्यमानानां विनयवशं समुपादाय समन्तभद्रो बोधिसत्त्व उदारवर्णरूपगतमभिनिर्माय तां राजधानीमनुप्राप्तः । तस्योदारया प्रभया सर्वा सा राजधान्यवभासिता । या च तस्या राजधान्याः प्रभा, या च राज्ञश्चक्रवर्तिनो वैरोचनरत्नपद्मगर्भश्रीचूडस्य स्वशरीरनिर्याता प्रभा, या च स्त्रीरत्नस्य प्रभा, या च रत्नवृक्षाणां प्रभा, या च महामणिरत्नस्य प्रभा, या च चन्द्रसूर्यग्रहनक्षत्रज्योतिषां प्रभा, या च सर्वजम्बुद्वीपे प्रभा, सा च सर्वा न प्रज्ञायते स्म । तद्यथापि नाम आदित्ये उदिते विगते ऽन्धकारे न चन्द्रग्रहनक्षत्रज्योतिषां नाग्नेर्न मणीनां प्रभा प्रज्ञायते स्म, एवमेव समन्तभद्रस्य बोधिसत्त्वस्य प्रभयाभिभूताः तत्र जम्बुद्वीपे सर्वप्रभा न प्रज्ञायते स्म । तद्यथापि नाम जाम्बूनदकनकबिम्बस्य पुरतो मषिविग्रहो न शोभते न भासते न तपति न विरोचते, एवमेव समन्तभद्रस्य बोधिसत्त्वस्य पुरतः तेषां सत्त्वानां रूपकाया न शोभन्ते, न भासन्ते, न तपन्ति, न विरोचन्ते ॥ तेषामेतदभवत् - को ऽन्वयं भविष्यति देवो वा ब्रह्मा वा, यस्य पुरतो वयं न शोभामहे, न भासामहे, न तपामो न विरोचामहे कायेन वा प्रभया वा शुभया वा वर्णेन वा तेजसा वा? न चास्य शक्नुमो निमित्तमुद्ग्रहीतुम् ॥ अथ खलु समन्तभद्रो बोधिसत्त्वः तस्या रत्नकुसुमप्रदीपाया राजधान्या मध्ये वैरोचनरत्नपद्मगर्भश्रीचूडस्य राज्ञश्चक्रवर्तिनो विमानस्योपर्यन्तरिक्षे स्थित्वा तं वैरोचनरत्नपद्मगर्भश्रीचूडं राजानं चक्रवर्तिनमेतदवोचत् - यत् खलु महाराज जानीयाः - तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उत्पन्नः । इहैव तव विजिते समन्तधर्मावभासधर्ममेघनिर्घोषध्वजबोधिमण्डे विहरति ॥ अथ खलु समन्तज्ञानार्चिपद्मभद्राभिरामनेत्रश्रीचन्द्रा राजदुहिता समन्तभद्रस्य बोधिसत्त्वस्य रूपकायं दृष्ट्वा प्रभाविकुर्वितमाभरणनिर्घोषं च श्रुत्वा महाप्रीतिप्रामोद्यवेगजाता तस्यां वेलायामेवं चित्तमुत्पादयामास - यन्मे किंचिदुपचितकुशलमूलं तेनाहमीदृशं कायं प्रतिलभेयम् । (ग्व् २१२) ईदृशमलंकारम्, ईदृशानि लक्षणानि, ईदृशमीर्यापथम्, ईदृशीमृद्धिम् । यथा अनेनान्धकारायां रात्रौ सत्त्वानामवभासं संजनय्य बुद्धोत्पादः संप्रकाशितः, तथाहमपि सत्त्वानामज्ञानान्धकारं विधूय महाज्ञानालोकं कुर्याम् । यत्र यत्र चोत्पद्येयम्, सर्वत्राविरहिता स्यामनेन कल्याणमित्रेण ॥ अथ खलु कुलपुत्र वैरोचनरत्नपद्मगर्भश्रीचूडश्चक्रवर्ती साध चतुरङ्गेन बलकायेन, सार्धं सप्तभी रत्नैः, सार्धं स्त्रीगणपरिवारेण, सार्धं पुत्रामात्यनैगमैर्जानपदैः, महत्या राजर्द्ध्या, महता राजानुभावेन तस्या रत्नकुसुमप्रदीपाया राजधान्या उच्चाल्य योजनमूर्ध्वं विहायस्यभ्युद्गम्य सर्वं जम्बुद्वीपं सर्वावतीं चातुर्द्वीपिकलोकधातुं महावभासेन स्फरित्वा सर्वसत्त्वानां बुद्धदर्शनसमादापनार्थं सर्वरत्नपर्वतेषु प्रतिभासं संदर्श्य सर्वचातुर्द्वीपिकलोकधातुपर्यापन्नानां सत्त्वानामभिमुखं स्थित्वा तद्बुद्धदर्शनं गाथाभिगीतेन संवर्णयामास - बुद्ध लोके समुत्पन्नस्त्राता यः सर्वदेहिनाम् । सर्वे व्रजन्त उत्थाय द्रष्टुं लोकविनायकम्

tatra mahāpadme samantajñānārciśrīguṇaketudhvajo nāma tathāgataḥ prādurbabhūva teṣāṃ sumeruparamāṇurajaḥsamānāṃ tathāgatānāṃ prathamakalpikaḥ, yena tasmin kalpe sarvaprathamamanuttarā samyaksaṃbodhirabhisaṃbuddhā / so 'nekavarṣasahasrāṇi dharmaśravaṇena sattvān paripācya daśavarṣasahasraṃ raśmyavabhāsavikurvitena paripācayāmāsa tatra daśabhirvarṣasahasraiḥ sa tathāgataḥ prādurbhaviṣyatīti / yattataḥ sarvatryadhvatathāgataviṣayapatrasaṃdhividyotitaraśmimeghavyūhamahāratnarājapadmāt sarvasattvavirajaḥpradīpā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ saṃjānanti sma - daśabhirvarṣasahasraistathāgata utpatsyata iti, navabhirvarṣasahasraiḥ sa tathāgata utpatsyata iti / yattato mahābodhivṛkṣādvirajovatīśrīgarbhā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ sarvarūpāṇi sūkṣmāṇyapaśyan - aṣṭābhirvarṣasahasraiḥ sa tathāgata utpatsyata iti / yattata eva mahābodhivṛkṣāt sarvasattvakarmavipākanirghoṣā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ svakasvakān karmasamudrānavataranti sma, karmasmṛtijñānaṃ ca pratyalabhanta - saptabhirvarṣasahasraiḥ sa tathāgata utpatsyata iti / yattata eva mahābodhivṛkṣāt sarvakuśalamūlasaṃbhavanirghoṣā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ paripūrṇā avikalasarvendriyāḥ saṃtiṣṭhante sma - ṣaḍbhirvarṣasahasraiḥ sa tathāgata utpatsyata iti / yattata eva mahābodhivṛkṣādacintyabuddhaviṣayanidarśananirghoṣā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ udārātiśayatayā vikurvanti sma - pañcabhirvarṣasahasraiḥ sa tathāgata utpatsyata iti / yattata eva mahābodhivṛkṣāt sarvabuddhakṣetrapariśuddhinigarjitapratibhāsavijñāpanā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ sarvākārāṃ buddhakṣetrapariśuddhimadrākṣuḥ caturbhirvarṣasahasraiḥ sa tathāgata utpatsyata iti / yattata eva mahābodhivṛkṣāt sarvatathāgataviṣayāsaṃbhedapradīpā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ tasya tathāgatasya sarvatrānugatavikurvitamavataranti sma - tribhirvarṣasahasraiḥ sa tathāgata utpatsyata iti / yattata eva mahābodhivṛkṣātsarvajagadabhimukhapradīpā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ tathāgatamabhimukhamadhimucyāpaśyan - dvābhyāṃ varṣasahasrābhyāṃ sa tathāgata utpasyata iti / yattata eva mahābodhivṛkṣāt tryadhvajñānavidyutpradīpā nāma raśmirniścacāra satathāgatapūrvayoganirghoṣā nāma, yayā te sattvāḥ spṛṣṭāḥ tasya tathāgatasya pūrvayogasamudrānavakalpayāmāsuravataranti sma - varṣasahasreṇa sa tathāgata utpatsyata iti / yattato mahābodhivṛkṣādvitimirajñānatathāgatapradīpā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ samantacakṣuṣkatāṃ pratyalabhanta sarvatathāgatavikurvitabuddhakṣetrasarvasattvadarśanatāyai - varṣaśatena sa tathāgata utpatsyata iti / yattata eva mahābodhivṛkṣāt sarvajagadbuddhadarśanavipākakuśalamūlasaṃbhavā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ tathāgatotpādasaṃjñāṃ pratyalabhanta - saptāhena sa tathāgata utpatsyata iti / yattata eva mahābodhivṛkṣāt sarvasattvapraharṣaprītiprāmodyasamudayanirghoṣā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ buddhadarśanamahāprītivegasaṃjātā abhūvan / iti hi kulaputra ebhirevaṃrūpairapramāṇaiḥ raśmiparipācananayairdaśavarṣasahasrāṇi sattvān paripācya saptame divase pūrṇe (Gv 210) sarvaṃ taṃ lokadhātumapramāṇaiḥ saṃkampananayaiḥ saṃkampya ekāntapariśuddhāmadhyatiṣṭhat yāvaddaśasu dikṣu sarvatathāgatānāṃ buddhakṣetrapariśuddhiḥ / tāmapi sarvāṃ praticittakṣaṇaṃ tatra buddhakṣetranānāvidhācintyavyūhān saṃdarśayāmāsa / atha paścime saptāhe ye tatra lokadhātau sattvā buddhadarśanaparipakvāḥ, te sarve bodhimaṇḍābhimukhāḥ sthitā abhūvan // atha khalu tasmin lokadhātau sarvacakravālebhya sarvasumerubhyaḥ sarvaparvatebhyaḥ sarvanadībhyaḥ sarvasāgarebhyaḥ sarvavṛkṣebhyaḥ sarvapṛthivītalebhyaḥ sarvanagarebhyaḥ sarvaprākārebhyaḥ sarvabhavanebhyaḥ sarvavimānebhyaḥ sarvavastrābharaṇaparibhogebhyaḥ sarvavādyavṛkṣebhyaḥ sarvatūryasaṃgītibhyaḥ sarvanirmāṇavyūhebhyaḥ ekaikasmādārambaṇāt sarvatathāgataviṣayaprabhavaṃ nigarjamānāḥ sarvagandhadhūpameghānnirścārya sarvaratnārcimeghān sarvagandhadhūpārcigarbhān sarvagandhamaṇivigrahameghān sarvamaṇivastraratnābharaṇameghān sarvaratnapuṣpasumerumeghān sarvacūrṇameghān sarvatathāgataraśmimeghān vidyotayamānāḥ sarvatathāgataprabhāmaṇḍalameghānniścārayamāṇāḥ sarvavādyatūryameghān saṃghaṭṭayamānāḥ sarvatathāgatapraṇidhānanirghoṣameghān pramuñcayamānāḥ sarvatathāgatasvarāṅgarutasamudrameghān nigarjayamānāḥ sarvatathāgatalakṣaṇānuvyañjanavicitrapratibhāsameghān nidarśayamānāḥ acintyāni tathāgatotpādapūrvanimittāni saṃdarśya tasya sarvatryadhvatathāgataviṣayapatrasaṃdhidyotitaraśmimeghavyūhamahāratnarājapadmasya bodhau daśabuddhakṣetraparamāṇurajaḥsamā mahāratnarājapadmaparivārāḥ samavatiṣṭhanta / teṣāṃ ca mahāratnarājapadmaparivārāṇāṃ mahāratnapadmānāṃ kesarakarṇikāsu daśabuddhakṣetraparamāṇurajaḥsamāni mahāmaṇiratnagarbhāṇi siṃhāsanāni prādurabhūvan / teṣu ca maṇiratnagarbheṣvāsaneṣu daśabuddhakṣetraśatasahasraparamāṇurajaḥsamā bodhisattvāḥ paryaṅkaniṣaṇṇāḥ prādurbabhūvuḥ // samanantarābhisaṃbuddhasya tasya bhagavataḥ samantajñānaratnārciśrīguṇaketurājñaḥ tathāgatasya anuttarāṃ samyaksaṃbodhim, atha tāvadeva daśasu dikṣu sarvalokadhātutathāgatā anuttarāṃ samyaksaṃbodhimabhisaṃbudhya yathāśayānāṃ sattvānāmabhimukhaṃ dharmacakraṃ pravartayāmāsuḥ / tena tato lokadhātoraprameyāḥ sattvāḥ sarvadurgativinipātebhyo vinivartitāḥ / aprameyāḥ sattvāḥ svargopapattipratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ śrāvakabhūmau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ pratyekabodhau paripācitāḥ / aprameyāḥ sattvā vegaprabhāniryāṇāyāṃ bodhau paripācitāḥ / aprameyāḥ sattvā vimalaparākramadhvajāyāṃ bodhau paripācitāḥ / aprameyāḥ sattvāḥ dharmaprabhāvanābhavananiryāṇāyāṃ bodhau pratiṣṭhāpitāḥ / aprameyāḥ sattvā indriyapariśuddhiprabhāvanāniryāṇāyāṃ bodhau paripācitāḥ / aprameyāḥ sattvāḥ balasamatāsamudācārānugamaniryāṇāyāṃ bodhau paripācitāḥ / aprameyāḥ sattvā dharmanagarābhimukhaviṣayayānasaṃbhavaniryāṇāyāṃ bodhau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ sarvatrānugatarddhyabhisaṃbhinnanayayānananiryāṇāyāṃ bodhau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ caryāprayogasamavasaraṇanayaniryāṇāyāṃ bodhau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ samādhiprasthānanayaniryāṇāyāṃ bodhau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ sarvārambaṇaviṣayapariśuddhimaṇḍalanayaniryāṇāyāṃ bodhau pratiṣṭhāpitāḥ / aprameyāḥ sattvā bodhisattvabodhau cittamutpāditāḥ / aprameyāḥ sattvā bodhisattvamārge (Gv 211) pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ pāramitāmārgaviśuddhau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ prathamāyāṃ bodhisattvabhūmau pratiṣṭhāpitāḥ / evaṃ tasya tathāgatasya acintyena buddhavṛṣabhitāvikurvitena dharmacakraṃ pravartayataḥ praticittakṣaṇamanantāprameyāḥ sattvā dvitīyāyāṃ tṛtīyāyāṃ caturthyāṃ pañcabhyāṃ ṣaṣṭhyāṃ saptamyāmaṣṭabhyāṃ navamyām, aprameyāḥ sattvā daśabhyāṃ bhūmau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ praṇidhānavaiśeṣikāyāṃ bodhisattvacaryāyāmavatāritāḥ / aprameyāḥ sattvāḥ samantabhadrabodhisattvacaryāpraṇidhānaviśuddhau pratiṣṭhāpitāḥ / evaṃ tasya tathāgatasya acintyena buddhavṛṣabhitāvikurvitena dharmacakraṃ pravartayataḥ praticittakṣaṇamanantamadhyasattvadhāturvinayamagamat / tasmiṃśca lokadhātau sarvasattvā yathāśayāstasya tathāgatasya nānātmabhāvopāyakauśalyapramuktāṃ dharmadeśanāmājānanti sma // tasyāṃ khalu punā ratnakusumapradīpāyāṃ rājadhānyāṃ rūpavarṇaviṣayaparibhogamadamattānāṃ sattvānāmanyonyamavamanyamānānāṃ vinayavaśaṃ samupādāya samantabhadro bodhisattva udāravarṇarūpagatamabhinirmāya tāṃ rājadhānīmanuprāptaḥ / tasyodārayā prabhayā sarvā sā rājadhānyavabhāsitā / yā ca tasyā rājadhānyāḥ prabhā, yā ca rājñaścakravartino vairocanaratnapadmagarbhaśrīcūḍasya svaśarīraniryātā prabhā, yā ca strīratnasya prabhā, yā ca ratnavṛkṣāṇāṃ prabhā, yā ca mahāmaṇiratnasya prabhā, yā ca candrasūryagrahanakṣatrajyotiṣāṃ prabhā, yā ca sarvajambudvīpe prabhā, sā ca sarvā na prajñāyate sma / tadyathāpi nāma āditye udite vigate 'ndhakāre na candragrahanakṣatrajyotiṣāṃ nāgnerna maṇīnāṃ prabhā prajñāyate sma, evameva samantabhadrasya bodhisattvasya prabhayābhibhūtāḥ tatra jambudvīpe sarvaprabhā na prajñāyate sma / tadyathāpi nāma jāmbūnadakanakabimbasya purato maṣivigraho na śobhate na bhāsate na tapati na virocate, evameva samantabhadrasya bodhisattvasya purataḥ teṣāṃ sattvānāṃ rūpakāyā na śobhante, na bhāsante, na tapanti, na virocante // teṣāmetadabhavat - ko 'nvayaṃ bhaviṣyati devo vā brahmā vā, yasya purato vayaṃ na śobhāmahe, na bhāsāmahe, na tapāmo na virocāmahe kāyena vā prabhayā vā śubhayā vā varṇena vā tejasā vā? na cāsya śaknumo nimittamudgrahītum // atha khalu samantabhadro bodhisattvaḥ tasyā ratnakusumapradīpāyā rājadhānyā madhye vairocanaratnapadmagarbhaśrīcūḍasya rājñaścakravartino vimānasyoparyantarikṣe sthitvā taṃ vairocanaratnapadmagarbhaśrīcūḍaṃ rājānaṃ cakravartinametadavocat - yat khalu mahārāja jānīyāḥ - tathāgato 'rhan samyaksaṃbuddho loka utpannaḥ / ihaiva tava vijite samantadharmāvabhāsadharmameghanirghoṣadhvajabodhimaṇḍe viharati // atha khalu samantajñānārcipadmabhadrābhirāmanetraśrīcandrā rājaduhitā samantabhadrasya bodhisattvasya rūpakāyaṃ dṛṣṭvā prabhāvikurvitamābharaṇanirghoṣaṃ ca śrutvā mahāprītiprāmodyavegajātā tasyāṃ velāyāmevaṃ cittamutpādayāmāsa - yanme kiṃcidupacitakuśalamūlaṃ tenāhamīdṛśaṃ kāyaṃ pratilabheyam / (Gv 212) īdṛśamalaṃkāram, īdṛśāni lakṣaṇāni, īdṛśamīryāpatham, īdṛśīmṛddhim / yathā anenāndhakārāyāṃ rātrau sattvānāmavabhāsaṃ saṃjanayya buddhotpādaḥ saṃprakāśitaḥ, tathāhamapi sattvānāmajñānāndhakāraṃ vidhūya mahājñānālokaṃ kuryām / yatra yatra cotpadyeyam, sarvatrāvirahitā syāmanena kalyāṇamitreṇa // atha khalu kulaputra vairocanaratnapadmagarbhaśrīcūḍaścakravartī sādha caturaṅgena balakāyena, sārdhaṃ saptabhī ratnaiḥ, sārdhaṃ strīgaṇaparivāreṇa, sārdhaṃ putrāmātyanaigamairjānapadaiḥ, mahatyā rājarddhyā, mahatā rājānubhāvena tasyā ratnakusumapradīpāyā rājadhānyā uccālya yojanamūrdhvaṃ vihāyasyabhyudgamya sarvaṃ jambudvīpaṃ sarvāvatīṃ cāturdvīpikalokadhātuṃ mahāvabhāsena spharitvā sarvasattvānāṃ buddhadarśanasamādāpanārthaṃ sarvaratnaparvateṣu pratibhāsaṃ saṃdarśya sarvacāturdvīpikalokadhātuparyāpannānāṃ sattvānāmabhimukhaṃ sthitvā tadbuddhadarśanaṃ gāthābhigītena saṃvarṇayāmāsa - buddha loke samutpannastrātā yaḥ sarvadehinām / sarve vrajanta utthāya draṣṭuṃ lokavināyakam

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/Gand/13.20

Cite as: Gandavyuhasutra 13.20, in HREEM (hreem.cc/library/Gand/13.20), after GRETIL, Gandavyuhasutra Based on the edition by P.L.

Edition, numbering and licence

GRETIL 4_rellit/buddh/bsu016_u.htm — Gandavyuhasutra Based on the edition by P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon | NOTE: the file numbers verses only within chapters; chapter numbers were inferred from each restart at 1 — verify against a printed edition before citing formally.

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text