Library·Gandavyuhasutra·13·13.30

Gandavyuhasutra 13.30

Gand 13.30

अथ खलु समन्तज्ञानरत्नार्चिःपद्मभद्राभिरामनेत्रश्रीचन्द्रा चक्रवर्तिदुहिता स्वान्याभरणानि कायान्निर्मुच्य तैराभरणैस्तं भगवन्तं समन्तज्ञानरत्नार्चिश्रीगुणकेतुराजानं तथागतमभ्यवकिरत् । अथ तान्याभरणानि तस्य भगवतः उपरि मूर्धसंधौ महामणिरत्नाभरणच्छत्रं संस्थितमभूवन् विचित्रमणिरत्नजालपरिक्षिप्तं नागेन्द्रकायपरिगृहीतं सर्वाभरणशरीरसुसंस्थितपरिमण्डलं दशाभरणच्छत्रमण्डलपरिवारितमेकान्तपरिशुद्धं कूटागारसंस्थानविचित्रव्यूहं सर्वरत्नाभरणमेघसंछादितं सर्वमणिराजद्रुमव्यूहसंछन्नं सर्वगन्धसागरमणिराजसमलंकृतम् । तस्य मध्ये धर्मधातुप्रभवसर्वरत्नमणिशाखाप्रलम्बं नाम महाबोधिवृक्षमद्राक्षीत् अनन्तमध्यव्यूहनिर्देशं प्रदक्षिणनानाव्यूहसंदर्शनम् । तत्र वैरोचनं नाम तथागतमद्राक्षीत् अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैर्बोधिसत्त्वैः परिवृतं पुरस्कृतं सर्वैः समन्तभद्रबोधिसत्त्वचर्याप्रणिधाननिर्यातैः नानाबोधिसत्त्वैरचिन्त्यव्यूहासंभिन्नविहारिभिः, सर्वलोकेन्द्रांश्च तदभिमुखानद्राक्षीत् । तस्य भगवतो वैरोचनस्यानन्तमध्यं बुद्धविकुर्वितमद्राक्षीत्, पूर्वबोधिसत्त्वचर्याकल्पपरंपरां च अवतरति स्म । तस्याश्च लोकधातोः संवर्तविवर्तकल्पानवतरति स्म । तत्र लोकधातावतीतां बुद्धवंशपरंपरामवतरति स्म । तस्यां च लोकधातौ समन्तभद्रबोधिसत्त्वमद्राक्षीत् । सर्वतथागतपादमूलेषु बुद्धपूजाप्रयुक्तसर्वसत्त्वपरिपाकविनयाभिमुखं चाद्राक्षीत् । सर्वबोधिसत्त्वांश्च समन्तभद्रस्य बोधिसत्त्वस्य काये प्रतिभासप्राप्तान्, आत्मानं च तत्रैवानुगतमद्राक्षीत् सर्वतथागतपादमूलेषु । समन्तभद्रस्य बोधिसत्त्वस्य कायप्रतिभासप्राप्तसर्वबोधिसत्त्वपादमूलेषु सर्वसत्त्वभवनेषु, तासु च लोकधातुष्वेकैकस्मिन् लोकधातौ बुद्धक्षेत्रपरमाणुरजःसमान् लोकधातूनद्राक्षीत् । ससंधिव्यूहान्, सप्रतिष्ठानान्, ससंस्थानान्, सशरीरान्, सनानाव्यूहपरिशुद्धान्, नानाव्यूहमेघपरिसंछन्नान्, नानाकल्पनामसंख्येयान्, नानातथागतवंशनिर्देशान्, नानात्र्यध्वनयावतारान्, नानादिक्प्रसरप्रवेशान्, नानाधर्मधातुप्रसरपर्यापन्नान् (ग्व् २१४) नानाधर्मधातुतलप्रवेशान्, नानाकाशतलव्यवस्थानान्, नानाबोधिगण्डव्यूहान्, नानातथागतविकुर्वितप्रभान्, नानाबुद्धसिंहासनव्यूहान्, नानातथागतपर्षन्मण्डलसमुद्रान् नानातथागतपर्षन्मण्डलपरिवर्तान् नानातथागतोपायकौशल्यपरिदीपनान्, नानातथागतधर्मचक्रप्रवर्तननयान्, नानातथागतस्वराङ्गरुतनिर्घोषमुक्तान् नानामन्त्रनयसागरनिर्देशान् नानासूत्रान्तमेघानुरवमाणानद्राक्षीत् । दृष्ट्वा च भूयस्या मात्रया महाप्रीतिप्रसादवेगान् प्रत्यलभत ॥ तस्या महाप्रीतिवेगसंजातायाः स भगवान् समन्तज्ञानरत्नार्चिःश्रीगुणकेतुराजस्तथागतः सर्वतथागतधर्मचक्रनिर्घोषं नाम सूत्रान्तं संप्रकाशयामास दशबुद्धक्षेत्रपरमाणुरजःसमसूत्रान्तपरिवारम् । तस्यास्तं सूत्रान्तं श्रुत्वा दश समाधिमुखशतसहस्राण्यवक्रान्तानि मृदूनि सुखसंस्पर्शनानि । तद्यथापि नाम तद्दिवसावक्रान्तस्य गर्भस्य मातुः कुक्षौ विज्ञानम्, तद्यथापि नाम सत्त्वानां कर्माभिनिर्हारम्, तद्यथापि नाम तद्दिवसावरुप्तस्य सालकल्याणवृक्षस्य बीजाङ्कुरहेतुः, एवमेव ते समाधयो मृदवः कमनीयाः । यदुत सर्वतथागताभिमुखविज्ञापनो नाम समाधिः । सर्वक्षेत्रप्रसरानुगतावभासो नाम समाधिः । सर्वत्र्यध्वनयावतारप्रवेशो नाम समाधिः । सर्वतथागतधर्मचक्रनिर्घोषो नाम समाधिः । सर्वबुद्धप्रणिधानसागरविज्ञापनो नाम समाधिः । सर्वसंसारदुःखप्रतिपीडितसर्वनिर्याणनिर्घोषविज्ञापनो नाम समाधिः । सर्वसत्त्वतमोन्धकारविधमनप्रणिधानव्यूहो नाम समाधिः । सर्वसत्त्वदुःखविप्रमोक्षप्रणिधिविलम्बो नाम समाधिः । सर्वसत्त्वसुखनिष्पत्तिसंभवो नाम समाधिः । सर्वसत्त्वपरिपाकविनयापरिखेदगर्भो नाम समाधिः । सर्वबोधिसत्त्वमार्गावतरणध्वजो नाम समाधिः । सर्वबोधिसत्त्वभूम्याक्रमणसंभवव्यूहो नाम समाधिः । एवंप्रमुखानि अस्या दश समाधिमुखशतसहस्राण्यवक्रान्तानि ॥ सा सूक्ष्मसमाहितचित्ता अनिञ्जनचित्ता प्रहर्षितचित्ता समाश्वासितचित्ता अनाभासचित्ता कल्याणमित्रेष्वनुगतचित्ता गम्भीरसर्वज्ञतारम्बणचित्ता मैत्रानुगमनसागरप्रसृतचित्ता सर्वाभिनिवेशोच्चलितचित्ता सर्वलोकविषयासंवासचित्ता तथागतविषयावतरणचित्ता सर्वबुद्धरूपवर्णसागरावभासितचित्ता अक्षुभितचित्ता अनीरितचित्ता अप्रतिहतचित्ता अभिन्नचित्ता अनुन्नतचित्ता अनवनतचित्ता अखिन्नचित्ता अनिवर्त्यचित्ता असंसीदनचित्ता सर्वधर्मस्वभावनिध्यप्तिचित्ता सर्वधर्मस्वभावनयसागरानुगतचित्ता सर्वधर्मप्रविचयनयानुगतचित्ता सर्वसत्त्वसमुद्रावतरणचित्ता सर्वजगत्परित्राणचित्ता विपुलबुद्धसमुद्रावभाससंजातचित्ता, सर्वतथागतप्रणिधानसागरावतरणचित्ता सर्वावरणपर्वतविकिरणचित्ता विपुलपुण्यसंभारसमुदानयनचित्ता दशतथागतबलप्रतिलाभाभिमुखचित्ता सर्वबोधिसत्त्वविषयावभासप्रतिलब्धचित्ता सर्वबोधिसत्त्वसंभारसंवर्तनचित्ता सर्वदिक्समुद्रस्फरणचित्ता समन्तभद्रमहाप्रणिधानाध्यालम्बनतायै, दशबुद्धक्षेत्रपरमाणुरजःसमैः प्रणिधानसमुद्रैः सर्वतथागतानां पूर्वप्रणिधानं स्वबुद्धक्षेत्रपरिशुद्धये ऽभिनिर्हरति स्म, यदुत सर्वसत्त्वपरिपाकविनयाय धर्मधातुनयसमुद्रप्रसरपरिज्ञायै धर्मधातुनयसमुद्रावतरणतायै सर्वबुद्धक्षेत्रेष्वपरान्तकल्पबोधिसत्त्वचर्यावतरणतायै सर्वबोधिसत्त्वचर्यामण्डलापरान्तकल्पसंवासनतायै सर्वतथागतोपसंक्रमणतायै सर्वकल्याणमित्रारागणतायै (ग्व् २१५) सर्वतथागतपूजोपस्थानपरिपूरणतायै प्रतिचित्तक्षणं सर्वज्ञज्ञानविरोहणविबोधनबोधिसत्त्वचर्यानुपच्छेदनतायै । एवंप्रमुखैर्दशबुद्धक्षेत्रप्रमाणुरजःसमैः प्रणिधानाभिनिर्हारमुखसमुद्रैः समन्तभद्रायां बोधिसत्त्वचर्यायां प्रणिधिमभिनिर्हरति स्म तस्याः समन्तभद्रबोधिसत्त्वचर्याप्रणिध्यभिनिर्हाराय ॥ स भगवान् समन्तज्ञानरत्नार्चिश्रीगुणकेतुराजस्तथागतः पूर्वकुशलमूलानि संचोदयति उद्योतयति संदर्शयति विवृणोति विभजति संप्रकाशयति सारीकरोति अविप्रणाशतायै, विपुलीकरोति महास्फरणतायै, स्थापयति सर्वज्ञताप्रमाणीकरणतायै, यदुत प्रथमचित्तोत्पादमुपादाय तथागतपूर्वप्रणिधिसमुद्रासंख्येयप्रतिलाभाय ॥ भूतपूर्वं कुलपुत्र अतीते ऽध्वनि ततः परेण दशमे कल्पे मणिसूर्यचन्द्रविद्योतितप्रभायां लोकधातौ चन्द्रध्वजश्रीकेतोः तथागतस्य प्रवचने समन्तज्ञानार्चिःपद्मभद्राभिरामनेत्रश्रीचन्द्रया दारिकया समन्तभद्रबोधिसत्त्वसमादापितया प्रलुग्नस्तथागतविग्रहः पद्मनिषण्णः प्रतिसंस्कारितः । प्रतिसंस्कार्य चित्रितः । चित्रयित्वा रत्नप्रतिमण्डितः कृतः । अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं समन्तभद्रबोधिसत्त्वकल्याणमित्रमागम्य । सा तेन कुशलमूलेन अविनिपातधर्मिणी सदा देवेन्द्रकुलेषु मनुष्येन्द्रकुलेषु चोपपन्ना, सर्वत्र चाभिरूपाभूत् प्रासादिका दर्शनीया परमशुभवर्णपुष्कलतया समन्वागता । सदा च अविरहिताभूत्तथागतदर्शनेन समन्तभद्रबोधिसत्त्वेन । तेनैव च कल्याणमित्रेण तस्यां तस्यां जातौ परिपाचिता संचोदिता स्मारिता । एतर्हि च पुनस्तया समन्तभद्रो बोधिसत्त्व आरागितो ऽत्यन्ताविरागणतया ॥ तत्किं मन्यसे कुलपुत्र - अन्यः स तेन कालेन तेन समयेन वैरोचनरत्नपद्मगर्भश्रीप्रभाचूडो नाम राजचक्रवर्ती? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम् । मैत्रेयः स बोधिसत्त्वः तेन कालेन तेन समयेन वैरोचनरत्नपद्मगर्भश्रीप्रभाचूडो नाम राजाभूच्चक्रवर्ती । स्यात्खलु पुनस्ते कुलपुत्र एवम् - अन्या सा तेन कालेन तेन समयेन संपूर्णश्रीवक्रा नाम राजभार्याभूत्? न खलु एवं द्रष्टव्यम् । इयं प्रशान्तरुतसागरवती नाम रात्रिदेवता, या ममानन्तरं संनिषण्णा । तत्किं मन्यसे कुलपुत्र - अन्या सा तेन कालेन तेन समयेन समन्तज्ञानार्चिःपद्मभद्राभिरामनेत्रश्रीचन्द्रा नाम राजदुहिता अभूत्? न खल्वेवं द्रष्टव्यम् । अहं सा तेन कालेन तेन समयेन समन्तज्ञानार्चिःपद्मभद्राभिरामनेत्रश्रीचन्द्रा नाम राजदुहिता अभूवम् । यन्मे दारिकाभूतया इन्द्रध्वजकेतोस्तथागतस्य प्रवचने प्रलुग्नस्तथागतविग्रहः पद्मोद्गतः प्रतिसंस्कारितः, स मे हेतुरभूत् यावदनुत्तरायाः सम्यक्संबोधेः । यदा चास्मि समन्तभद्रेण बोधिसत्त्वेन अनुत्तरायां सम्यक्संबोधौ समादापिता, स मे कुलपुत्र प्रथमचित्तोत्पादो बोधाय अभूत् । यदा च स मे भगवान् समन्तज्ञानार्चिःश्रीगुणकेतुराजः तथागत उपसंक्रम्य आभरणैरवकीर्णः, तथागतविकुर्वितप्रातिहार्यं च दृष्ट्वा धर्मश्च मे तस्य भगवतो ऽन्तिकाच्छ्रुतः, तदा मयैष सर्वलोकाभिमुइखजगद्विनयनिदर्शनो बोधिसत्त्वविमोक्षः प्रतिलब्धः । सर्वे च ते सुमेरुपरमाणुरजःसमास्तथागता आरागिता अभिराधिताः, (ग्व् २१६) सर्वोपकरणपूजासत्कारेण च सत्कृताः । यश्च तैस्तथागतैर्धर्मो भाषितः, स मे सर्वं श्रुतः । तेषां चास्मि तथागतानामववादानुशासनीषु प्रतिपन्ना । तेषु च मे तथागतेषु तीव्रं गौरवं प्रतिलब्धं यथारूपेण गौरवेण एकचित्तक्षणे तान् सर्वांस्तथागतांस्तानि बोधिसत्त्वपर्षन्मण्डलानि तानि च सर्वाणि बुद्धक्षेत्राणि पश्यामि ॥ तस्यां च वैरोचनश्रियां लोकधातौ संवृत्तायां तत्र च विरजोमण्डले कल्पे निर्गते ऽनन्तरे मणिचक्रविचित्रप्रतिमण्डितव्यूहा नाम लोकधातुर्महाप्रभश्च नाम कल्पो ऽभूत् । तत्र पञ्च बुद्धशतान्युत्पन्नानि । तानि मया सर्वाण्यारागितानि । तस्मिंश्च खलु महाप्रभे कल्पे महाकरुणमेघध्वजो नाम तथागतः प्राथमकल्पिको ऽभूत् । स मया रात्रिदेवताभूतया अभिनिष्क्रामन् पूजितः । तस्यानन्तरं वज्रनारायणकेतुर्नाम तथागत उत्पन्नः । स मया चक्रवर्तिभूतया पूजितः । तेन च मे सर्वबुद्धोत्पादसंभवो नाम सूत्रान्तः संप्रकाशितो दशबुद्धक्षेत्रपरमाणुरजःसमसूत्रान्तपरिवारः । स च मे श्रुतः उद्गृहीतः । तस्यानन्तरं ज्वलनार्चिःपर्वतश्रीव्यूहो नाम तथागत उत्पन्नः । स मे श्रेष्ठिदुहितृभूतया पूजितः । तेन च मे त्र्यध्वावभासगर्भो नाम सूत्रान्तः संप्रकाशितो जम्बुद्वीपपरमाणुरजःसमसूत्रान्तपरिवारः । स च मे श्रुतः उद्गृहीतः । तस्यानन्तरं सर्वधर्मसमुद्राभ्युद्गतवेगराजो नाम तथागतो लोक उदपादि । स मया असुरराजभूतया पूजितः । तेन च मे सर्वधर्मधातुतलज्ञानभेदो नाम सूत्रान्तः संप्रकाशितः पञ्चसूत्रान्तशतपरिवारः । स च मे श्रुतः उद्गृहीतः । तस्यानन्तरं गम्भीरधर्मश्रीसमुद्रप्रभो नाम तथागत उत्पन्नः । स मे नागेन्द्रकन्याभूतया पूजितश्चिन्ताराजमणिरत्नमेघवर्षमभिप्रवर्षन्त्या । तेन च मे प्रीतिसागरविवर्धनवेगो नाम सूत्रान्तः संप्रकाशितो दशसूत्रान्तकोटीशतसहस्रपरिवारः । स च मे श्रुत्वोद्गृहीतः । तस्यानन्तरं रत्नशिखरार्चिःपर्वतप्रदीपो नाम तथागतः उत्पन्नः । स च मे सागरदेवताभूतया रत्नपद्ममेघवर्षैरुपसंक्रम्य पूजितः । तेन च मे धर्मधातुसागरनयप्रभो नाम सूत्रान्तः संप्रकाशितो दशबुद्धक्षेत्रपरमाणुरजःसमसूत्रान्तपरिवारः । स च मे श्रुत्वोद्गृहीतः, स्मृत्या च संधारितः । तस्यानन्तरं गुणसमुद्रावभासमण्डलश्रीर्नाम तथागत उत्पन्नः । स मे पञ्चाभिज्ञऋषिभूतया महर्द्धिविकुर्वितेन षष्टिऋषिसहस्रपरिवृतया उपसंक्रमय गन्धपुष्पशिखरमेघानभिप्रवर्षन्त्या पूजितः । तेन च मे अनालयधर्मप्रदीपो नाम सूत्रान्तः संप्रकाशितः षष्टिसूत्रान्तसहस्रपरिवारः । स च मे श्रुत्वोद्गृहीतः, तस्यानन्तरं वैरोचनश्रीगर्भो नाम तथागत उत्पन्नः । अहं च समतार्थसंभवा नाम पृथिवीदेवता अभुवम् । सा अहमप्रमेयपृथिवीदेवतापरिवारा सर्वरत्नद्रुमकोशेभ्यो रत्नपुष्पमेघवर्षाण्युत्सृजमाना सर्वरत्नहारमेघान् प्रवर्षमाणा उपसंक्रान्ता तस्य तथागतस्य पूजाकर्मणे । तेन च मे सर्वतथागतसंभवज्ञानाकरगर्भो नाम सूत्रान्तः संप्रकाशितो ऽप्रमेयसूत्रान्तपरिवारः । स च मे श्रुत्वा धारितो न विप्रणाशितः । तेषां खलु कुलपुत्र पञ्चानां बुद्धशतानां सर्वपश्चिमो धर्मधातुगगनपूर्णरत्नशिखरश्रीप्रदीपो नाम तथागतो लोक उदपादि । अहं च तेन कालेन अभिरामश्रीवक्रा नाम (ग्व् २१७) नटदारिका अभूवम् । सा अहं तस्य तथागतस्य नगरप्रवेशसमये नाटके प्रवृत्ते बुद्धानुभावेन ऊर्ध्वं गगनतले स्थित्वा गाथासहस्रेण तं तथागतमभिष्टुवन्ती उपसंक्रान्ता । तेन च मे धर्मधातुविद्योतितव्यूहं नाम रश्मिमूर्णकोशादुत्सृज्य सर्वकायो ऽवभासितः । तया च मे रश्म्या समनन्तरस्पृष्टया धर्मधातुनयावर्तगर्भो नाम विमोक्षः प्रतिलब्धः ॥ इति हि कुलपुत्र एतान् प्रमुखान् कृत्वा यानि तत्र मणिचक्रविचित्रप्रतिमण्डितव्यूहायां लोकधातौ महाप्रभे कल्पे पञ्च बुद्धशतान्युत्पन्नानि, तानि मया सर्वाण्यारागितानि, पूजा च मे तेषां तथागतानां कृता । यश्च मे तैस्तथागतैर्धर्मो देशितः, तं सर्वं स्मरामि । एकपदव्यञ्जनमपि मे ततो धर्मनयान्न विप्रमुषितम् । एकैकस्य च मे तथागतस्यान्तिकमुपसंक्रामन्त्या अपरिमाणानां सत्त्वानामर्थः कृतो बुद्धधर्मसंवर्णनतया । एकैकस्य च मे तथागतस्य अन्तिकात् त्र्यध्वज्ञानगर्भधर्मधातुविपुलो नाम धर्मधातुशरीरसागरः सर्वज्ञताविद्युदवभासः प्रतिलब्धः सर्वसमन्तभद्रचर्यासंवाससमवसरणः । एतर्ह्यपि मे कुलपुत्र प्रतिचित्तक्षणमनन्तमध्यास्तथागता आभासमागच्छन्ति । सर्वेषां च मे तेषां तथागतानां सहदर्शनात् सर्वज्ञताविद्युदवभासा आशये ऽवक्रान्ता अप्रतिलब्धपूर्वा अदृष्टपूर्वाः । न च समन्तभद्राया बोधिसत्त्वचर्याया उच्चलामि । तत्कस्य हेतोः? अनन्तमध्यनिर्देश एष सर्वज्ञताविद्युदवभासप्रतिलम्भः ॥ अथ खलु समन्तसत्त्वत्राणोजःश्री रात्रिदेवता तस्यां वेलायां तमेव सर्वलोकाभिमुखजगद्विनयनिदर्शनं बोधिसत्त्वविमोक्षं भूयस्या मात्रया प्रदर्शयमाना बुद्धाधिष्ठानेन सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत - शृणु सूधना वचनमेतु ममा गम्भीर दुर्दृश दुरावगहम् । सर्वत्रियध्वतलभेदनयं धर्माभमण्डलसमन्तप्रभम्

atha khalu samantajñānaratnārciḥpadmabhadrābhirāmanetraśrīcandrā cakravartiduhitā svānyābharaṇāni kāyānnirmucya tairābharaṇaistaṃ bhagavantaṃ samantajñānaratnārciśrīguṇaketurājānaṃ tathāgatamabhyavakirat / atha tānyābharaṇāni tasya bhagavataḥ upari mūrdhasaṃdhau mahāmaṇiratnābharaṇacchatraṃ saṃsthitamabhūvan vicitramaṇiratnajālaparikṣiptaṃ nāgendrakāyaparigṛhītaṃ sarvābharaṇaśarīrasusaṃsthitaparimaṇḍalaṃ daśābharaṇacchatramaṇḍalaparivāritamekāntapariśuddhaṃ kūṭāgārasaṃsthānavicitravyūhaṃ sarvaratnābharaṇameghasaṃchāditaṃ sarvamaṇirājadrumavyūhasaṃchannaṃ sarvagandhasāgaramaṇirājasamalaṃkṛtam / tasya madhye dharmadhātuprabhavasarvaratnamaṇiśākhāpralambaṃ nāma mahābodhivṛkṣamadrākṣīt anantamadhyavyūhanirdeśaṃ pradakṣiṇanānāvyūhasaṃdarśanam / tatra vairocanaṃ nāma tathāgatamadrākṣīt anabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvaiḥ parivṛtaṃ puraskṛtaṃ sarvaiḥ samantabhadrabodhisattvacaryāpraṇidhānaniryātaiḥ nānābodhisattvairacintyavyūhāsaṃbhinnavihāribhiḥ, sarvalokendrāṃśca tadabhimukhānadrākṣīt / tasya bhagavato vairocanasyānantamadhyaṃ buddhavikurvitamadrākṣīt, pūrvabodhisattvacaryākalpaparaṃparāṃ ca avatarati sma / tasyāśca lokadhātoḥ saṃvartavivartakalpānavatarati sma / tatra lokadhātāvatītāṃ buddhavaṃśaparaṃparāmavatarati sma / tasyāṃ ca lokadhātau samantabhadrabodhisattvamadrākṣīt / sarvatathāgatapādamūleṣu buddhapūjāprayuktasarvasattvaparipākavinayābhimukhaṃ cādrākṣīt / sarvabodhisattvāṃśca samantabhadrasya bodhisattvasya kāye pratibhāsaprāptān, ātmānaṃ ca tatraivānugatamadrākṣīt sarvatathāgatapādamūleṣu / samantabhadrasya bodhisattvasya kāyapratibhāsaprāptasarvabodhisattvapādamūleṣu sarvasattvabhavaneṣu, tāsu ca lokadhātuṣvekaikasmin lokadhātau buddhakṣetraparamāṇurajaḥsamān lokadhātūnadrākṣīt / sasaṃdhivyūhān, sapratiṣṭhānān, sasaṃsthānān, saśarīrān, sanānāvyūhapariśuddhān, nānāvyūhameghaparisaṃchannān, nānākalpanāmasaṃkhyeyān, nānātathāgatavaṃśanirdeśān, nānātryadhvanayāvatārān, nānādikprasarapraveśān, nānādharmadhātuprasaraparyāpannān (Gv 214) nānādharmadhātutalapraveśān, nānākāśatalavyavasthānān, nānābodhigaṇḍavyūhān, nānātathāgatavikurvitaprabhān, nānābuddhasiṃhāsanavyūhān, nānātathāgataparṣanmaṇḍalasamudrān nānātathāgataparṣanmaṇḍalaparivartān nānātathāgatopāyakauśalyaparidīpanān, nānātathāgatadharmacakrapravartananayān, nānātathāgatasvarāṅgarutanirghoṣamuktān nānāmantranayasāgaranirdeśān nānāsūtrāntameghānuravamāṇānadrākṣīt / dṛṣṭvā ca bhūyasyā mātrayā mahāprītiprasādavegān pratyalabhata // tasyā mahāprītivegasaṃjātāyāḥ sa bhagavān samantajñānaratnārciḥśrīguṇaketurājastathāgataḥ sarvatathāgatadharmacakranirghoṣaṃ nāma sūtrāntaṃ saṃprakāśayāmāsa daśabuddhakṣetraparamāṇurajaḥsamasūtrāntaparivāram / tasyāstaṃ sūtrāntaṃ śrutvā daśa samādhimukhaśatasahasrāṇyavakrāntāni mṛdūni sukhasaṃsparśanāni / tadyathāpi nāma taddivasāvakrāntasya garbhasya mātuḥ kukṣau vijñānam, tadyathāpi nāma sattvānāṃ karmābhinirhāram, tadyathāpi nāma taddivasāvaruptasya sālakalyāṇavṛkṣasya bījāṅkurahetuḥ, evameva te samādhayo mṛdavaḥ kamanīyāḥ / yaduta sarvatathāgatābhimukhavijñāpano nāma samādhiḥ / sarvakṣetraprasarānugatāvabhāso nāma samādhiḥ / sarvatryadhvanayāvatārapraveśo nāma samādhiḥ / sarvatathāgatadharmacakranirghoṣo nāma samādhiḥ / sarvabuddhapraṇidhānasāgaravijñāpano nāma samādhiḥ / sarvasaṃsāraduḥkhapratipīḍitasarvaniryāṇanirghoṣavijñāpano nāma samādhiḥ / sarvasattvatamondhakāravidhamanapraṇidhānavyūho nāma samādhiḥ / sarvasattvaduḥkhavipramokṣapraṇidhivilambo nāma samādhiḥ / sarvasattvasukhaniṣpattisaṃbhavo nāma samādhiḥ / sarvasattvaparipākavinayāparikhedagarbho nāma samādhiḥ / sarvabodhisattvamārgāvataraṇadhvajo nāma samādhiḥ / sarvabodhisattvabhūmyākramaṇasaṃbhavavyūho nāma samādhiḥ / evaṃpramukhāni asyā daśa samādhimukhaśatasahasrāṇyavakrāntāni // sā sūkṣmasamāhitacittā aniñjanacittā praharṣitacittā samāśvāsitacittā anābhāsacittā kalyāṇamitreṣvanugatacittā gambhīrasarvajñatārambaṇacittā maitrānugamanasāgaraprasṛtacittā sarvābhiniveśoccalitacittā sarvalokaviṣayāsaṃvāsacittā tathāgataviṣayāvataraṇacittā sarvabuddharūpavarṇasāgarāvabhāsitacittā akṣubhitacittā anīritacittā apratihatacittā abhinnacittā anunnatacittā anavanatacittā akhinnacittā anivartyacittā asaṃsīdanacittā sarvadharmasvabhāvanidhyapticittā sarvadharmasvabhāvanayasāgarānugatacittā sarvadharmapravicayanayānugatacittā sarvasattvasamudrāvataraṇacittā sarvajagatparitrāṇacittā vipulabuddhasamudrāvabhāsasaṃjātacittā, sarvatathāgatapraṇidhānasāgarāvataraṇacittā sarvāvaraṇaparvatavikiraṇacittā vipulapuṇyasaṃbhārasamudānayanacittā daśatathāgatabalapratilābhābhimukhacittā sarvabodhisattvaviṣayāvabhāsapratilabdhacittā sarvabodhisattvasaṃbhārasaṃvartanacittā sarvadiksamudraspharaṇacittā samantabhadramahāpraṇidhānādhyālambanatāyai, daśabuddhakṣetraparamāṇurajaḥsamaiḥ praṇidhānasamudraiḥ sarvatathāgatānāṃ pūrvapraṇidhānaṃ svabuddhakṣetrapariśuddhaye 'bhinirharati sma, yaduta sarvasattvaparipākavinayāya dharmadhātunayasamudraprasaraparijñāyai dharmadhātunayasamudrāvataraṇatāyai sarvabuddhakṣetreṣvaparāntakalpabodhisattvacaryāvataraṇatāyai sarvabodhisattvacaryāmaṇḍalāparāntakalpasaṃvāsanatāyai sarvatathāgatopasaṃkramaṇatāyai sarvakalyāṇamitrārāgaṇatāyai (Gv 215) sarvatathāgatapūjopasthānaparipūraṇatāyai praticittakṣaṇaṃ sarvajñajñānavirohaṇavibodhanabodhisattvacaryānupacchedanatāyai / evaṃpramukhairdaśabuddhakṣetrapramāṇurajaḥsamaiḥ praṇidhānābhinirhāramukhasamudraiḥ samantabhadrāyāṃ bodhisattvacaryāyāṃ praṇidhimabhinirharati sma tasyāḥ samantabhadrabodhisattvacaryāpraṇidhyabhinirhārāya // sa bhagavān samantajñānaratnārciśrīguṇaketurājastathāgataḥ pūrvakuśalamūlāni saṃcodayati udyotayati saṃdarśayati vivṛṇoti vibhajati saṃprakāśayati sārīkaroti avipraṇāśatāyai, vipulīkaroti mahāspharaṇatāyai, sthāpayati sarvajñatāpramāṇīkaraṇatāyai, yaduta prathamacittotpādamupādāya tathāgatapūrvapraṇidhisamudrāsaṃkhyeyapratilābhāya // bhūtapūrvaṃ kulaputra atīte 'dhvani tataḥ pareṇa daśame kalpe maṇisūryacandravidyotitaprabhāyāṃ lokadhātau candradhvajaśrīketoḥ tathāgatasya pravacane samantajñānārciḥpadmabhadrābhirāmanetraśrīcandrayā dārikayā samantabhadrabodhisattvasamādāpitayā pralugnastathāgatavigrahaḥ padmaniṣaṇṇaḥ pratisaṃskāritaḥ / pratisaṃskārya citritaḥ / citrayitvā ratnapratimaṇḍitaḥ kṛtaḥ / anuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ samantabhadrabodhisattvakalyāṇamitramāgamya / sā tena kuśalamūlena avinipātadharmiṇī sadā devendrakuleṣu manuṣyendrakuleṣu copapannā, sarvatra cābhirūpābhūt prāsādikā darśanīyā paramaśubhavarṇapuṣkalatayā samanvāgatā / sadā ca avirahitābhūttathāgatadarśanena samantabhadrabodhisattvena / tenaiva ca kalyāṇamitreṇa tasyāṃ tasyāṃ jātau paripācitā saṃcoditā smāritā / etarhi ca punastayā samantabhadro bodhisattva ārāgito 'tyantāvirāgaṇatayā // tatkiṃ manyase kulaputra - anyaḥ sa tena kālena tena samayena vairocanaratnapadmagarbhaśrīprabhācūḍo nāma rājacakravartī? na khalu punaste kulaputra evaṃ draṣṭavyam / maitreyaḥ sa bodhisattvaḥ tena kālena tena samayena vairocanaratnapadmagarbhaśrīprabhācūḍo nāma rājābhūccakravartī / syātkhalu punaste kulaputra evam - anyā sā tena kālena tena samayena saṃpūrṇaśrīvakrā nāma rājabhāryābhūt? na khalu evaṃ draṣṭavyam / iyaṃ praśāntarutasāgaravatī nāma rātridevatā, yā mamānantaraṃ saṃniṣaṇṇā / tatkiṃ manyase kulaputra - anyā sā tena kālena tena samayena samantajñānārciḥpadmabhadrābhirāmanetraśrīcandrā nāma rājaduhitā abhūt? na khalvevaṃ draṣṭavyam / ahaṃ sā tena kālena tena samayena samantajñānārciḥpadmabhadrābhirāmanetraśrīcandrā nāma rājaduhitā abhūvam / yanme dārikābhūtayā indradhvajaketostathāgatasya pravacane pralugnastathāgatavigrahaḥ padmodgataḥ pratisaṃskāritaḥ, sa me heturabhūt yāvadanuttarāyāḥ samyaksaṃbodheḥ / yadā cāsmi samantabhadreṇa bodhisattvena anuttarāyāṃ samyaksaṃbodhau samādāpitā, sa me kulaputra prathamacittotpādo bodhāya abhūt / yadā ca sa me bhagavān samantajñānārciḥśrīguṇaketurājaḥ tathāgata upasaṃkramya ābharaṇairavakīrṇaḥ, tathāgatavikurvitaprātihāryaṃ ca dṛṣṭvā dharmaśca me tasya bhagavato 'ntikācchrutaḥ, tadā mayaiṣa sarvalokābhimuikhajagadvinayanidarśano bodhisattvavimokṣaḥ pratilabdhaḥ / sarve ca te sumeruparamāṇurajaḥsamāstathāgatā ārāgitā abhirādhitāḥ, (Gv 216) sarvopakaraṇapūjāsatkāreṇa ca satkṛtāḥ / yaśca taistathāgatairdharmo bhāṣitaḥ, sa me sarvaṃ śrutaḥ / teṣāṃ cāsmi tathāgatānāmavavādānuśāsanīṣu pratipannā / teṣu ca me tathāgateṣu tīvraṃ gauravaṃ pratilabdhaṃ yathārūpeṇa gauraveṇa ekacittakṣaṇe tān sarvāṃstathāgatāṃstāni bodhisattvaparṣanmaṇḍalāni tāni ca sarvāṇi buddhakṣetrāṇi paśyāmi // tasyāṃ ca vairocanaśriyāṃ lokadhātau saṃvṛttāyāṃ tatra ca virajomaṇḍale kalpe nirgate 'nantare maṇicakravicitrapratimaṇḍitavyūhā nāma lokadhāturmahāprabhaśca nāma kalpo 'bhūt / tatra pañca buddhaśatānyutpannāni / tāni mayā sarvāṇyārāgitāni / tasmiṃśca khalu mahāprabhe kalpe mahākaruṇameghadhvajo nāma tathāgataḥ prāthamakalpiko 'bhūt / sa mayā rātridevatābhūtayā abhiniṣkrāman pūjitaḥ / tasyānantaraṃ vajranārāyaṇaketurnāma tathāgata utpannaḥ / sa mayā cakravartibhūtayā pūjitaḥ / tena ca me sarvabuddhotpādasaṃbhavo nāma sūtrāntaḥ saṃprakāśito daśabuddhakṣetraparamāṇurajaḥsamasūtrāntaparivāraḥ / sa ca me śrutaḥ udgṛhītaḥ / tasyānantaraṃ jvalanārciḥparvataśrīvyūho nāma tathāgata utpannaḥ / sa me śreṣṭhiduhitṛbhūtayā pūjitaḥ / tena ca me tryadhvāvabhāsagarbho nāma sūtrāntaḥ saṃprakāśito jambudvīpaparamāṇurajaḥsamasūtrāntaparivāraḥ / sa ca me śrutaḥ udgṛhītaḥ / tasyānantaraṃ sarvadharmasamudrābhyudgatavegarājo nāma tathāgato loka udapādi / sa mayā asurarājabhūtayā pūjitaḥ / tena ca me sarvadharmadhātutalajñānabhedo nāma sūtrāntaḥ saṃprakāśitaḥ pañcasūtrāntaśataparivāraḥ / sa ca me śrutaḥ udgṛhītaḥ / tasyānantaraṃ gambhīradharmaśrīsamudraprabho nāma tathāgata utpannaḥ / sa me nāgendrakanyābhūtayā pūjitaścintārājamaṇiratnameghavarṣamabhipravarṣantyā / tena ca me prītisāgaravivardhanavego nāma sūtrāntaḥ saṃprakāśito daśasūtrāntakoṭīśatasahasraparivāraḥ / sa ca me śrutvodgṛhītaḥ / tasyānantaraṃ ratnaśikharārciḥparvatapradīpo nāma tathāgataḥ utpannaḥ / sa ca me sāgaradevatābhūtayā ratnapadmameghavarṣairupasaṃkramya pūjitaḥ / tena ca me dharmadhātusāgaranayaprabho nāma sūtrāntaḥ saṃprakāśito daśabuddhakṣetraparamāṇurajaḥsamasūtrāntaparivāraḥ / sa ca me śrutvodgṛhītaḥ, smṛtyā ca saṃdhāritaḥ / tasyānantaraṃ guṇasamudrāvabhāsamaṇḍalaśrīrnāma tathāgata utpannaḥ / sa me pañcābhijñaṛṣibhūtayā maharddhivikurvitena ṣaṣṭiṛṣisahasraparivṛtayā upasaṃkramaya gandhapuṣpaśikharameghānabhipravarṣantyā pūjitaḥ / tena ca me anālayadharmapradīpo nāma sūtrāntaḥ saṃprakāśitaḥ ṣaṣṭisūtrāntasahasraparivāraḥ / sa ca me śrutvodgṛhītaḥ, tasyānantaraṃ vairocanaśrīgarbho nāma tathāgata utpannaḥ / ahaṃ ca samatārthasaṃbhavā nāma pṛthivīdevatā abhuvam / sā ahamaprameyapṛthivīdevatāparivārā sarvaratnadrumakośebhyo ratnapuṣpameghavarṣāṇyutsṛjamānā sarvaratnahārameghān pravarṣamāṇā upasaṃkrāntā tasya tathāgatasya pūjākarmaṇe / tena ca me sarvatathāgatasaṃbhavajñānākaragarbho nāma sūtrāntaḥ saṃprakāśito 'prameyasūtrāntaparivāraḥ / sa ca me śrutvā dhārito na vipraṇāśitaḥ / teṣāṃ khalu kulaputra pañcānāṃ buddhaśatānāṃ sarvapaścimo dharmadhātugaganapūrṇaratnaśikharaśrīpradīpo nāma tathāgato loka udapādi / ahaṃ ca tena kālena abhirāmaśrīvakrā nāma (Gv 217) naṭadārikā abhūvam / sā ahaṃ tasya tathāgatasya nagarapraveśasamaye nāṭake pravṛtte buddhānubhāvena ūrdhvaṃ gaganatale sthitvā gāthāsahasreṇa taṃ tathāgatamabhiṣṭuvantī upasaṃkrāntā / tena ca me dharmadhātuvidyotitavyūhaṃ nāma raśmimūrṇakośādutsṛjya sarvakāyo 'vabhāsitaḥ / tayā ca me raśmyā samanantaraspṛṣṭayā dharmadhātunayāvartagarbho nāma vimokṣaḥ pratilabdhaḥ // iti hi kulaputra etān pramukhān kṛtvā yāni tatra maṇicakravicitrapratimaṇḍitavyūhāyāṃ lokadhātau mahāprabhe kalpe pañca buddhaśatānyutpannāni, tāni mayā sarvāṇyārāgitāni, pūjā ca me teṣāṃ tathāgatānāṃ kṛtā / yaśca me taistathāgatairdharmo deśitaḥ, taṃ sarvaṃ smarāmi / ekapadavyañjanamapi me tato dharmanayānna vipramuṣitam / ekaikasya ca me tathāgatasyāntikamupasaṃkrāmantyā aparimāṇānāṃ sattvānāmarthaḥ kṛto buddhadharmasaṃvarṇanatayā / ekaikasya ca me tathāgatasya antikāt tryadhvajñānagarbhadharmadhātuvipulo nāma dharmadhātuśarīrasāgaraḥ sarvajñatāvidyudavabhāsaḥ pratilabdhaḥ sarvasamantabhadracaryāsaṃvāsasamavasaraṇaḥ / etarhyapi me kulaputra praticittakṣaṇamanantamadhyāstathāgatā ābhāsamāgacchanti / sarveṣāṃ ca me teṣāṃ tathāgatānāṃ sahadarśanāt sarvajñatāvidyudavabhāsā āśaye 'vakrāntā apratilabdhapūrvā adṛṣṭapūrvāḥ / na ca samantabhadrāyā bodhisattvacaryāyā uccalāmi / tatkasya hetoḥ? anantamadhyanirdeśa eṣa sarvajñatāvidyudavabhāsapratilambhaḥ // atha khalu samantasattvatrāṇojaḥśrī rātridevatā tasyāṃ velāyāṃ tameva sarvalokābhimukhajagadvinayanidarśanaṃ bodhisattvavimokṣaṃ bhūyasyā mātrayā pradarśayamānā buddhādhiṣṭhānena sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata - śṛṇu sūdhanā vacanametu mamā gambhīra durdṛśa durāvagaham / sarvatriyadhvatalabhedanayaṃ dharmābhamaṇḍalasamantaprabham

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/Gand/13.30

Cite as: Gandavyuhasutra 13.30, in HREEM (hreem.cc/library/Gand/13.30), after GRETIL, Gandavyuhasutra Based on the edition by P.L.

Edition, numbering and licence

GRETIL 4_rellit/buddh/bsu016_u.htm — Gandavyuhasutra Based on the edition by P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon | NOTE: the file numbers verses only within chapters; chapter numbers were inferred from each restart at 1 — verify against a printed edition before citing formally.

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text